अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीहर उवाच ॥
षट्चत्वारिंशकं देवि वीरेश्वरमथो शृणु ॥
यस्य दर्शनमात्रेण कुलवृद्धिर्भवेद्ध्रुवम् ॥१॥
निशामय महा वि वीरेशाविर्भवं परम् ॥
यच्छ्रुत्वा पितरः पुण्यं प्राप्नुयुर्विपुलं शिवे ॥२॥
आसीदमित्रजिन्नाम राजा परपुरंजयः ॥
धार्मिकः सत्त्वसंपन्नः प्रजारंजनतत्परः ॥३॥
यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः ॥
सदैवावभृथस्नातः परिक्लिन्नशिरोरुहः ॥४॥
विनीतो नीतिसंपन्नः कुशलः सर्वकर्मसु ॥
विद्याविशारदश्चाथ गुणवान्गुणिवत्सलः ॥५॥
कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः ॥
सत्यवाञ्छौचनिलयः सत्यवाग्विजितेंद्रियः ॥६॥
रणांगणे कृतांतस्य संख्यावांश्च सदोजिरे ॥
कामिनीकेलिकालज्ञो युवापि स्थविरप्रियः ॥७॥
धर्मार्थ धनकोशश्च समृद्धबलवाहनः ॥
सुभगश्च सुरूपश्च सुमेधाः सुप्रजाप्रियः ॥८॥
स्थैर्यधैर्यसमापन्नो देशकालविचक्षणः ॥
मान्यानां मानदो नित्यं सर्वदूषणवर्जितः ॥९॥
वासुदेवांघ्रियुगले चेतोवृत्तिं निधाय च ॥
चकार राज्यं निर्द्वंद्वं धिग्धिगीतिविवर्जितम ॥१०॥
अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः ॥
अभुनक्प्रवरान्भोगान्समंताद्विष्णुसंस्कृतान् ॥११॥
हरेराराधनान्युच्चैः प्रतिसौधं पदेपदे ॥
तस्य राज्ये समभवन्महाभागनिधेः शिवे ॥१२॥
गोवृन्दगोपगोपालगोपीजनमनोहर ॥
गदापाणे गुणातीत गुणाश्च गरुडध्वज ॥१३॥
केशिहन्कैटभाराते कंसारे कमलापते ॥१४॥
कृष्ण केशव कंजाक्ष कीनाशभयनाशन ॥
पुरुषोत्तम पापारे पुण्डरीकविलोचन ॥१५॥
पीतकौशेयवसन पद्मनाभ परात्पर ॥
जनार्द्दनजगन्नाथ जाह्नवीजलजन्मभूः ॥१६॥
जन्मिनां जन्महरण जंजपूकौघनाशन ॥
श्रीवत्सवक्षः श्रीकंठ श्रीकर श्रेयसांनिधे ॥१७॥
श्रीरंग शार्ङ्गकोदंड शौरे शीतांशुलोचन॥
दैत्यारे दानवाराते दामोदर दुरंतक ॥१८॥
देवकीहृदयानंद दंदशूकेश्वरेशय ॥
विष्णो वैकुण्ठनिलय बाणारे विष्ट रश्रवः ॥१९॥
विष्वक्सेन विभो वीर वनमालिन्बलिप्रिय ॥
त्रिविक्रम त्रिलोकेश चक्रपाणे चतुर्भुज ॥२०॥
इत्यादीनि पवित्राणि नामानि प्रति मंदिरे ॥
स्त्रीवृद्धबालगोपालवदनोदीरितानि तु ॥२१॥
श्रूयंते यत्र कुत्रापि रम्याणि मधुविद्विषः ॥
सुरम्यकाननान्येव विलोक्यंते गृहेगृहे ॥२२॥
विचित्राणि चरित्राणि गीयंते च गृहेगृहे ॥
सौधभित्तिषु दृश्यंते चित्राणि कृत्रिमाणि च ॥२३॥
ऋते हरिकथायास्तु नान्या वार्त्ता निशम्यते ॥
हरिणा नैव वध्यंते हरिणा मांसधारिणः ॥२४॥
तस्य राज्ञो भयाद्व्याधैररण्ये सुखचारिणः ॥
न मत्स्या नैव च बका वराहाश्च न केनचित् ॥२५॥
हन्यंते क्वापि तद्भीत्या मत्स्यमांसाशिनाऽपि व ॥
अपुत्रा न नरास्तस्य राष्ट्रेऽमित्रजितः क्वचित् ॥२६॥
स्तनपानं न कुर्वंति संप्राप्य हरिवासरम् ॥
पशवोऽपि तृणाहारं परित्यज्य हरेर्दिने ॥
उपोषणपरा जाता अन्येषां का कथा नृणाम् ॥२७॥
महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते ॥
अस्मिन्प्रशासति भुवं संप्राप्ते हरिवासरे ॥२८॥
यो विष्णुभक्तिरहितः प्राणैरपि धनैरपि ॥
स एव दण्ड्यो भुंक्ते यो राज्ञोऽमित्रजितः क्षितौ ॥२९॥
अन्त्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः ॥
संप्राप्य वैष्णवीं दीक्षां दीक्षिता इति संस्थिताः ॥३०॥
शुभानि यानि कर्माणि क्रियंतेऽनुदिनं जनैः ॥
वासुदेवे समर्प्यंते तानि तैरफलेप्सुभिः ॥३१॥
विना मुकुंदगोविंद परमानंदमच्युतम् ॥
नान्यो जप्येत नम्येत सभाज्येत जनः क्वचित् ॥
कृष्ण एव परो बंधुस्तस्यासीदवनीपतेः ॥३२॥
एवं तस्मिन्महीपाले राज्ये सम्यक्प्रशासति ॥
एकदा नारदः श्रीमांस्तं दिदृक्षुः समाययौ ॥३३॥
राज्ञा समर्चितः सोऽथ मधुपर्कविधानतः ॥
नारदो वर्णयामास तममित्रजितं नृपम् ॥३४॥
॥ श्रीनारद उवाच ॥
धन्योऽसि कृतकृत्योऽसि मान्योऽप्यसि दिवौकसाम् ॥
सर्वभूतेषु गोविंदं परिपश्यन्विशांपते ॥३५॥
यो वेदपुरुषो विष्णुर्यो यज्ञपुरुषो हरिः ॥
योंऽतरात्मास्य जगतः कर्ता हर्ताविता विभुः ॥३६॥
तन्मयं पश्यतो विश्वं तव भूपालसत्तम ॥
दर्शनं प्राप्य शुभदं शुचित्वमगमं परम् ॥३७॥
एष एव हि सारोऽत्र संसारे क्षणभंगुरे ॥
कमलाकांतपादाब्जभक्तिभावोऽखिलप्रदः ॥३८॥
परित्यज्य हि यः सर्वं विष्णुमेकं सदा भजेत् ॥
सुमेधसं भजंते तं पदार्थाः सर्व एव हि ॥३९॥
हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो ॥
स एव स्थैर्यमाप्नोति ब्रह्मांडेऽतीव चंचले ॥४०॥
यौवनं धनमायुष्यं जलं पद्मदले यथा ॥
अतीव चंचलं ज्ञात्वाऽच्युतमेव सदाश्रयेत् ॥४१॥
वाचि चेतसि कर्णेऽथ यस्य देवो जनार्दनः ॥
स एव सर्वदा वेद्यो नररूपी जनार्द्दनः ॥
निर्व्याजप्रणिधानेन शीलयित्वा श्रियःपतिम् ॥४२॥
पुरुषोत्तमतां को न प्राप्तस्त्वमिव भूतले ॥
अनया विष्णुभक्त्या ते संतुष्टेंद्रियमानसः ॥
उपकर्तुमना ब्रूयां तन्निशामय भूपते ॥४३॥
मालाविद्याधरसुता नाम्ना मलयगंधिनी ॥
क्रीडंती पितुराक्रोडे हृता कंकालकेतुना ॥४४॥
कपालकेतुपुत्रेण दानवेन बलीयसा ॥
आगामिन्यां तृतीयायां तस्याः पाणिग्रहः किल ॥४५॥
पाताले चंपकावत्यां नगर्यां सास्ति सांप्रतम् ॥
हाटकेशात्समागच्छंस्तयाऽहं साश्रुनेत्रया ॥४६॥
दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निशामय ॥
ब्रह्मचारिन्मुनिश्रेष्ठ गंधमादनशैलतः ॥४७॥
बालक्रीडनकासक्तां मां जह्रे त्रस्तमान साम् ॥
कंकालकेतुर्दुर्वृत्तस्तस्य नास्ति च पातकः ॥४८॥
स स्वत्रिशूलघातेन म्रियते नान्यथा रणे ॥
जगत्पर्याकुलीकृत्य निद्रात्यथ विनिर्भयः ॥४९॥
यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम् ॥
मद्दत्तेन त्रिशूलेन नयेद्भद्रं च वै कृतम् ॥५०॥
यद्यत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्ट दानवात् ॥
ममापि हि वरो दत्तो भगवत्योमया पुरा ॥
विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति ॥५१॥
आतृतीयातिथि यथा तद्वाक्यं तथ्यतां व्रजेत्॥
तथा निमित्तमात्रं त्वं भव यत्नं समाचर ॥५२॥
इति तद्वचनाद्राजन्विष्णुभक्तिपरायणम् ॥
युवानं चापि धीमन्तं त्वामनुप्राप्तवानहम् ॥५३॥
तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम्॥
आनयाशु महाबाहो शुभां मलयगंधिनीम्॥५४॥
सा तु विद्याधरी बाला विलोक्य त्वां नरेश्वर ॥
अवश्यमेव तच्छूलं दास्यतीति विनिश्चितम् ॥
पार्वतीवचनाद्दुष्टं घातयिष्यस्यसंशयम्॥ ५५॥
इति नारदवाक्यं स निशम्यामित्रजिन्नृपः ॥
अनल्पोत्कलिको जातो विद्याधरसुतां प्रति॥
उपायं चापि पप्रच्छ गंतुं वै चंपकावतीम् ॥५६॥
नारदेन पुनः प्रोक्तः स राजा गिरिराजजे ॥
तूर्णमर्णवमासाद्य पूर्णिमादिवसे नृप ॥५७॥
भवान्द्रक्ष्यति पोतस्थकल्पवृक्षरथास्थिताम्॥
तत्र दिव्यांगनां कांचिद्दिव्यपर्यंकसुस्थिताम्॥
वीणामादाय गायंतीं गाथामत्यंतसुस्वरम् ॥५८॥
यत्कर्म विहितं येन शुभं वाप्यथवाऽशुभम् ॥
स एव भुंक्ते तत्तथ्यं विधिस्तत्र नियंत्रितः ॥५९॥
गाथामिमां तु संगीय सरथा समहीरुहा ॥
सपर्यंका क्षणादेव मध्येसिंधुं प्रवेक्ष्यति ॥६०॥
भवानप्यविशंकं च ततः पोतान्महार्णवे ॥
तमनुव्रजतु क्षिप्रं यज्ञवाराहसा त्मवान् ॥६१॥
ततो द्रक्ष्यसि पाताले नगरीं चंपकावतीम् ॥
महामनोहरा राजन्सनाथां बालया तया ॥६२॥
इत्युक्त्वांतर्हितो देवि स चतुर्मु खनंदनः ॥
राजाप्यर्णवमासाद्य यथोक्तं परिलक्ष्य च ॥६३॥
विवेशांतः समुद्रं च नगरीमाससाद ताम् ॥
सापि विद्याधरी बाला नेत्रयोः प्राघु णीकृता ॥६४॥
तेन राज्ञा त्रिजगतीसौंदर्यश्रीरिवैकिका ॥
पाताले देवतेयं वा मम नेत्रोत्सवाय किम् ॥६५॥
निरमायि प्रमोद्देशात्स्रष्टृसृष्टिर्वि लक्षणा ॥
कुहूराहुभयद्वेषात्कांतिश्चांद्रमसी किमु ॥६६॥
योषिद्रूपं समाश्रित्य तिष्ठत्यत्राकुतोभया ॥
इत्थं क्षणं च निर्वर्ण्य स राजाऽगच्छदंति कम् ॥६७॥
सा विलोक्याथ तं बालं नितरां मधुराकृतिम् ॥
विशालोरःस्थलतलप्रलंयतुलसीस्रजम् ॥६८॥
शंखचक्रांकसुभगभुजद्वयविराजि तम् ॥
हरिनामाक्षरसुधासुधौतरदनावलिम् ॥६९॥
भवानीभक्तिबीजोत्थभूरुहं पुरुषाकृतिम् ॥
अनेनात्र कृतं कस्य भवनं मधुराकृति ॥७०॥
इति पर्याकुलीकृत्य चक्षुषी च मुहुर्मुहुः ॥
कंकालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः ॥७१॥
तावद्गुप्तं समातिष्ठ शस्त्रागारेऽत्र गह्वरे ॥
न मे कन्याव्रतं भग्नं सामर्थ्याच्चण्डिकावरात् ॥७२॥
आगामिन्यां तृतीयायां परश्वः पाणिपीडनम् ॥
स चिकीर्षति दुष्टात्मा गतायुर्मम शापतः ॥७३॥
मा तद्भीतिं कुरु युवंस्त्वत्कार्यं भविताचिरात् ॥
विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत् ॥७४॥
स्थिरो वीरो महाबाहुर्दानवागमनेक्षणः ॥७५॥
अथ सायं समायातो दानवो भीषणाकृतिः ॥
त्रिशूलं कलयन्पाणौ मृत्योरपि भयावहम् ॥७६॥
आगत्य दानवो रौद्रः प्रलयांबुदनिस्वनः ॥
विद्याधरीं जगादेति मदाघूर्णितलोचनः ॥७७॥
गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि ॥
कन्यात्वं हि परश्वस्ते पाणिग्राहो भविष्यति ॥७८॥
दासीनामयुतं प्रातर्दास्यामि तव सुंदरि ॥
आसुरीणां सुरीणां च दानवीनां मनोहरम् ॥७९॥
गन्धर्वीणां किंनरीणां सततं परिचारिकाः ॥
विद्याधरीणां नागीनां यक्षीणां च शतानि षट् ॥८०॥
राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम् ॥
एतास्ते परिचारिण्यो भविष्यंत्यमलाशये ॥८१॥
यावत्संपत्तिसंभारो दिक्पालानां गृहेषु वै ॥
मत्परिग्रहतां प्राप्तौ तावतस्त्वं महेश्वरी ॥८२॥
दिव्यान्भोगान्मया सार्द्धं भोक्ष्यसे मत्परिग्र हात् ॥
कदा परश्वो भविता यस्मिन्वैवाहिको विधिः ॥८३॥
त्वदंगसंगसंस्पर्शसुखस्वादातिमेदुरः ॥
परां निर्वृतिमाप्स्यामि परश्वो निकटं यदि ॥८४॥
मनोरथाश्चिरं यावद्ये मे हृदि समेधिताः ॥
तान्कृतार्थी करिष्यामि परश्वस्तव संगमात् ॥८५॥
जित्वा देवान्रणे सर्वानिंद्रादीन्मृगलो चने॥
त्रैलोक्यैश्वर्यसंपत्तेस्त्वां करिष्यामि चेश्वरीम् ॥८६॥
आधायांके त्रिशूलं च सुष्वापेति प्रलप्य सः॥
नरमांसस्य स्वादेन प्रमत्तो वीतसाध्वसः॥८७॥
वरं स्मरंती सा गौर्या विद्याधरकुमारिका ॥
विज्ञाय तं प्रमत्तं च प्रसुप्तं चातिनिर्भयम् ॥
आहूय तं नरवरं वरं सर्वांगसुंदरम् ॥८८॥
विष्णुभक्तिकृतत्राणं प्राणनाथेति जल्प्य च ॥
शूलं तदंकादादाय ददौ तस्मै च सुंदरी ॥८९॥
तमादाय त्रिशूलं च स तदामित्रजिन्नृपः ॥
संस्मरंश्चक्रिणं चित्ते जगद्रक्षामणिं हरिम्॥ ९०॥
जगादोत्तिष्ठ रे दुष्ट कन्यादूषणलालस ॥
युध्यस्व च मया सार्द्धं न सुप्तं हन्म्यहं रिपुम् ॥९१॥
इति संश्रुत्य संप्राप्तः कस्य दृष्टोद्य चांतकः ॥
क आयुषाद्य संत्यक्तो यः प्राप्तो मम गोचरम् ॥९२॥
मम प्रचंडदोर्दंडकंडूकंडूयनक्षमः ॥
माल्यो नरोऽयं भविता किं त्रिशूलेन सुंदरि ॥९३॥
मा भैर्मे कौतुकं पश्य भक्षोयं मम सांप्रतम् ॥
कालेन मत्तो भीतेन स्वयमेवोपढौकितः ॥९४॥
इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दंडसूनुना ॥
हृदये निहतो राजा शिलातिकठिने द्रुतम् ॥९५॥
स चक्रिणा कृतत्राणः पीडां नाल्पीयसीमपि ॥
विवेद कठिनोरस्कः करस्तस्य प्रपीडितः ॥९६॥
अथ कोपवता राज्ञा हतो वक्त्रे चपेटया ॥
आघूर्णितशिरा भूमौ पतित्वा पुनरुत्थितः ॥
उवाच च वचो धैर्यमवष्टभ्य महाबली ॥९७॥
॥ दानव उवाच ॥
ज्ञातं तत्त्वं मनुष्योसि नृरूपेण चतुर्भुजः ॥
ततस्त्वं छिद्रमासाद्य हंतुं मां दानवांतक ॥९८॥
एवंविधो हि मधुभिद्यदि त्वं बलवानसि॥
विहायैतन्महच्छूलं युध्यस्व स्वायुधैर्मया॥ ९९॥
त्वया कपटरूपेण बलिना कैटभादयः॥
न बलेन हताः संख्ये हता एव च्छलेन हि ॥१००॥
बलिं पातालमनयस्त्वं नृवामनतां दधत् ॥
नृमृगत्वेन भवता हिरण्यकशिपुर्हतः ॥१॥
तथा जटिलरूपेण लंकेशो विनिपातितः॥
गोपालवेषमालंब्य कंसाद्या घातितास्त्वया ॥
स्त्रीभूय चाहरस्त्वं हि विप्रतार्यासुरान्सुधाम् ॥२॥
यादोरूपेण भवता शंखाद्या निहता इह ॥
मायाविना त्वयाऽगण्याः सर्वमर्मज्ञ माधव ॥३॥
न त्वत्तोऽहं बिभेम्यद्य सद्यः पातः शरीरिणाम् ॥
वरं तव श्रये मृत्युं बलेनापि छलेन वा ॥४॥
न त्यक्ष्यसि त्रिशूलं त्वं न त्वां योत्स्याम्यहं रणे ॥
अवश्यमेव मर्त्तव्यं मया प्रातः शरीरिणा॥ ५॥
इयं विद्याधरी कन्या न मया दूषिता सती ॥
साक्षाच्छ्रीरिव मंतव्या तवार्थं रक्षिता मया ॥६॥
इत्युक्त्वा वामदोर्दंडप्रहारेणापि निष्ठुरम् ॥
निजघान दनोः सूनुस्तं शिलोच्चय घातिना ॥७॥
नृपतिस्त्वथ संधार्य विषह्य रणमूर्द्धनि ॥
जघानाशु तदा क्रूरं त्रिशूलेनाथ वक्षसि ॥८॥
तत्प्रहारान्महाबाहुः पंचत्वमगम त्क्षणात् ॥
लक्ष्यीचकार तद्वक्त्रं त्रिशूलं तोलयन्करे ॥९॥
पश्यतोऽस्य महाबाहोः स च प्राणाञ्जहौ क्षणात्॥
इत्थं कंकालकेतुं स निहत्य सुरकं पनम् ॥११०॥
विद्याधरीं प्रपश्यंतीं प्राह हृष्टतनूरुहः ॥
नारदस्य मुनेर्वाक्यात्तव सुश्रोणि वांछितम् ॥११॥
कृतं मया कृतज्ञे किं करवाण्यधुना वद ॥
श्रुत्वेति तस्य सा वाक्यं प्राह गंभीरचेतसा ॥१२॥
॥ मलयगंधिन्युवाच ॥
अत्युदारमते वीर निजप्राणैः पणीकृताम् ॥
किं मां पृच्छसि युवतीं कुलकन्यामदूषिताम् ॥१३॥
इति ब्रुवंत्यां कन्यायां पुनः स्वैरचरो मुनिः ॥
अतर्कितागमः प्राप्तो नारदो देवलोकतः ॥१४॥
ततस्तुष्टुवतुस्तौ तु तं दृष्ट्वा मुनिसत्तमम् ॥
कृतप्रणामौ मुनिना प्रतिज्ञाप्रापिताशिषौ ॥१५॥
पाणिग्रहेण विधिनाऽभिषिक्तौ नारदेन तु ॥
जग्मतुर्नारदादिष्टवर्त्मना कृतमंगलौ ॥१६॥
तया मलयगंधिन्या वृतः सोऽमित्रजिन्नृपः ॥
पुरीं चोज्जयिनीं प्राप्य पौरैर्विहितमंगलाम्॥१७॥
तद्वीक्षणादपि नरो नारकीं नैव जातुचित् ॥
गतिं प्राप्नोति मेधावी तां पुरीमविशन्नृपः ॥१६॥
यस्यां पुर्यां प्रवेशं न लभन्ते वास वादयः ॥
कैवल्यजयजैत्र्यां हि तां पुरीमविशन्नृपः ॥१९॥
सापि विद्याधर्यवंतीं समृद्धां वीक्ष्य दूरतः ॥
निनिंद स्वर्गलोकं च पातालनगरी मपि ॥१२०॥
प्राप्यामित्रजितं कांतं तथा हृष्टा न सा वधूः ॥
यथा दृष्ट्वाप्यहोऽवंतीं परमानंददायिनीम् ॥२१॥
सा कृतार्थामिवात्मानं मन्य माना मनस्विनी ॥
तेन पत्योज्जयिन्यां च परां निर्वृतिमाप सा ॥२२॥
सोऽप्यमित्रजिदासाद्य पत्नीं मलयगंधिनीम् ॥
धर्मप्रधानं संसेव्य कामं प्रापोत्तमं सुखम् ॥२३॥
सा पतिं विष्णुभजने रतं प्रोवाच भामिनी ॥२४॥
॥ राज्ञ्युवाच ॥
भूपाभीष्टतृतीयायां चरिष्यामि महा व्रतम् ॥
॥ राजोवाच ॥
देव्यभीष्टतृतीयायां व्रतं कीदृग्भवेद्वद ॥२५॥
इति राज्ञोदिता राज्ञी प्रवक्तुमुपचक्रमे ॥
इति कर्तव्यतां तस्य व्रतस्य सविधानकाम्॥ २६॥
॥ राज्ञ्युवाच ॥
पुरा देवर्षिणा चेदं व्रतं लक्ष्म्यै प्रतिश्रुतम् ॥
तया प्राप्तास्तु सकलाः कामाः स्वर्गापवर्गदाः ॥२७॥
मार्गशीर्षतृतीयायां शुक्लायां कलशोपरि ॥
ताम्रपात्रं निधायैव तंदुलैः परिपूरितम् ॥२८॥
अच्छिद्रं च नवीनं च रजनीरागरंजितम् ॥
वासः पात्रोपरि न्यस्य सूक्ष्मात्सूक्ष्मतरं परम् ॥२९॥
तस्योपरि शुभं पद्मं रविरश्मिप्रकाशितम् ॥
तत्कर्णिकाया उपरि चतुःस्वर्णविनिर्मितम् ॥
विधिं संपूजयेद्भक्त्या रक्तमाल्यांबरादिभिः ॥१३०॥
पुष्पैः सुगंधैः कर्पूरकस्तूर्यादिभिरर्चयेत् ॥
रात्रौ जागरणं कार्यं विप्राणां परमोत्सवैः ॥३१॥
होमः कार्यो महाभक्त्या सहस्रपरिसंख्यया ॥
नवप्रसूतां कपिलां दद्याच्च सुपयस्विनीम् ॥३२॥
दद्यादाचार्यवर्याय सालंकारां सदक्षिणाम् ॥
उपोष्य दंपती भक्त्या नवांबरविभूषितौ ॥३३॥
प्रातः स्नात्वा चतुर्थ्यां च संपूज्याचार्यमादितः ॥
वस्त्रैराभरणैर्माल्यैर्दक्षिणाभिर्मुदान्वितः ॥
सोपस्करां च तां मृर्तिमाचार्याय प्रदापयेत् ॥३४॥
मंत्रः ॥
नमो विश्वविधानज्ञे विद्ये विविधकारिणि ॥
सुतं च शंकरं देहि तुष्टा ह्यस्माद्व्रतोत्तमात ॥३५॥
सहस्रं भोजयित्वाथ द्विजानां भक्तिपूर्वकम् ॥
भुक्तशेषेण चान्नेन कुर्याद्वै पारणं ततः ॥३६॥
इत्थमेतद्व्रतं नाथ चिकीर्षामि त्वदाज्ञया ॥
कुरु चैतत्प्रियं मह्यमभीष्टफललब्धये ॥३७॥
इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा ॥
तदा व्रतं समाचीर्णं सांतर्वत्नी बभूव ह ॥३८॥
तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता ॥
पुत्रं देहि महामाये साक्षाद्विष्ण्वंशसंभ वम् ॥३९॥
जातमात्रो व्रजेत्स्वर्गं पुनरायाति चात्र वै ॥
भक्तः सदाशिवेऽत्यर्थं प्रसिद्धः सर्वभूतले ॥
विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात ॥१४०॥
एवंभूतः सुतो गौरि यथा स्यान्मे तथा कुरु ॥
मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया ॥४१॥
अथ कालेन तनयं मूलर्क्षे साऽप्यजीजनत् ॥
हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता ॥४२॥
देवि राजार्थिनी त्वं तु त्यज दुष्टर्क्षजं सुतम् ॥
सा मंत्रिवाक्यमाकर्ण्य केवलं पतिदेवता ॥४३॥
अत्याक्षीत्तं तथा प्राप्तं तनयं नयकोविदा ॥
धात्रिकां तु समाहूय प्राहेदं सा नृपांगना ॥४४॥
पंचमुद्रे महापीठे विकटानाम मातृका ॥
तदग्रे स्थापयित्वामुं बालं धात्रि त्विदं वद ॥४५॥
गौरि दत्तः शिशुरसौ तवाग्रे विनिवेदितः ॥
राज्ञ्या पत्युः प्रियैषिण्या मंत्रिविज्ञप्तिनुन्नया ॥४६॥
सापि राज्ञ्युदितं श्रुत्वा बालं शिशुशशिप्रभम् ॥
विकटायाः पुरोभागे संस्थाप्य गृहमागता ॥४७॥
अथ सा विकटा देवी समाहूय च योगिनीः ॥
उवाच नयत क्षिप्रं शिशुं मातृगणाग्रतः ॥४८॥
तासामाज्ञां च कुरुत रक्षतामुं प्रयत्नतः ॥
योगिन्यो विकटावाक्यात्खेचर्यस्तत्क्षणेन तम् ॥४९॥
निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः ॥
प्रणम्य योगिनीवृन्दं तं शिशुं सूर्यवर्चसम् ॥१५०॥
पुरो निधाय मातॄणां प्रोचुश्च विकटोदितम् ॥
ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका ॥
कौमारी चापि माहेन्द्री चामुण्डा चैव चंडिका ॥५१॥
दृष्ट्वा तं बालकं रम्यं विकटाप्रेषितं ततः ॥
पप्रच्छुर्युगपद्वाक्यं कस्ते बाल प्रमुख्यकः ॥५२॥
मातृभि श्चेति पृष्टस्तु यदा किंचिन्न वक्ति सः ॥
तदा च योगिनीचक्रं प्राह मातृगणस्त्विति ॥५३॥
राज्ययोग्यो भवत्येष महालक्षणलक्षितः ॥
पुनस्तत्रैव नेतव्यो योगिन्यस्त्वविलंबितम् ॥५४॥
पञ्चमुद्रा महादेवी तिष्ठते यत्र कामदा ॥
यस्याः संसेवनान्नॄणां निर्वाणश्रीरदूरतः ॥५५॥
तत्पीठसे वनादस्य षोडशाब्दाकृतेः शिशोः ॥
सिद्धिर्भवित्री परमा रुद्रस्यानुग्रहात्परा ॥५६॥
एवं मातृगणात्सद्यो योगिनीभिः क्षणेन तु ॥
प्रापितो मातृवाक्येन पञ्चमुद्रांतिकं पुनः ॥५७॥
संप्राप्य तन्महापीठं स्वर्गलोकादिहागतः ॥
महाकालवने पुण्ये तताप विपुलं तपः ॥५८॥
तपसातीव तीव्रेण निश्चलेन्द्रियमानसः ॥
तस्य राजकुमारस्य प्रसन्नोऽभूदुमाधवः ॥५९॥
आविर्बभूव पुरतो लिंगरूपेण शंकरः ॥
उवाच च प्रसन्नोस्मि वरं ब्रूहि नृपांगज ॥१६०॥
सर्वज्योतिर्मयं लिंगं पुरतो दृष्टवान्स्वयम् ॥
सप्तपातालमुद्भिद्योत्थितं बृहदनुग्रहात् ॥६१॥
प्रणम्य दंडवद्भूमौ परि तुष्टाव धूर्जटिम् ॥
सूक्तैर्जन्मांतराभ्यासात्सुहृष्टो रुद्रदैवतैः ॥
वरं च प्रार्थयांचक्रे परिहृष्टतनूरुहः ॥६२॥
देवदेव महादेव यदि देयो वरो मम ॥
तदत्र भवता स्थेयं भवतापहृता सदा ॥६३॥
अस्मिँल्लिंगे स्थितः शंभो कुरु भक्तसमीहितम् ॥
विना मुद्रादिकरणं मंत्रेणापि विना विभो ॥६४॥
अस्य लिंगस्य ये भक्ता मनोवाक्कायकर्मभिः ॥
सदैवानुग्रहस्तेषु कर्त्तव्यो वर एष मे ॥६५॥
इति तद्वरमाकर्ण्य लिंगरूपोऽवदत्प्रभुः ॥
एवमस्तु यदुक्तं ते वीर वैष्णवसूनुना ६६॥
वीर वीरेश्वरंनाम लिंगमेतत्त्वदाख्यया ॥
अवंत्यां संप्रदास्यामि भक्तानां चिंतितान्यहो ॥६७॥
अत्र दत्तं हुतं जप्तं स्तुतमर्चितमेव च ॥
तदक्षयं भवेदत्र भक्तानां नात्र संशयः ॥६८॥
त्वं तु राज्यं परं प्राप्य सर्वभूपालदुर्लभम् ॥
भुक्त्वा भोगांश्च विपुलानंते सिद्धिमवाप्स्यसि ॥६९॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
वीरेश्वरस्य देवस्य नूपुरेशमथो शृणु ॥१७०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये वीरेश्वरमाहात्म्यवर्णनंनाम षट्चत्वारिंशो ऽध्यायः ॥४६॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP