अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीहर उवाच ॥
चतुस्त्रिंशत्तमं विद्धि देवं वै कंथडेश्वरम् ॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥१॥
वितस्तायास्तटे रम्ये ब्राह्मणो निवसन्पुरा ॥
बभूव पांडवोनाम दरिद्रेणातिपीडितः ॥२॥
ज्ञातिभिश्च परित्यक्तो दुष्टया भार्यया तथा ॥
कंथाप्येका स्थिता यस्य सर्वस्वप्रेमधारिणी ॥३॥
तेनाहं सुतकामेन तोषितो गिरिगह्वरे ॥
मयाप्युक्तं विशालाक्षि पुत्रस्तव भविष्यति ॥४॥
तस्य पुत्रः समुत्पन्नः कंथामध्यादयो निजः ॥
शीतोष्णवारिणी कंथा तस्य पुत्रस्य साऽभवत् ॥५॥
स च लब्धः प्रसादेन मदीयेन वरानने ॥
रुद्रेण च वरो दत्तः कंथाया भविता पुनः ॥६॥
अथ षष्ठे गते वर्षे मौंजीबंधमचिंतयत् ॥
तदामंत्र्य मुनीन्सर्वान्प्रसाद्य च पुनः पुनः ॥
नमस्कृत्य ऋषीन्सर्वान्पूजयामास भक्तितः ॥७॥
फलैर्वित्तानुसारेण मौंजी तस्याप्यबंधत ॥
तेऽप्युक्ता मुनयः सर्वे प्रसाद्य च पुनःपुन ॥८॥
दीयतामाशिषो ह्यस्मै पुत्राय मुनिसत्तमाः ॥
मम पुत्रस्य पुत्रोऽयं दीर्घायुर्जायतां चिरम् ॥९॥
तूष्णींभूयः स्थिताः सर्वे तच्छ्रुत्वा नोत्तरं ददुः ॥
यदा ते नोत्तरं प्रोचुस्तदा मुनिवरः स्वयम् ॥
ध्यानेन चिंतयामास नूनमल्पायुषं सुतम् ॥१०॥
इति ज्ञात्वा तु संमोहमगमत्सहसा मुनिः ॥
विललाप स दुःखार्त्तः सुतस्नेहेन दुःखितः ॥११॥
॥ वाडव उवाच॥
दत्तः स्वयं महेशेन ममाल्पायुः कथं सुतः ॥
रुद्रेण च वरो दत्तः प्रसन्नेन पुरा मम ॥१२॥
मत्तुल्यवीर्यः पुत्रस्ते कंथामध्याद्भ विष्यति ॥
जातं च दत्त्वा ह्यल्पायुं मिथ्या त्र्यक्षस्य तद्वचः ॥१३॥
पितरं दुःखितं दृष्ट्वा तूष्णींभूतो मुनिस्तदा ॥
स बालः सहसा वाक्यं बभाषे हर्षवर्द्धनम् ॥१४॥
त्यजत भयमिदानीं यन्ममार्थे विषण्णा विनिहतनिजयत्नं प्रेतराजं करोमि ॥
शृणुत मम गिरं भोः सेश्वरा लोकपालाः पितृपतिविजयार्थं सत्प्रतिज्ञा ममैषा ॥१५॥
अतिविषमतपोभिः शंकरं तोषयित्वा स्वपितुरपि च भक्त्या हन्मि मृत्योर्जयाशाम् ॥
किमतिशयविषाद व्याकुलास्तात सर्वे सपदि पितृपतिं तं स्वे वशे स्थापयामि ॥१६॥
प्रयामि रुद्रं शरणं महेश्वरं देवं वरं चाप्युमयाऽविहीनम् ॥
शृण्वंतु सर्वे मुनयः समंतान्न मादृशे मृत्युपराभवोस्ति ॥१७॥
तपोभिरुग्रैः शितिकंठपादौ प्रसाद्य मृत्युं न चिराद्विनेष्ये ॥
कंथाजवाक्यामृतलोलनेत्राः संजातरोमां चलसत्स्वदेहाः ॥१८॥
पप्रच्छुरेनं मुनयः शिशुं तं जानासि रुद्रं परमं कथं त्वम् ॥
वयं चिरं कालमुपासमानास्तपोभिरुग्रैर्व्रतसंचयैश्च ॥१९॥
तथापि विद्मो न वयं महेशं ज्ञातस्त्वयासौ कथमर्भकेण ॥
ईहामहे तं किल पुत्र सम्यक्छ्रोतुं प्रहर्षाद्भुतजातरोमाः ॥२०॥
ज्ञातस्त्वया कुत्र कथं महेशो महेश्वरो वै भुवनैकनाथः ॥२१॥
इति तेषां वचः श्रुत्वा मुनीनां भावितात्मनाम् ॥
स बालः कथयामास वृत्तांतं पर्वतात्मजे ॥२२॥
ममात्र क्रीडतः सिद्धः सिद्धिदः समुपागतः ॥
विज्ञायाल्पायुषं मां तु वात्सल्यादब्रवीदिदम् ॥२३॥
गच्छ पुत्र ममादेशान्महाकालवनोत्तमे ॥
दक्षिणे चास्ति यल्लिंगमानंदेश्वरलिंगतः ॥२४॥
तमाराधय शीघ्रं त्वं चिरजीवी भविष्यसि ॥
तस्योपदेशदानेन ज्ञातं सम्यङ्महेश्वरात् ॥२५॥
नान्यो देवोस्ति लोकेषु सत्यं सत्यं मुनीश्वराः ॥
तस्मादद्यैव यास्यामि महाकालवने शुभे ॥२६॥
लिंगमाराधयिष्यामि विषादस्त्यज्यतामिह ॥
तस्य तद्वचनं श्रुत्वा तेन सार्द्धं महर्षयः ॥२७॥
पिता च विस्मितो देवि सर्व एव समागताः ॥
देवमाराधयामास बालः कालजिघांसया॥ २८॥
लिंगमध्यात्ततो वाणी निःसृता पर्वतात्मजे ॥
अहो तुष्टोस्मि ते वत्स कं कामं प्रददाम्यहम् ॥२९॥
॥ बाल उवाच ॥
यदि तुष्टोऽसि मे देव ये त्वां पश्यंति शंकर ॥
पापकंथाविनिर्मुक्तास्ते संतु चिरजीविनः ॥३०॥
बालस्य भाषितं श्रुत्वा लिंगे नोक्तं यशस्विनि ॥
ये च मां पूजयिष्यंति श्रद्धया परया युताः ॥
ते भविष्यंति सततं जरामरणवर्जिताः ॥३१॥
लप्स्यंते परमान्कामान्भविष्यंति गणोत्तम ॥
पूज्याः सर्वेषु लोकेषु सर्वालंकारभूषिताः ॥३२॥
एवं लब्धवरः कंथः प्रांजलिः समुपस्थितः ॥
लिंगेनोक्तः प्रसन्नेन भूयो वरय सुव्रत ॥३३॥
वरो वै दुर्लभो लोके देवदानवगुह्यकैः ॥
मयावतारितो यस्मान्नास्त्यदेयं तवाधुना ॥३४॥
बालेनोक्तो महादेव यदि देयो वरः पुनः ॥
मन्नाम्ना देव ते ख्यातिर्भूयात्त्रिभुवने भुवि ॥३५॥
एवमस्त्विति लिंगेन प्रोक्तं तुष्टेन पार्वति ॥
तदाप्रभृति देवेशो विख्यातः कंथडेश्वरः ॥
यस्य दर्शनमात्रेण चिरायुर्जायते नरः ॥३६॥
यः समीक्षति तल्लिंगं कंथडेश्वरमीश्वरम् ॥३७॥
पापकंथाविनिर्मुक्तो मुक्तिं यास्यति गौरि सः ॥
पुण्यं यशस्यं गेयं तल्लिंगं पापप्रणाशनम् ॥
पुनाति पातकान्सर्वान्मम नामानुकीर्तनात् ॥३८॥
तेऽधन्याः पुरुषा लोके तेषां जन्म निरर्थकम्॥
यैर्न दृष्टो महाकाले देवोऽसौ कंथडेश्वरः ॥३९॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कंथडेश्वरदेवस्य इन्द्रेश्वरमथो शृणु ॥४०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कंथडेश्वरमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥३४॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP