अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ६०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीमहादेव उवाच ॥
मतंगेश्वर संज्ञं तु षष्टिसंख्याकमीश्वरम् ॥
विद्धि पापहरं देवि समीहितकरं सदा ॥१॥
सुगतिर्नाम विप्रेन्द्रो बभूव द्वापरे युगे ॥
सत्यवादी सदा दांतो वेदाध्ययनतत्परः ॥२॥
मतंगस्तस्य पुत्रोऽभूद्बाल्याद्दारुणतां गतः ॥
सबालं गर्दभं देवि तिष्ठन्तं मातुरंतिके ॥
दण्डकाष्ठेन सहसा ताडयामास चापलात् ॥३॥
तं तु तीव्राहतं दृष्ट्वा गर्दभी पुत्रगृद्धिनी ॥
उवाच मा शुचः पुत्र चंडालोऽयं न वै द्विजः ॥४॥
ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते ॥
तुदन्पापाकृतिरयं बाले न कुरुते दयाम् ॥५॥
स्वकीयां भजते चाथ प्रकृतिं मानवः सदा ॥
एतच्छ्रुत्वा मतंगस्तु दारुणं गर्द्दभीवचः ॥६॥
दंडकाष्ठं परित्यज्य रासभीं प्रत्यभाषत ॥
ब्रूहि रासभि कल्याणि माता मे येन दूषिता ॥७॥
कथं मां वेत्सि चंडालं यायावरकुलोद्भवम् ॥
केन जातोस्मि चंडालो ब्राह्मण्यं येन मे गतम् ॥८॥
॥ गर्दभ्युवाच ॥
नापितेन प्रमत्तेन ब्राह्मण्यां वृषलेन हि ॥
ततस्त्वमसि चांडालो ब्राह्मण्यं तेन ते गतम् ॥९॥
एवमुक्तो मतंगस्तु पितरं वाक्यमब्रवीत् ॥
ताताश्चर्यं श्रुतं मेऽद्य जातोऽहं नापितेन वै ॥१०॥
गर्दभ्या कथितं सम्यक्तस्मात्तप्स्ये महत्तपः ॥
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः ॥११॥
स गत्वा च ततोऽरण्यमतप्यत महत्तपः ॥
ततः संतापयामास विबुधांस्तपसान्वितः ॥१२॥
तं तथा तपसा युक्तमुवाच हरिवाहनः ॥
मतंग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान्॥
वरं ददामि तेऽहं तं वृणीष्व त्वं यदिच्छसि ॥१३॥
॥ मतङ्ग उवाच ॥
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ॥
देहि मे शाश्वतं शक्र वर एष वृतो मया ॥१४॥
एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः ॥
ब्राह्मण्यं याचसे त्वं हि दुष्प्रापमकृतात्मभिः ॥१५॥
नाशमेष्यसि दुर्बुद्धे तदुपारम मा चिरम्॥
चंडालयोनौ जातेन न तत्प्राप्यं कथंचन ॥१६॥
एवमुक्तो मतंगस्तु संशितात्मा यत व्रतः ॥
अतिष्ठदेकपादेन वर्षाणां शतसंख्यया ॥१७॥
तमुवाच ततः शक्रः पुनरेव महायशाः ॥
ब्राह्मण्यं दुर्लभं वीर मा कृथाः साहसं वृथा ॥१८॥
न हि शक्यं प्राप्तुमेवमचिरान्नाशमेष्यसि ॥
वृणु वा काममन्यं त्वं ब्राह्मणत्वं सुदुर्लभम् ॥१९॥
एवमुक्तो मतंगस्तु संशितात्मा दृढव्रतः ॥
सहस्रमेकं पादेन ततोऽब्दानामवर्त्तत ॥२०॥
तदेव च पुनर्वाक्यमुवाच बलवृत्रहा ॥
चंडालायौनौ जातेन नावाप्यं ते कथंचन ॥२१॥
अन्यं वरं वृणीष्व त्वं मा कृथास्तत्स्वयं श्रमम् ॥
एवमुक्तो मतंगस्तु भृशं शोकपरायणः ॥२२॥
अतिष्ठत गयां गत्वा सोंगुष्ठेन शतं समाः ॥
सुदुष्करं वहन्योगं प्राणायामपरायणः ॥२३॥
त्वगस्थिभूतो धर्मात्मा तताप परमं तपः ॥
तपंतं तमभिद्रुत्य परिजग्राह वासवः ॥२४॥
वराणामीश्वरो दाता सर्वभूतहिते रतः ॥२५॥
॥ शक्र उवाच ॥
मतंग ब्राह्मणत्वं हि विरुद्धमिह दृश्यते ॥
ब्राह्मण्यं दुर्ल्लभं तात ह्यसतां पापशीलिनाम् ॥२६॥
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः ॥
तदुत्सृज्येह दुष्प्राप्यं ब्राह्मण्यमकृतात्मभिः ॥२७॥
अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः ॥२८॥
॥ मतंग उवाच ॥
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् ॥
तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं नानुपालयेत्॥२९॥
ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैः शतक्रतो॥
तपसा च कथं लब्धं विश्वामित्रेण भूभुजा॥३०॥
वीतहव्यश्च राजर्षिस्तपसा विप्रतां गतः॥
तस्मात्तपः करिष्यामि निर्द्वंद्वो निष्परिग्रहः॥ ३१॥
अहिंसादमसत्यस्थः कथं नार्हामि विप्रताम् ॥
दैवेन कृतमेतद्धि यद्यहं मातृदोषतः॥३२॥
एतामवस्थां संप्राप्तो दैवयोगात्पुरंदर ॥
नूनं दैवं न शक्यं तु पौरुषेण निवर्त्तितुम् ॥३३॥
यदहं यत्नवानेवं न लभे विप्रतां विभो ॥
एवं ज्ञात्वा तु देवेश दातुमर्हसि मे परम्॥३४॥
यदि तेऽहमनुग्राह्यः किंचिद्वा सुकृतं मम॥
तदुपायं हि मे शंस कथं विप्रो भवामि वै॥३५॥
यथा ममाक्षया कीत्तिर्भवेद्वापि पुरंदर ॥
कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये । ३६॥
इत्युक्तो हि मतंगेन वासवो बलवृत्रहा ॥
कथयामास संतुष्टो लिंगमाहात्म्यमुत्तमम् ॥३७॥
॥ इन्द्र उवाच ॥
महाकालवने लिंगं स्थापितं ब्रह्मणा पुरा ॥
दिव्यमूर्त्तिधरं दिव्यं श्रीसिद्धेश्वरपूर्वतः ॥३८॥
तस्य दर्शनमात्रेण विप्रत्वं समवाप्स्यसि ॥
वासवस्य च वाक्येन मतंगो गतवांस्तदा ॥३९॥
महाकालवनं रम्यं सिद्धक्षेत्रमथापरम् ॥
ददर्श तत्र तल्लिंगमशेषफलदायकम् ॥४०॥
दृष्ट्वा संपूजयामास पुष्पैर्नानाविधैस्तथा ॥
पूजितः प्रत्युवाचेदं मतंगं देवसत्तमः ॥४१॥
अहो महान्सभाग्योसि यस्त्वया तोषितोऽस्म्यहम् ॥
मत्तः सर्वं समुद्भूतं ब्रह्मांडं भूर्भुवादिकम् ॥४२॥
वरदोऽस्मि वरार्हाणां शापदोऽस्मि दुरात्मनाम ॥
ब्राह्मण्यं मत्प्रसादाच्च अक्षयं ते भविष्यति ॥४३॥
ततोऽसौ विप्रतां यातो मतंगो लिंगदर्शनात ॥
पुनः पूजाप्रभावेण ब्रह्मलोकं गतो द्विज ॥४४॥
ब्राह्मण्यं दुर्लभं लब्धं लिंगस्यास्य प्रभावतः ॥
मतंगेन वरारोहे तस्माद्देवो विगीयते ॥४५॥
मतंगेश्वरको लोके ब्रह्मलोकप्रदायकः ॥
वर्णाश्रमेषु विद्विष्टाः पाषंडवचने रताः ॥४६॥
निर्मर्यादा निराचारा निःशंकाश्चातिलोलुपाः ॥
निर्घृणाः क्रूरर्माणो धृष्टाः कलियुगे नराः॥
दर्शनात्तस्य लिंगस्य तेऽपि यांति त्रिविष्टपम् ॥४७॥
ये विशुद्धा महाभागा ध्यानिनो मुक्तिभागिनः ॥
ते पश्यंति कलौ देवि मतंगेश्वरमीश्वरम् ॥४८॥
ब्रह्मध्यानपरा ये च यज्ञदानक्रियारताः॥
ते पश्यंति कलौ देवि मतंगेश्वरमीश्वरम् ॥४९॥
येऽर्चयंति महा देवि मतंगेश्वरमीश्वरम ॥
कृतपुण्या नरा मर्त्त्ये तेषां वासोऽक्षयो दिवि॥५०॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
मतंगेश्वरदेवस्य शृणु सौभाग्यमीश्वरम् ॥५१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये मतंगेश्वरमाहात्म्य वर्णनंनाम षष्टितमोऽध्यायः ॥६०॥छ ॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP