अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ६६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ईश्वर उवाच ॥
षट्षष्टितमकं विद्धि देवं जल्पेश्वरं प्रिये ॥
यस्य दर्शनमात्रेण महापापं शमं व्रजेत् ॥१॥
जल्पोनाम महादेवि राजाभूद्भुवि विश्रुतः ॥
सदा जल्परतो नित्यं जल्प वादप्रवर्तकः ॥२॥
विकल्पबहुलो नित्यं संसारगतिचिंतकः ॥
सुबाहुप्रमुखाः पंच पुत्रा जाता महाबलाः ॥३॥
तस्य राज्ञो वरारोहे मूर्ताः पंचाग्नयो यथा ॥
सुबाहुः शत्रुमर्द्दी च जयो विजय एव च ॥
विक्रांतः पंचमः पुत्रः सर्वे शस्त्रास्त्रपारगाः ॥।४।
पित्रा जल्पेन ते राज्ञा पृथग्राज्ये प्रतिष्ठिताः ॥
पृथक्पुत्रा हि ते सर्वे पृथग्देशाधिपाः कृताः ॥५॥
प्राच्यां सुबाहुर्नृपतिर्याम्यां वै शत्रुमर्दनः ॥
पश्चिमायां जयो राजा उत्तरे विजयो नृपः ॥६॥
मध्ये विक्रांतसंज्ञस्तु स्वपदे विनियोजितः ॥
व्यवस्थामीदृशीं कृत्वा स्वयमेव वनं ययौ ॥७॥
बभूवुर्मंत्रिणस्तेषां हिता वंशक्रमागताः ॥
बुभुजुः स्वस्वराज्यानि मंत्रिभिः सहितास्तदा ॥८॥
विक्रांतस्य च यो मंत्री विकल्पैकपरायणः ॥
तेनोक्तं विजने देशे विक्रांतस्य महीभृतः ॥९॥
यस्यैषा पृथिवी कृत्स्ना स समर्थः प्रकीर्तितः ॥
उद्यमेन पदं लब्धं वासवेन महात्मना ॥१०॥
त्रिदशैश्चामृतं लब्धमुद्यमेन महीपते ॥११॥
हीनोद्यमा मानवा ये क्षत्त्रियाश्च विशेषतः ॥
ते हास्यास्पदतां यांति हीनवीर्या दिनेदिने ॥१२॥
स्नेहं च कुरुते भ्राता राज्यलुब्धोऽर्थकारणात् ॥
अर्थवीर्येण तेनैव संतोषं कुरुते नृपः॥
क्रियते न किमर्थं तु भूप मंत्रपरिग्रहः॥
भुज्यते सकलं राज्यं मया ते मंत्रिणा बलात्॥१४॥
परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः ॥
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥१५॥
भूमिमेते निर्गिलंति सर्पा बिलशयानिव ॥
राजानमविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥१६॥
मायया मोहितं सर्वं को वा कस्य च बांधवः ॥
उद्यमः क्रियतां तस्माद्भ्रातॄणां निग्रहे द्रुतम् ॥१७॥
भ्रातृभिर्भ्रातरः सर्वे निहता राज्यकारणात् ॥
धर्मं च शाश्वतं ज्ञात्वा निहताश्चासुराः सुरैः ॥१८॥
इति मंत्रिवचः श्रुत्वा स राजा विस्मयान्वितः ॥
हसित्वा प्रत्युवाचेदं ममायं शत्रुरागतः ॥१९॥
॥ विक्रान्त उवाच ॥
वयं च भ्रातरः पंच पृथिवीं कामयामहे ॥
अतुष्टाः पृथगैश्वर्यं कथं कृत्स्ना भविष्यति ॥२०॥
ज्येष्ठो भ्राता सुबाहुश्च द्वितीयः शत्रुमर्दनः ॥
जयश्च विजयश्चैव तेषां लघुरहं यतः ॥२१॥
॥ मंत्र्युवाच॥।
राज्ये स्थितं पूजयंति ज्येष्ठं पूजार्हणैर्वरैः ॥
कनिष्ठज्येष्ठता केयं राज्यं प्रार्थयतां नृणाम् ॥२२॥
तथेति च प्रतिज्ञाते विक्रांतेन महीभृता॥
स मंत्री कारयामास अभिचारविधिं तदा ॥२३॥
अथर्वणेन मंत्रेण पुरोधाः प्रचकार ह ॥
ज्ञातं पुरोहितैस्तेषां तेऽपि चक्रुः समाहिताः ॥२४॥
अथ कृत्या समुत्पन्ना पश्चात्कृत्याचतुष्टयम् ॥
सपुरोहितभृत्यांस्तानग्रसंस्तु समं तदा ॥२५॥
ततः समस्तलोकस्य विस्मयश्चाभवन्महान् ॥
यदैक कालं नेशुस्ते पृथक्पुरनिवासिनः ॥२६॥
ततः श्रुत्वा च निधनं पुत्राणां जल्पको नृपः ॥
वने वशिष्ठं पप्रच्छ किमेतद्भगवन्प्रभो ॥२७॥
तेनापि कथितं सर्वं वशिष्ठेन महात्मना ॥
दिव्यज्ञानेन वृत्तांतं विकल्पं चाकरोन्नृपः ॥२८॥
॥ राजोवाच ॥
निमित्तोऽहं विनाशस्य धिग्धि ग्जन्म मदीयकम् ॥
सार्द्धं त्वमात्यपुत्रैश्च मृतं ब्राह्मणपंचकम् ॥२९॥
मत्तोऽन्यः कः पापरतो भविष्यति महान्भुवि ॥
यदि जन्म मदीयं स्या न्न च जातु महीतले ॥३०॥
ततस्ते न विनश्येयुर्मम पुत्रपुरोहिताः ॥
धिग्राज्यं धिक्च मे जन्म भूभुजां च महाकुले ॥३१॥
कारणत्वं गतो योऽहं विनाशस्य द्विजन्मनाम् ॥
कुर्वन्तः स्वामिनस्तेऽर्थं पुत्राणां मम याजकाः ॥
नाशं ययुर्न दुष्टास्ते दुष्टोऽहं नाशकारणे ॥३२॥
इत्थमुद्विग्नहृदयः स जल्पः पृथिवीपतिः ॥
पप्रच्छ च पुनः प्रह्वो वशिष्ठं ज्ञानिनां वरम् ॥३३॥
॥ राजोवाच ॥
भगवन्ब्रूहि मे तीर्थमवियोगकरं सदा ॥
सद्यः पापहरं विप्र लिंगं वा कथय प्रभो ॥३४॥
तस्य तद्वचनं श्रुत्वा जल्पस्य पृथिवीपतेः ॥
वशिष्ठः कथयामास दिव्यज्ञानेन पार्वति ॥३५॥
गच्छ जल्प ममादेशान्महाकालवनोत्तमम् ॥
कृत्वा निः क्षत्रियां पृथ्वीं यत्र रामस्तपस्यति ॥
तत्र लिंगमनाद्यं च कुक्कुटेश्वरपश्चिमे ॥३६॥
तदाराधय राजेंद्र जामदग्न्याश्रमे स्थितः ॥
वशिष्ठस्य वचः श्रुत्वा जल्पोऽसौ पृथिवीपतिः ॥३७॥
देवदारुवनं त्यक्त्वा महाकालवनं गतः ॥
ददर्श तत्र तल्लिंगमनाद्यं देवसंस्तुतम्॥
पूजयामास विधिवत्परमेण समाधिना ॥३८॥
तत्र वाणी समुत्पन्ना लिंगमध्याद्वरानने ॥
न त्वं पापसमाचारो न त्वं मरणकारणम् ॥
पुत्राणां नृपविप्राणामदृष्टं तत्र कारणम् ॥३९॥
विपाकेन स्वकीयेन गता वैवस्वतं पुरम् ॥
मा शोकं कुरु राजेंद्र गहना कर्मणो गतिः ॥४०॥
अनेन शुद्धभावेन तुष्टोऽहं नृपसत्तम ॥
यदभीष्टं वरं ब्रूहि तत्ते दास्यामि नान्यथा ॥४१॥
॥ राजोवाच ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
संसारसागरे घोरे मा भवेन्मम जन्म च ॥४२॥
अक्षयां देहि मे कीर्त्तिं नाम्ना मे विश्रुतो भुवि ॥
अयं जल्पेश्वरो देवो जल्पेनाराधितो विभुः ॥४३॥
वदंतु त्रिदशाः सर्वे एष मे दुर्लभो वरः ॥
ये त्वां पश्यंति मनुजा मन्नाम्ना ख्यातिमागतम्॥
तेषां वियोगो मा भूयात्पुत्रतो धनतोऽपि वा ॥४४॥
न संसारभयं तेषां दस्युतो नैव राजतः ॥
न भूतग्रहरोगेभ्यो भयमस्तु कदाचन ॥४५॥
शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः ॥
ते धन्या मानुषे लोके ये त्वां शरणमागताः ॥४६॥
सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः ॥
तत्सर्वमधिकं देव लभ्यते तव दर्शनात ॥४७॥
तावत्पतंति संसारे घोरे दुःखशताकुले ॥
यावन्न दृश्यते देवः संसारार्णवतारकः ॥४८॥
यदा पापक्षयः पुंसां तदा ते दर्शनं भवेत् ॥
महता सुकृतेनैव नाल्पेन तपसा प्रभो ॥४९॥
एवं भविष्यतीत्युक्त्वा तेन लिंगेन पार्वति ॥
पश्यतां सर्वदेवानां स्वतनौ संनिवेशितः ॥५०॥
तस्मिँल्लिंगे लयं प्राप्ते नृपे जल्पे वरानने ॥
देवो जल्पेश्वरः ख्यातो देवैरुक्तो महीतले ॥
भुक्तिदो मुक्तिदश्चैव सदाभीष्टकरः स्मृतः ॥५१॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
जल्पेश्वरस्य देवस्य शृणु केदारसंज्ञकम् ॥५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये जल्पेश्वरमाहात्म्यवर्णनंनाम षदषष्टितमोऽध्यायः ॥६६॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP