संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ४४

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ईश्वर उवाच ॥
चत्वारिंशत्तमं विद्धि चतुर्भिरधिकं परम्॥
यस्य दर्शनमात्रेण समीहितफलं लभेत् ॥
उत्तरेशमिति ख्यातं समीहि तफलप्रदम्॥१॥
पुरा नियुक्ताः शक्रेण ये मेघा वृष्टिकारकाः ॥
तैः प्लावितं जगत्सर्वं सपर्वतमहीतलम्॥२॥
एकार्णवे ततो जाते देवा भीता वरानने ॥
निःस्वाध्यायवषट्काराः स्वधास्वाहाविवर्जिताः ॥३॥
नैवाप्यायनमस्माकं विना होमेन जायते॥
वयमाप्यायिता विप्रैर्यज्ञभागैर्यथोचितैः ॥४॥
तेषां वयं प्रयच्छामः कामान्यज्ञादिपूजिताः ॥
नास्ति तत्सर्वमेवैतदन्योन्यमवदन्सुराः ॥५॥
दृष्ट्वा पृष्वीं जले मग्नां ब्रह्माणं शरणं गताः ॥
कथयामासुरत्युग्रं नमस्कृत्य पितामहम् ॥६॥
एकार्णवा मही जाता विनष्टाः क्रतवः प्रभो ॥
निःस्वाध्यायवषट्कारं जगज्जातं पितामह ॥७॥
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥
मुहूर्त्त चिंतयामास किमेतदिति विस्मितः ॥८॥
अकाले प्रलयः कस्मान्निमग्ना पृथिवी जले ॥
गता सृष्टिर्मदीया तु व्यर्थं जातं वचो मम ॥९॥
इति संचिंत्य हृदये सस्मार बलसूदनम् ॥
स्मृतमात्रस्तु बलहा ह्याजगाम पितामहम् ॥१०॥
प्रोवाच वचनं श्रुत्वा नम स्कृत्य पितामहम् ॥
स्मृतोऽहं केन कार्येण देह्याज्ञां मे पितामह ॥११॥
ब्रह्मणोक्तस्तदा शक्रः किमर्थं प्लाविता मही ॥
असंबद्धैस्त्वदीयैश्च मेघैः किं सहसा कृतम् ॥१२॥
ततः सर्वे समाहूता मेघाः शक्रेण पार्वति ॥
पितामहसमक्षं तु समायाताश्च तत्क्षणात् ॥१३॥
पितामहेन शक्रेण मर्यादा च कृता तदा ॥
गजोनाम महामेघः पूर्वस्यां दिशि निर्मितः ॥१४॥
गजाकारैस्ततो मेघैः सहस्रैर्दशभिर्वृतः ॥
गवयो दक्षिणामाशां षट् सहस्राधिपः कृतः ॥१५॥
शरभः पश्चिमामाशां सहस्राधिपतिः कृतः ॥
उत्तरोनाम यो मेघो मेघैः कोटिभिरावृतः ॥१६॥
उत्तरस्यां दिशि तदा प्रभुत्वे संप्रतिष्ठितः ॥
मर्यादा च कृता देवि ब्रह्मणा वासवेन तु ॥१७॥
प्रावृट्काले च वर्षध्वं नक्षत्रैर्जलजैद्रुतम् ॥
आर्द्रादिस्वातिपर्यंतं नक्षत्रद शकं स्मृतम्॥ १८॥
ब्रह्मशक्रवचः श्रुत्वा तथेति कृतनिश्चयाः ॥
ववृषुर्नियते काले तन्नामानि भवंति हि ॥१९॥
एवं व्यवस्थिते लोके मर्यादायां स्थिता घनाः ॥
ब्राह्मणा विज्वरा जातास्त्रिदशा मुदिता भृशम्॥ २०॥
क्रूरग्रहैरथो रुद्धास्ते मेघा वृष्टिकारकाः ॥
शनैश्चरेण भौमेन भास्करेणाथ केतुना ॥२१॥
पीडिताः शरणं जग्मुर्वासवं भयविह्वलाः ॥
निवेदितं भयात्सर्वं नमस्कृत्य पुनःपुनः ॥२२॥
मेघानां वचनं श्रुत्वा संत्र स्तो वासवस्तदा ॥
उवाच वचनं तेषां नाहं शक्तो निवारणे ॥
ग्रहाणामसमर्थोऽहं सर्वदैव पयोधराः ॥२३॥
अहं राज्यात्परिभ्रष्टः कृतः क्रूरग्रहैः पुरा ॥
स्थापितोऽहं कदाचिच्च सुप्रसन्नैर्ग्रहैः पदे ॥२४॥
मम मान्याश्च पूज्याश्च ग्रहा एव यतोधिकाः ॥
ग्रहाः स्रर्वहराः प्रोक्ता इति मे वर्त्तते मतिः ॥२५॥
एतस्मिन्नंतरे भूमौ संजाता शतवार्षिकी ॥
अनावृष्टिर्महारौद्रा सर्वप्राणिविनाशिनी ॥२६॥
अस्थिकंकालशकला श्वेतपर्वतसन्निभा ॥
पृथिवी तत्क्षणाज्जाता विना तोयेन पार्वति ॥२७॥
देवाः सर्वे पुनर्भीता ब्रह्माणं शरणं गताः ॥
ऊचुश्च प्रणताः सर्वे त्राहि नः शरणागतान् ॥२८॥
अनावृष्ट्या जगत्सर्वं पीडितं च पितामह ॥
अकाले प्रलयो जातः पुनरेव च तादृशः ॥२९॥
त्वया च वासवेनैव नियुक्ता ये पयोधराः ॥
कूरग्रहैरतीवोग्रैः पीडितास्ते पितामह॥ ३०॥
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥
अहं बिभेमि भो देवा ग्रहैस्तैर्बलवत्तरैः ॥३१॥
सर्वं जानामि माहात्म्यं ग्रहाणां क्रूरचेतसाम् ॥
शनैश्चरेण वक्रेण भवंतः पीडिताः सदा ॥३२॥
वरुणो यादसां नाथो मंगलेन प्रपीडितः ॥
राज्यभ्रष्टस्तु बहुधा केतुना वासवः कृतः ॥३३॥
शिरश्छेदो मया प्राप्तो वक्रेण रविणा पुरा ॥
एकैकशः समर्थास्ते किं पुनः संघशस्त्वमी ॥
तस्मात्सर्वे महादेवं गच्छामः शरणं वयम्॥३४॥
ब्रह्मणो वचनं श्रुत्वा सर्वे देवाः सवासवाः।.
ब्रह्माणं च पुरस्कृत्य मामव शरणं गताः॥३५॥
उक्तोऽहं त्रिदशैः सर्वैः पाहि नः शरणागतान् ॥
त्वं नो धाता विधाता च सृष्टिसंहारकारकः॥३६॥
क्रूरग्रहैर्महादेव रुद्धा मेघाः समंततः॥
न कुर्वंति प्रभो वृष्टिमनावृष्टिः सुदारुणा॥
सर्वप्राणिविनाशाय संजाता शतवार्षिकी॥
तेषां तद्वचनं श्रुत्वा मया ज्ञातं वरानने॥
क्रूरग्रहाणां सामर्थ्यं यथा च विदितं मम॥३८॥
इति ज्ञात्वा महादेवि उपायश्चिंतितो मया॥
उत्तरो नाम यो मेघो मेघैः कोटिभिरावृतः॥
आहूतस्तत्क्षणात्प्राप्तः किं करोमीत्युवाच ह ॥३९॥
मया प्रोक्तो ममादेशाद्गच्छ त्वं घनसंयुतः ॥
महाकालवनं रम्यं वांछितार्थफलप्रदम् ॥४०॥
गंगेश्वरस्य देवस्य दक्षिणे लिंगमुत्तमम् ॥
तमाराधय यत्नेन स ते दास्यति वांछितम् ॥४१॥
एवमुक्तो मया मेघ उत्तरो मेघसंयुतः ॥
जगाम त्वरया युक्तो महाकालवनोत्तमे ॥४२॥
दृष्ट्वा वृष्टिकरं लिंगं पूजयामास भक्तितः ॥
शिप्राजलं गृहीत्वा तु स्नात्वा स्नात्वा प्रयत्नतः ॥
तावद्यावज्जलं शिप्रां पुनरेवागतं प्रिये ॥४३॥
एतस्मिन्नंतरे तस्मादुद्भूतं धूममंडलम् ॥
लिंगमध्याद्वरारोहे ज्वालामालाकुलं महत् ॥४४॥
ततो ज्वालामयं सर्व मभूदम्बरगोचरम् ॥
तस्य ज्वालासमूहेन दग्धं वै ग्रहमंडलम् ॥४५॥
सनक्षत्रपथं यावत्ततो भीता ग्रहाः प्रिये ॥
तमेव शरणं प्राप्ता धूमज्वालाकुलाननाः ॥४६॥
ततो ब्रह्मा च विष्णुश्च तद्दृष्ट्वा महदद्भुतम् ॥
देवैर्वृतः सहस्राक्षो लिंगांतिकमुपागतः ॥४७॥
तल्लिंगं सुमहाज्वालं ज्वालाभिः पूरितांबरम् ॥
दुःप्रेक्ष्यं दुर्विदं भीमं वर्द्धमानं ददर्श सः ॥४८॥
अक्ष्णोर्निमेषमात्रेण ववृधे योजनायुतम् ॥
दृष्ट्वा तु वर्द्धमानस्य लिंगस्यात्य द्भुताकृतिम् ॥
सुरेशो मोहमापन्नो विसंज्ञाश्च ग्रहास्तदा ॥४९॥
ततस्तु तस्य लिंगस्य वारिधारा विनिःसृताः ॥
एकोद्देशाद्वरारोहे धरा त्वेकार्ण वीकृता ॥५०॥
लिंगस्यान्यप्रदेशात्तु वायुः समभवन्महान् ॥
इतरस्मिन्प्रदेशे तु समूहस्तडितामभूत् ॥५१॥
सधूमा समभूज्ज्वाला लिंगस्यान्य प्रदेशतः ॥५२॥
एवमत्यद्भुतं दृष्ट्वा वर्द्धमानं समंततः ॥
लिङ्गमव्यक्तमुद्भूतमापूरितनभोऽन्तरम् ॥५३॥
ग्रहाश्च विह्वला जाता धूमेनाकुलिते न्द्रियाः ॥
तुष्टुवुश्च तदा लिगं दह्यमानाः समंततः ॥५४॥
॥ ग्रहा ऊचुः ॥
नमः सुरूपाय सुरार्चिताय नमो विरूपप्रकृतिक्रियाय ॥
नमोनमो रूपनिराश्रयाय जलस्वरूपाय नमो नमस्ते ॥५५॥
इति स्तुतो यदा देवि ग्रहैः क्रूरैस्तदा प्रिये ॥
लिंगात्प्रादुरभूत्खस्थः स्वरूपो विग्रहाकृतिः ॥५६॥
भस्मधूसरसर्वांगो भोगिभोगांगदोज्ज्वलः ॥
हिमराशिनिभाकारो रजताचलनिर्मलः ॥
उवाच चैतान्प्रणतान्ग्रहान्कंपितक न्धरान ॥५७॥
किं वा कामं मनोऽभीष्टं भवद्भ्यो यद्ददाम्यहम् ॥
ममामोघमिदं सर्वं दर्शनं चातिदुर्लभम् ॥५८॥
भवद्भ्यो लोकतुष्ट्यर्थं दर्शनं हि ददाम्यहम् ॥
एवमुक्त्वा ग्रहाः सर्वे प्रोचुः प्रांजलयस्तदा ॥५९॥
यदि देयो वरो देव यदि तुष्टोऽसि शंकर ॥
कर्मारंभेषु सर्वेषु पूजाऽ स्माकं यथा भवेत् ॥
तथा कुरु महादेव तेन तृप्तिर्भविष्यति ॥६०॥
एवं भविष्यतीत्युक्त्वा मेघं चोत्तरमुक्तवान् ॥
तुष्टोऽस्म्यहं तु ते वत्स गृहाण वरमीप्सितम् ॥६१॥
तच्छ्रुत्वा वचनं तत्र ह्युत्तरः प्राह हर्षितः ॥
यन्मे तुष्टोऽसि भगवंस्तन्मह्यं दीयतां वरम् ॥६२॥
यदास्माकं महाबाधां कदा कोपि करिष्यति ॥
तदा वृष्टिर्विधातब्या त्वया देव सदा भुवि ॥६३॥
रक्षा कार्या च मेघानां रक्षणीयास्त्वया वयम्॥
एवमस्त्विति तेनोक्तं लिंगेन नगगात्रजे ॥६४॥
अद्यप्रभृति ते नाम्ना ख्यातिं यास्यामि भूतले.॥
उत्तरेश्वरसंज्ञोऽहं प्रभविष्यामि न संशयः ॥६५॥
ये मां संपूजयिष्यंति भक्त्या परमया युताः ॥
तेषां दास्यामि सततं वांछितार्थफलं भुवि ॥६६॥
पश्यंति प्रयता ये मां कृत्वा नियमपूर्वकम् ॥
ते यास्यंति पुरं शैवं यावत्कल्पाष्टकायुतम् ॥६७॥
आरूढाः सूर्यसंकाशैर्विमानैः सार्वकामिकैः ॥
रुद्रकन्यासमाकीर्णैर्हंससारससंयुतैः ॥६८॥
नृत्य वादित्रनिर्घुष्टैरुत्कटध्वनिनादितैः ॥
दोधूयमानैश्च नरैः स्तूयमानाः सुरासुरैः ॥६९॥
प्रसंगाद्भक्तिहीनोऽपि यो मां पश्यत्यशाठ्यतः ॥
ऐश्वर्यं तस्य दास्यामि ह्युत्तरेषु कुरुष्वथ ॥७०॥
स्मरिष्यति च यो नित्यं प्रभाते चोत्तरेश्वरम् ॥
स याति परमं स्थानं दाहप्रलयवर्जितम्॥ ७१॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
उत्तरेश्वरदेवस्य शृणु त्रिलोचनेश्वरम् ॥७२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उत्तरेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP