संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ४२

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीहर उवाच ॥
द्वाचत्वारिंशतं देवं गंगेश्वरमथो शृणु ॥
यस्य दर्शनमात्रेण सर्वतीर्थफलं लभेत् ॥
ध्रुवाधारं जगद्योनेः पदं नारायणस्य तु ॥१॥
पदात्प्रवृत्ता या देवी गंगा त्रिपथगा नदी ॥
सा प्रविश्य सुधायोनिं सोममाधारमंभसाम् ॥२॥
ततः संवर्द्धमानार्करश्मिसंगतिपावनी ॥
पपात मेरुपृष्ठे च सा चतुर्धा ततो ययौ ॥३॥
मेरुकूटतटान्तेभ्यो निपतन्ती यशस्विनी ॥
विकीर्यमाणसलिला निरालंबा पपात सा ॥४॥
मन्दरादिषु शैलेषु प्रविभक्तोदका समम् ॥
तत्र सीतेति विख्याता ययौ चैत्ररथं वनम् ॥५॥
तत्प्लायित्वा च ययावरुणोदं सरिद्वरा ॥६॥
तथैवालकनन्दाख्या दक्षिणे गन्धमादने ॥
मेरुपादवनं गत्वा नन्दने देवनन्दने ॥७॥
मानसं च महावेगात्प्लावयित्वा सरोवरम् ॥
तस्माच्च शैलराजानं रम्यं त्रिशिखरं गता ॥८॥
तस्माच्च पर्वताः सर्वे प्लावितास्तत्क्षणात्प्रिये ॥
तान्प्लावयित्वा संप्राप्ता हिमवन्तं महागिरिम् ॥९॥
मया धृता च तत्रैव जटाजूटेन पार्वति ॥
न मुक्ता च यदा गंगा तदा क्रुद्धा ममोपरि ॥१०॥
गात्राणि प्लावयामास मदीयानि वरानने ॥
मया च रुद्धा क्रोधेन जटामध्ये यशस्विनि ॥११॥
तत्रैव सा तपश्चक्रे बहुकल्पशतानि च ॥
भगीरथेनोपवासैः स्तुत्या चाराधितो ह्यहम् ॥१२॥
तदा मुक्ता मया देवि गंगा त्रिपथगामिनी ॥
महाकालमनुप्राप्ता प्लावयित्वोत्तरान्कुरून्॥ १३॥
समुद्रमहिषी जाता प्राणेभ्योऽपि गरीयसी ॥
नदीनामुत्तमा गंगा समुद्रेण कृता तदा ॥
स तया सहितो रेमे समुद्रः सरितांपतिः ॥१४॥
ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः ॥
तथार्णवो जगामाथ ब्रह्मलोकं सनातनम्॥
गंगया सहितो देवि दर्शनार्थं महोत्सवे ॥१५॥
अथ गंगा सरिच्छ्रेष्ठा समुपायात्पितामहम् ॥
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥१६॥
ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा ॥
महाभिषस्तु राजर्षिर्निःशंको दृष्टवान्नदीम् ॥१७॥
तस्य भावं विदित्वाऽथ ब्रह्मणा स तिरस्कृतः ॥
उक्तस्तु जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥१८॥
गंगा शप्ताथ क्रुद्धेन समुद्रेण यशस्विनि ॥
मां विहायान्यसक्तासि तस्माद्यास्यसि मानुषम् ॥१९॥
लोकमल्पायुषं दीना तत्र दुःखमवाप्स्यसि ॥
तं शापं दारुणं श्रुत्वा गंगा वचनमब्रवीत् ॥२०॥
विनापराधाच्छप्ताहं कस्माद्वै देवसंसदि ॥
पतिव्रता पतिप्राणा पतिना परमार्थतः ॥२१॥
प्रमादाद्वस्त्रमुद्धूतं वायुना व्यापकेन तु ॥
प्रत्युवाच ततो ब्रह्मा तां नदीं लोकपावनीम् ॥२२॥
वसूनां कारणाद्देवि शप्ता यस्मान्महानदि ॥
भाव्यर्थे तोयनिधिना तस्माच्छीघ्रं व्रजाधुना ॥२३॥
महाकालवने रम्ये सिद्धगंधर्वसेविते ॥
शिप्राया दक्षिणे भागे विद्यते लिंगमुत्तमम्॥ २४॥
सर्वसिद्धिकरं पुण्यं सर्वपातकनाशनम् ॥
तमाराधय यत्नेन स ते दास्यति वांछितम्॥२५॥
पितामहवचः श्रुत्वा तुष्टा त्रिपथगामिनी ॥
गमनं तत्र मेऽभीष्ट विद्यते यत्सखी मम ॥
शिप्रापि मे प्रिया पुण्या महापातकनाशिनी ॥२६॥
इति संचिंत्य मनसा दिव्या देवनदी तदा ॥
आजगाम महाकाले ह्यपश्यल्लिंगमुत्तमम् ॥२७॥
पूजयामास पयसा दिव्येन विधिना तदा ॥
दृष्ट्वा शिप्रां सखीं तत्र संश्लेषं चाभवत्तयोः ॥२८॥
ततः प्रभृति संजाता सा शिप्रा पूर्ववाहिनी ॥
त्रिषु लोकेषु विख्यातो देवो गंगेश्वरः स्वयम् ॥
गंगयाराधितो यस्मात्समीहितफलप्रदः ॥२९॥
संस्तुता देवगंधर्वैर्गंगा देवनदी तदा ॥
ऋषिभिर्वालखिल्याद्यैस्तथान्यैर्मुनिभिर्मुदा ॥३०॥
समुद्रस्तत्र संप्राप्तो मानिता सा महानदी ॥
लिंगेनोक्ता तदा गंगा कलया स्थीयतामिति ॥३१॥
तत्समीपे महापुण्ये यावत्तिष्ठति मेदिनी ॥
अंगीकृतं समुद्रेण यथोक्तं च तथा स्त्विति ॥३२॥
एवमुक्त्वा गता गंगा कलया तत्र संस्थिता ॥
गंगेश्वरं तु यः पश्येत्स्नात्वा शिप्रांभसि प्रिये ॥३३॥
गोसहस्रफलं तस्य जायते नात्र संशयः ॥
सर्वतीर्थफलं तस्य सर्वधर्मफलं तथा॥३४॥
सर्वयज्ञफलं सम्यक्सर्वदानफलं तथा ॥
सर्वयोगफलं देवि प्राप्नोत्येव निरन्तरम्॥३५॥
तत्र तीर्थानि सुभगे पृथिव्यां यानि कानिचित्॥
धर्मारण्यं फल्गुतीर्थं पुष्करं नैमिषं गया ॥३६॥
प्रयागं च कुरुक्षेत्रं केदारममरेश्वरम् ॥
चंद्रभागा विपाशा च सरयूर्देविका कुहू ॥३७॥
गोदावरी शतद्रुश्च बाहुदा वेत्रवत्यपि ॥
सर्वा एवात्र सरितः संगताः संति गंगया ॥३८॥
गुप्तानि पुण्यतीर्थानि सिद्धक्षेत्राणि चैव हि ॥
तत्र सर्वाणि तिष्ठंति कलामात्रेण पार्वति ॥३९॥
एतेषां फलमाप्नोति यः पश्यति समाहितः ॥
स्नात्वा गंगेश्वरं देवं सत्यमेतन्मयोदितम् ॥
अतः पुण्यतमं स्थानं गीयते गणवंदिते ॥४०॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
गंगेश्वरस्य देवस्य शृण्वंगारेश्वरं परम् ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये गंगेश्वर माहात्म्यवर्णनंनाम द्वाचत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP