अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीमहादेव उवाच ॥
चतुःपंचाशतं विद्धि देवं कंटेश्वरं प्रिये ॥
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत ॥१॥
आद्यकल्पे पुरा देवि राजाभूत्सत्यविक्रमः ॥
स शत्रुभिर्जितः संख्ये हृतकोशोऽतिदुःखितः ॥२॥
वनं जगाम गहनमेकाकी श्रमकर्शितः ॥
तत्राश्रमं ददर्शाथ वसिष्ठस्य महात्मनः ॥३॥
तेनर्षिणा वसिष्ठेन दृष्टमात्रः स भूपतिः ॥
पूजितो विष्टराद्येन राजार्हेण च सादरम् ॥४॥
ज्ञात्वा तपःप्रभावेन सूर्यवंशोद्भवं नृपम् ॥
पप्रच्छागमनं देवि कुशलं च पुनः पुनः ॥५॥
स नृपः कथयामास वसिष्ठाय सुदुःखितः ॥
राज्यं च सकलं ब्रह्मन्हृतं विद्वेषिभिर्मम ॥६॥
त्वामहं शरणं प्राप्तो दुःखैकायतनो यतः ॥
निष्कण्टकं कथं राज्यं भविष्यति पुनः प्रभो ॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥७॥
तस्य तद्वचनं श्रुत्वा वसिष्ठो भगवानृषिः ॥
ध्यात्वा च कथयामास बहुकौतू हलान्वितः ॥८॥
महाकालवनं भूप व्रज त्वं कार्यसिद्धये ॥
दिव्या नदी वने तत्र विश्रुता भुवनत्रये ॥९॥
तस्यास्तीरे शुभं लिंगं पृथुकेश्वर दक्षिणे ॥
द्रक्ष्यसे नृपशार्दूल तपस्यंतं च तापसम् ॥
अस्थिचर्मावशेषं तु चीरवल्कलधारिणम् ॥१०॥
वचनात्तस्य विप्रस्य वसिष्ठस्य महात्मनः ॥
जगाम सहसा राजा महाकालवनं शुभम् ॥११॥
ददर्श तापसं तत्र चिरंजीविनमव्ययम् ॥
उपवासकृतक्षामं द्वादशादित्यवर्चसम् ॥१२॥
तापसेन नृपो दृष्टो मित्रोऽयं मम वल्लभः ॥
प्राप्तो राज्यपरिभ्रष्टो ज्ञात्वा वचनमब्रवीत् ॥१३॥
एह्येहि नृपशार्दूल दिष्ट्या प्राप्तोऽसि मेंऽतिके ॥
इत्युक्त्वा तापसेनैव हुंकारश्च कृतस्तदा ॥१४॥
तद्धुंकारात्तु पातालं भित्त्वा पंच च कन्यकाः ॥
निर्ययुः कांचनं पीठमेका तासां प्रगृह्य वै ॥१५॥
भृंगारं तु गृहीत्वान्या निःसृता जलसंभृतम् ॥
पादप्रक्षालनार्थाय तृतीया समुपस्थिता ॥१६॥
अन्ये द्वे व्यजने गृह्य पार्श्वाभ्यां च व्यवस्थिते ॥
ततो हुंकारमकरोत्पुनरेव महातपाः ॥१७॥
तेन हुंकारशब्देन देवलोकात्समागतम् ॥
दृष्ट्वा चाप्सरसां संघं नृत्यगीतमनो हरम् ॥१८॥
अनंतरं ददर्शाथ लिंगं ज्योतिष्करं परम् ॥
उत्पन्नं च जगद्यस्मिँल्लीयते सचराचरम् ॥१९॥
तद्दृष्ट्वा विस्मयाविष्टो बभूव नृपसत्तमः ॥
प्रणम्य शिरसा विप्रं किमिदं द्विजसत्तम ॥२०॥
एवं पृष्टो नृपेणाथ स विप्रो वाक्यमब्रवीत् ॥
सप्तजन्मानि राजेंद्र त्वयाहं परितोषितः ॥२१॥
अतस्ते दर्शिता माया तपसा दुष्करेण तु ॥
लिंगस्यास्य प्रभावेण पश्य मे तपसो बलम् ॥२२॥
हुंकारेण कृता पृथ्वी जलपूर्णा तु तत्क्षणात् ॥
हुंकाराच्च जलं ग्रस्तं मुखादग्निरजायत ॥२३॥
हुंकारात्पृथिवी सर्वा जाता वह्निमयी तदा ॥
संहृत्य तत्क्षणाद्वह्निं मुखाद्वायुर्विनिर्ययौ ॥२४॥
हुंकारेण कृतं सर्वं तत्क्षणादेव पार्वति ॥
न दिशः प्रदिशो वापि न नक्षत्रग्रहास्तदा ॥२५॥
ततो बभ्राम तन्नास्ति स नृपो विस्मयान्वितः ॥
चिंतयामास सहसा क्व लिंगं क्व च तापसः ॥२६॥
एवं चिंतयतस्तस्य ततः शब्दो महानभूत् ॥
तस्माच्छब्दाच्च संजातं पुरं प्राकारसंवृतम् ॥२७॥
सुहर्म्यकक्ष्यारचितं विशालं विशुद्धजांबूनदभूषितं च ॥
दिव्यैर्जनैः सेवितमात्मविद्भिर्ददर्श राजा सहसा पुरं तत् ॥२८॥
भूयोभवन्महाशब्दस्तस्मात्स्त्रीयुगलं वभौ ॥
सितवस्त्रधरा चैका कृष्णवस्त्रधरा सिता ॥२९॥
पुनः शब्दो बभूवाथ तस्मात्पुरुषसत्तमः ॥
द्विशिराः षण्मुखश्चैव पादैर्द्वादशभिर्युतः ॥३०॥
पुनः शब्दाच्च संजज्ञे पुरुषः सप्तधा गतः ॥
संहृतं हि पुनस्तच्च दर्शयित्वा द्विजेन तु ॥
प्रोक्तमित्थं विशालाक्षि जातकंटकितं नृपम् ॥३१॥
पश्य लोकमिमं मह्यं तपसा निर्मितं नृप ॥
त्वत्प्रियार्थमयं लोको दर्शितस्ते नृपोत्तम ॥३२॥
एवमुक्तस्तदा तेन तापसेन नराधिपः ॥
विस्मयापन्नहृदयः पप्रच्छ प्रयतः सुधीः ॥३३॥
भगवन्सितकृष्णे द्वे के स्त्रियौ द्विजस त्तम ॥
कोऽसौ द्वादशपाद्विप्र द्विशिराः षण्मुखः पुनः ॥३४॥
कश्चासौ पुरुषो ब्रह्मन्य एकः सप्तधाऽभवत् ॥
तस्य तद्वचनं श्रुत्वा कथयामास तापसः ॥३८॥
एते स्त्रियौ त्वया दृष्टे सितकृष्णे नृपोत्तम ॥
ते च रात्र्यहनी प्रोक्ते ब्रह्मणा निर्मिते पुरा ॥३६॥
शीर्षद्वयं च यद्दृष्टं तेऽयने द्वे प्रकीर्तिते ॥
मुखानि यानि दृष्टानि षट् च ते ह्यृतवः स्मृताः ॥
पादा द्वादश ये दृष्टा मासा द्वादश ते स्मृताः ॥३७॥
यः पुमान्सप्तधा जात एकीभूतो नरेश्वर ॥
स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ॥३८८॥
एतत्संवत्सरं चक्रं त्वत्प्रियार्थं निदर्शितम् ॥
एवं विदित्वा राजेंद्र न शोकं कर्तुमर्हसि ॥३९॥
सर्वो विनश्वरो लोकः सदेवासुरमानुषः ॥
मया दृष्टो हि बहुशो लिंगस्यास्य प्रभावतः ॥४०॥
कुरु शत्रुविनाशाय लिंग स्यास्य च दर्शनम् ॥
राज्यं निष्कण्टकं राजन्भविप्यति न संशयः ॥४१॥
एवमुक्तस्तदा राजा दृष्टवाँल्लिंगमुत्तमम् ॥
दर्शनात्तस्य लिंगस्य कण्टका ये महीभृतः ॥
विद्वेषिणो मृतास्तेऽपि श्रुतास्तेन महीभृता ॥४२॥
गतस्तं विषयं राजा चक्रवर्ती बभूव ह ॥
लिंगस्यास्य प्रभावेन राज्यं कृत्वा महाधनैः ॥४३॥
यज्ञैश्च विविधैरिष्ट्वा परं निर्वाणमाप्तवान् ॥
तापसेन श्रुतं सर्वं दृष्टं ध्यानेन तेन वै ॥४४॥
लब्धं निष्कण्टकं राज्यं लिंगस्यास्य च दर्शनात् ॥
मम मित्रेण सहसा राज्यभ्रष्टेन तेन वै ॥४५॥
अतो नाम सुविख्यातं कण्टेश्वर इति क्षितौ ॥
भविष्यति न संदेहो दर्शनाद्राज्यदायकः ॥४६॥
अद्यप्रभृति पश्यन्ति देवं कण्टेश्वरं शिवम् ॥
तेषां च कण्टकाः सद्यो विनश्यन्ति न संशयः ॥४७॥
नैमिषेथ कुरुक्षेत्रे गंगाद्वारे च पुष्करे ॥
स्नानात्संसेवनाद्वापि यत्पुण्यं च भविष्यति ॥
तत्पुण्यं भविता सम्यक्छ्रीगणेश्वरदर्शनात् ॥४८॥
गृहिणो लिंगिनो वापि ये पश्यंति यतव्रताः ॥
देवं कण्टेश्वरं भक्त्या तेषां सिद्धिर्भविष्यति ॥४९॥
जन्मांतरसहस्रेण यत्पापं पूर्वसंचितम् ॥
तत्सर्वं यास्यति क्षिप्रं श्रीकण्टेश्वरदर्शनात् ॥५०॥
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ॥
ध्यानमध्ययनं चैव सर्वं भवति चाक्षयम् ॥५१॥
एवं ब्रुवाणं तं विप्रं तापसं संशितव्रतम् ॥
लिंगेनोक्तं विशालाक्षि तुष्टेन वरपूर्वकम् ॥५२॥
जरारोगविनिर्मुक्तः सर्वशोकविवर्जितः ॥
भविष्यति गणाध्यक्षो वरदः सर्वपूजितः ॥
अवध्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः ॥५३॥
एवमुक्तोऽथ लिंगेन तापसो गणतां गतः ॥
गणैः परिवृतो देवि मम पार्श्वमुपागतः ॥५४॥
अन्धकेन पुरा युद्धे सिंहनादो यदा कृतः ॥
तदा देवि मदीयं तु जातं कण्टकितं वपुः ॥५५॥
उत्पन्नं च तदा लिंगमशेषारिविनाशनम् ॥
देवानां कण्टका ये च दग्धा लिंगाग्निना यतः ॥
अतः कंटेश्वरो देवो विख्यातो भुवनत्रये ॥५६॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कंटेश्वरस्य देवस्य शृणु सिंहेश्वरं परम् ॥५७॥
इति श्रीस्कांदे महापुराण एकशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कंटेश्वरमाहात्म्यवर्णनंनाम चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP