संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ६२

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ६२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ईश्वर उवाच ॥
द्विषष्टिकं विजानीहि देवं रूपेश्वरं प्रिये॥
यस्य दर्शनमात्रेण रूपवाञ्जायते नरः ॥१॥
पाद्मकल्पे महादेवि पद्मोनाम महीपतिः ॥
पद्मगर्भसमुद्भूतो बभूवातिपराक्रमी ॥
पृथिव्याश्चतुरंताया जातो धर्मरतो बली ॥२॥
स कदाचिन्महाबाहुः प्रभूतबलवाहनः॥
वनं जगाम गहनं हयनागशतैर्वृतः ॥३॥
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् ॥
मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥४॥
तत्र वन्यसहस्राणि हत्वा सबलवाहनः ॥
राजा मृगप्रसंगेन वनमन्यद्विवेश सः ॥९॥
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः।
स वनस्यांतमासाद्य महदारण्यमासदत् ॥६॥
तच्चाप्यतीत्य नृपतिर्ददर्शाश्रममुत्तमम् ॥
मनःप्रह्लादजननं दृष्टिकांतमतीव च ॥७॥
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् ॥
ततोऽगच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् ॥८॥
नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम्॥
उवाच क इहेत्युच्चैर्वनं संनाद्यन्निव ॥९॥
श्रुत्वाथ तं तथा शब्दं कन्या श्रीरिव रूपिणी ॥
निश्चक्रामाश्रमात्तस्मात्तापसाकारधारिणी॥१०॥
सा तं दृष्ट्वैव राजानं पद्मगर्भसमुद्भवम्॥
आसनेनार्चयित्वा च पप्रच्छ नाम तं तदा ॥११॥
उवाच स्मयमानाथ किं कार्यं क्रियतामिति॥
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्॥१२॥
दृष्ट्वा चैवानवद्यांगीं यथावत्प्रतिपूजितः ॥
आगतोऽहं महाभागे मुनिश्रेष्ठमुपासितुम् ॥१३॥
क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥
एवमुक्ता तु सा कन्या तेन राज्ञा तदाश्रमे ॥
हसंती प्रत्युवाचेदं वाक्यं समधुराक्षरम्॥ १४॥
कन्याहं पृथिवीपाल कौमारब्रह्मचारिणः ॥
तपस्विनो धृतिमतो धर्मज्ञस्य मनस्विनः ॥१५॥
सुता कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥
कण्वं हि पितरमन्ये पितरं स्वमजानती ॥१६॥
तस्यास्तद्वचनं श्रुत्वा नृपेणोक्तं वरानने ॥
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे ॥१७॥
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥
सुवर्णरत्नवासांसि कुंडले परिहारके ॥१८॥
आहरामि तवाद्याहं भार्या मे भव शोभने ॥
गांधर्वेण च मां भीरु विवाहेनैव सुंदरि ॥
विवाहानां च रंभोरु गांधर्वः श्रेष्ठ उच्यते ॥१९॥
नृपस्य वचनं श्रुत्वा कन्या वचनमब्रवीत् ॥
मुहूर्त्तं संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥२०॥
॥राजोवाच ॥
इच्छामि त्वां वरारोहे भजमानमनिंदिते ॥
तदर्थं मां स्थितं विद्धि त्वया मेऽपहृतं मनः ॥२१॥
आत्मनो बंधुरात्मैव गतिरात्मैव चात्मनः ॥
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥२२॥
॥ कन्योवाच ॥
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम ॥
सत्यं मे प्रतिजानीहि दत्तमात्मानमद्य मे ॥२३॥
इति तस्या वचः श्रुत्वा परिणीता नृपेण हि ॥
गांधर्वेण विवाहेन कामासक्तेन पार्वति ॥२४॥
कामिता सा नृपेणेव ततो गंतुं समुद्यतः ॥
एतस्मिन्नंतरे देवि कण्वश्चाश्रममभ्यगात् ॥२५॥
सा कन्या पितरं दृष्ट्वा ह्रिया नोपजगाम तम् ॥
विज्ञायाथ च तां विप्रो दिव्यज्ञानो महातपाः ॥२६॥
उवाच परमं कुद्धस्तां कन्यां काममोहिताम् ॥
त्वयापि दुष्टे रहसि मामवज्ञाय यत्कृतः ॥२७॥
स्वयं स्वयंवरो मोहात्तस्मात्कृष्णा भविष्यसि ॥
कुत्सिता निर्घृणा दीना निर्लज्जा रूपवर्जिता ॥२८॥
अयं ते नृपतिर्भर्त्ता दुष्टरूपो भविष्यति ॥२९॥
इत्युक्ता तत्क्षणाज्जाता सा कन्या रूपवर्जिता ॥
कुरूपो नृपतिर्जातः शापात्तस्य महात्मनः ॥३०॥
अथ प्रसादयामास सा कन्या पितरं तदा ॥
बालानभिज्ञा मूढाहं मन्मथेन प्रपीडिता ॥३१॥
अज्ञानाच्च कृतं पापं तात त्वं क्षंतुमर्हसि ॥
अयं महीपतिस्तात प्रत्यग्लीनो महाव्रतः ॥३२॥
न चाहं प्रार्थिता तेन मयासौ प्रार्थितो नृपः ॥
तस्मादनुग्रहं तात कर्त्तुमर्हसि चावयोः ॥३३॥
इति तस्या वचः श्रुत्वा स विप्रोऽतिकृपान्वितः ॥
उवाच स्वां दुहितरमाश्वास्यैवं पुनःपुनः ॥३४॥
नैव वागनृतं पुत्रि यावदद्य स्मराम्यहम् ॥
दैवमत्र परं मन्ये धिग्बुद्धिं धिक्पराक्रमम् ॥३५॥
अकार्यं कारितो येन बलादहमनिंदिते ॥
उपदेशं प्रदास्यामि तत्त्वं कर्तुमिहार्हसि ॥३६॥
महाकालवने पुण्ये लिंगं रूपप्रदायकम् ॥
पशुपेश्वरपूर्वे तु विद्यतेऽभीष्टदायकम् ॥३७॥
तत्त्वं गच्छ त्वरा युक्ता सह भर्त्रा नृपेण हि ॥
रूपं प्राप्स्यसि दुष्प्राप्यं लिंगदर्शनमात्रतः ॥३८॥
इत्युक्ता सा तदा कन्या सह भर्त्रा गता प्रिये ॥
महाकालवने रम्ये यत्र लिंगमनुत्तमम् ॥३९॥
ददर्श परया भक्त्या स च राजा नरोत्तमः ॥
तत्क्षणाद्दिव्यदेहा सा रूपेणातिमनोहरा ॥
दिव्यवस्त्रपरीधाना दिव्यालंकारभूषिता ॥४०॥
स च राजा तथा जातः कंदर्पसदृशाकृतिः ॥
रूपेणाप्रतिमो लोके तस्य लिंगस्य दर्शनात् ॥४१॥
अतो लोकेषु विख्यातो देवो रूपेश्वरः प्रिये ॥
रूपदो धनदोऽत्यर्थं पुत्रदः स्वर्गदस्तथा ॥४२॥
स च राजा स्वकं प्राप्तो राष्ट्रं सस्यादिसंयुतम् ॥
प्रियया परया सार्धं चक्रे राज्यमकंटकम् ॥४३॥
राज्यं कृत्वा गतः स्वर्गं भार्यया सह पार्वति ॥
देदीप्यमानो वपुषा द्वितीय इव भास्करः ॥४४॥
विमानेन सुदीप्तेन वंद्यमानो दिवालये ॥
दर्शनात्तस्य लिंगस्य प्राप्तः पदमनामयम् ॥४५॥
ये पश्यंति विशालाक्षि देवं रूपेश्वरं शिवम् ॥
न ते रूपेण हीयंते यशसा च कुलेन च ॥४६॥
सदा रूपकरं लिंगं भुक्तिमुक्तिफलप्रदम् ॥
ये पश्यंति वरारोहे तेषां लोकाः सदाऽक्षयाः ॥४७॥
येऽर्चयंति नरा नित्यं देवं रूपेश्वरं परम् ॥
तेऽर्चिता यांति यानेन मम लोकं सनातनम् ॥४८॥
स एव सुकृती लोके कुलं तेनाप्यलंकृतम्॥
यः पूजयति रूपेशं रूपसौभाग्यदायकम् ॥४९॥
यः पूजयति देवेशं प्रसंगादपि पार्वति ॥
धनवान्रूपवान्सोऽपि राजा भवति भूतले ॥५०॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
रूपेश्वरस्य देवस्य धनुःसाहस्रकं ७ब् ॥५१॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्ये रूपेश्वरमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥६२॥छ ॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP