संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ४१

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीमहादेव उवाच ॥
चत्वारिंशत्तमं सैकमीश्वरं विद्धि पार्वति ॥
लुंपेश्वरमिति ख्यातं नाम यस्य महीतले ॥१॥
देशे म्लेच्छगणाकीर्णे बभूव जगतीपतिः ॥
लुंपाधिप इति ख्यातो महेंद्रसमविक्रमः ॥२॥
तस्यासीद्दयिता भार्या विशालानाम नामतः ॥
सा यौवनगुणोपेता रूपेणाप्रतिमा भुवि ॥३॥
स युद्धकामो नृपतिः पर्यपृच्छद्विजोत्तमान् ॥४॥
अथ केनापि कथितमाश्रमे सामगो द्विजः ॥।
तेन सार्द्धं महाबाहो युध्यस्व त्वं नृपोत्तम ॥५॥
ततः स प्रस्थितो राजा म्लेच्छैः सार्द्धं सहस्रशः ॥
तुषारैर्बर्बरैर्लुंपैः पह्लवैः श्वगणैस्तथा ॥६॥
दस्युभिः संवृतः क्रूरैः क्रोधेनाकुलितेंद्रियः ॥
आजगामाश्रमं पुण्यं सामगस्य मुनेस्तदा ॥७॥
मुनिना पूजितस्तेन मधुपर्कादिविष्टरैः ॥
एतस्मिन्नन्तरे राजा होमधेनुं ददर्श ह ॥८॥
प्रार्थयामास सहसा न दत्ता मुनिना तदा ॥
प्रमथ्य चाश्रमं तस्य होमधेनुं जहार सः ॥
वनं बभंज सकलं तस्य विप्रस्य पश्यतः ॥९॥
काल्यमानां च गां दृष्ट्वा वत्सं चातीव दुःखितम् ॥
उवाच वचनं विप्रो मा राजन्साहसं कुरु ॥१०॥
एवं वदंतं विप्रेंद्रं शरैस्तीक्ष्णैर्जघान ह ॥
लुंपः क्रोधसमाविष्टो दुष्टो दुष्टजनैर्वृतः ॥११॥
असकृत्पुत्रपुत्रेति विलपंतमनाथवत् ॥
हत्वा च सामगं विप्रं जगाम स्वगृहं नृपः ॥१२॥
एतस्मिन्नंतरे पुत्रः समित्पाणिरुपागतः ॥
दृष्ट्वा च पितरं विप्रं तदा मृत्युवशं गतम् ॥
अनागसं महात्मानं विललाप सुदुःखितः ॥१३॥
केनेदं कुत्सितं कर्म कृतं पापेन मे पिता ॥
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितेः ॥१४॥
विलप्यैवं सकरुणं बहुना नाविधं तथा ॥
प्रेतकार्याणि सर्वाणि पितुश्चक्रे विधानतः ॥१५॥
ददाह पितरं चाग्नौ तोयमादाय सत्वरम् ॥
तस्य लुंपाधिपस्यापि ददौ शापं सुदारुणम् ॥१६॥
स्वधर्मनिरतो विद्वान्येन मे निहतः पिता ॥
स पापात्मा दुराचारः कुष्ठरोगमवाप्नुयात् ॥१७॥
एतस्मिन्नन्तरे राजा कुष्ठरोगेण पीडितः ॥
अचंक्रमणतां प्राप्तो लुंपाधीशो वरानने ॥१८॥
औषधैरधिकोऽभ्येति ब्रह्मशापप्रभावतः ॥
वैराग्यान्मर्तुकामोऽसौ काष्ठान्यादाय दुःखितः ॥१९॥
चितां कर्तुं समारेभे समायातोऽथ नारदः ॥
पूजितो विधिना तेन दुःखितेन नृपेण हि ॥२०॥
अथ पप्रच्छ लुंपोऽसौ नारदं मुनिसत्तमम् ॥
अकस्मान्मम देवर्षे कुष्ठरोगो बभूव ह ॥
तेनाहं पीडितोऽतीव न च शांतिं व्रजत्यसौ ॥२१॥
औषधैर्वर्द्धते कस्मादेतदाख्यातुमर्हसि ॥
न तेस्त्वविदितं किंचिदिहलोके परत्र च ॥२२॥
तस्य तद्वचनं श्रुत्वा लुंपाधीशस्य नारदः ॥
कथयामास तत्सर्वं ब्रह्मशापं सुदुस्तरम्॥ २३॥
ततः सभार्यो नृपतिः प्रार्थयामास नारदम् ॥
कथं मे भगवञ्छापो दुस्तरो यास्यति क्षयम् ॥२४॥
एवमुक्तस्तु लुम्पेन नारदो भगवानृषिः ॥
कारुण्यात्कथयामास सभार्यस्य यशस्विनि ॥२५॥
महाकालवने राजँल्लिंगं कुष्ठहरं परम् ॥
सर्वसंपत्करं तत्र विद्यते पापनाशनम् ॥२६॥
शिप्रायाश्च तटे रम्ये केशवार्कस्य पूर्वतः ॥
तत्र त्वं गच्छ राजेंद्र कांत्या युक्तो भविष्यसि ॥२७॥
एवमुक्तस्तु लुंपोऽसौ ह्याजगाम त्वरान्वितः ॥
महाकालवनं रम्यं महर्षिगणसेवितम् ॥२८॥
प्राप्तः स्वर्गोपमं भूपः शिप्रया परिशोभितम् ॥
विवेश च मुदा युक्तो दृष्ट्वा लिंगमनुत्तमम् ॥२९॥
स्नात्वा शिप्राजले पुण्ये महापातकनाशने ॥
दर्शनात्तस्य लिंगस्य दिव्यरूपो वभूव ह ॥३०॥
कुष्ठरोगेण मुक्तस्तु मुक्तो वै ब्रह्महत्यया ॥
कृतकृत्यो नृपो जातो दर्शनादेव पार्वति ॥३१॥
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः ॥
तापसानां परं चक्रे सत्कारं भार्यया सह ॥३२॥
ततः कृतस्वस्त्वयनस्तापसैस्तैर्महात्मभिः ॥
दिव्यज्ञानान्वितैर्दिव्यैः सूर्यवैश्वानरप्रभैः ॥३३॥
कृतं नाम तदा तस्य लिंगस्य कमलानने ॥
लुंपेनाराधितो यस्माद्देवोऽयं कुष्ठनाशनः ॥
लुम्पेश्वर इति ख्यातो भविष्यति महीतले ॥३४॥
पूजयिष्यंति ये भक्त्या लिंगं लुम्पेश्वरं परम् ॥
स्नात्वा शिप्राजले पुण्ये ते यास्यंति परं पदम् ॥३५॥
प्रार्थयिष्यंति यान्कामान्मनसा। चेप्सितान्प्रियान् ॥
तानाप्स्यंति न सन्देहो लुम्पेशस्य च दर्शनात् ॥३६॥
महापापसमायुक्तो यः पश्यति समाहितः ॥
लिंगं लुम्पेश्वरं सोऽपि देवतुल्यो भविष्यति ॥३७॥
गोघ्नश्चैव कृतघ्नश्च मातृहा गुरुतल्पगः ॥
दुष्टकर्मसमाचारो भ्रातृहा पितृहा तथा ॥३८॥॥
लुम्पेश्वरं सकृत्पश्यन्मुच्यते सर्वकिल्बिषैः ॥
पूजितोऽपि दहेत्पापं सप्तजन्मार्जितं च यत् ॥३९॥
इत्युक्त्वा मुनयः सर्वे पूजयामासु रन्विताः ॥
 कुष्ठरोगविनिर्मुक्तो राजा स्वविषयं गतः ॥४०॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
लुम्पेश्वरस्य देवस्य शृणु गंगेश्वरं परम् ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये लुंपेश्वरमाहात्म्यव र्णनंनामैकोनचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP