संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ६३

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ६३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीहर उवाच ॥
धनुःसाहस्रनामानमीश्वरं शृणु पार्वति ॥
त्रिषष्टिसंख्यकं दिव्यं दर्शनात्पापनाशनम् ॥१॥
विदूरथोनाम नृपः ख्यातकीर्त्तिरभूद्भुवि ॥
तस्य पुत्रद्वयं जातं सुनीतिः .सुमतिस्तथा ॥२॥
एकदा तु वनं यातो मृगयां स विदूरथः ॥
ददर्श गर्त्तं सुमहद्भूमेर्मुखमिवोद्गतम् ॥३॥
तं दृष्ट्वा चिंतयामास किमेतदिति पार्थिवः ॥
पातालविवरं मन्ये वडवानलसंनिभम् ॥४॥
चिंतयन्निव तत्रासौ ददर्श विजने वने ॥
ब्राह्मणं सुव्रतं नाम तपस्विनमकल्मषम् ॥५॥
स तं पप्रच्छ नृपतिः किमेतदिति भो द्विज ॥६॥
॥ ब्राह्मण उवाच ॥
दानवः सुमहावीर्यो वसत्युग्रो रसातले ॥
कुजंभोनाम विख्यातो भिनत्ति वसुधामिमाम् ॥७॥
तमजित्वा कथं राज्यं भोक्ष्यसे वसुधाधिप ॥
तेन विध्वंसिता विप्रा रात्रौ निःसृत्य पार्थिव ॥८॥
उपद्रुतास्तथा देशा ध्वस्ताश्चैव तथाश्रमाः ॥
आप्याययति दैत्योऽयं सबली मुशलायुधः ॥९॥
यदि त्वं घातयस्येनं पातालांतरगोचरम् ॥
ततः समस्तवसुधापतिरेव भविष्यसि ॥१०॥
इति विप्र वचः श्रुत्वा मंत्रयामास पार्थिवः ॥
मंत्रिभिः सहितोऽमोघं श्रुत्वा मुशलमद्रिजे ॥११॥
तं मंत्रं क्रियमाणं तु सूनुभ्यां सह मंत्रिभिः ॥
तत्पार्श्ववर्त्तिनी कन्या शुश्रावाथ मुदावती ॥१२॥
ततः कतिपयाहे तु तां कन्यां जलजेक्षणाम् ॥
जहारोपवनाद्दैत्यः कुजंभः स्वसखीवृताम् ॥१३॥
एतच्छ्रुत्वा महीपालः क्रोधपर्याकुलेक्षणः ॥
उवाच पुत्रौ जानेऽहं सकुजंभो महासुरः ॥१४॥
दृष्ट्वा भूमौ पुरा गत्तें तत्र संशयिते मयि ॥
कथितो द्विजमुख्येन मया पृष्टेन पुत्रकौ ॥१५॥
स हन्यतां सोऽपहर्त्ता मुदावत्याः सुदुर्मतिः ॥
प्रस्थितौ नृपभक्त्याथ स्वसैन्यपरिवारितौ ॥१६॥
तौ सुतौ तत्र संप्राप्तौ पाताले पितृशासनात्॥
युयुधाते कुजंभेन स्वशक्त्या सेनया वृतौ ॥१७॥
ततः परिघनिस्त्रिंशशक्तिशूलपरश्वधैः ॥
बाणैश्चिरतरं युद्धं तेषामासीत्सदारुणम्॥ १८॥
ततो मायाबलवता तेन दैत्येन तत्क्षणात् ॥
अमोघेनाद्वितीयेन मुशलेन वरानने ॥१९॥
हत सैन्यौ रणे बद्धौ राजपुत्रौ महाबलौ ॥२०॥
ततः श्रुत्वा महीपालो विवर्णवदनोऽभवत् ॥
बद्धपुत्रः परामार्त्तिं जगाम गिरिपुत्रिके ॥२१॥
रुरोद बहुधात्यर्थं पुत्रस्नेहेन पार्थिवः ॥
ततो विलपतस्तस्य मार्कंडेयो महामुनिः ॥
अनेकसृष्टिसंहारदृष्टकार्यपरावरः ॥२२॥
उदितादित्यसंकाशः सप्तकल्पानुगो वशी ॥
आजगाम नृपाभ्याशे विलपंतं ददर्श सः ॥
राजानं कथयामास त्रिकालज्ञो महामुनिः ॥२३॥
मा शुचस्त्वं महीपाल क्षत्त्रियोऽसि दृढव्रतः ॥
क्व शोक क्व महीपालो दुर्जयो लोकपालवत् ॥२४॥
शोकं कुपुरुषाचीर्णं त्यज त्वं राजसत्तम ॥
उद्यमं कुरु राजेंद्र कुजंभं घातयिष्यसि ॥२५॥
नात्युच्चं मेरुशिखरं नातिनीचं रसातलम् ॥
व्यवसायः सखा यस्य नास्ति दूरे महोदधिः ॥२६॥
महाकालवने लिंगमाराधय समाहितः ॥
रूपेश्वरस्य देवस्य पार्श्वे दक्षिणतः स्थितम् ॥२७॥
धनुःसाहस्रतुल्यं तु मुशलस्य निवारणम् ॥
धनुः प्राप्स्यसि राजेंद्र कुजंभं विनिपातय ॥२८॥
धनुःसाहस्रहस्तैस्तु रक्षितं योधसत्तमैः ॥
लिंगं देवासुरैर्युद्धे सहस्राक्षेण सेवितम् ॥
इंद्रेण च धनुर्लब्धं जंभो वै येन पातितः ॥२९॥
तस्य तद्वचनं श्रुत्वा स राजाथ विदूरथः ॥
जगाम त्वरितो देवि महाकालवनं शुभम् ॥३०॥
ददर्श तत्र तल्लिंगं पूजयामास भक्तितः ॥
तस्य तुष्टस्तदा देवो ददौ दिव्यं धनुस्तदा ॥३१॥
धनुःसाहस्रतुल्यं च मुशलस्य निवारणम् ॥
धनुर्लब्ध्वा तदा राजा बद्धगोधांगुलित्रवान्॥
जगाम धीरः पातालं तेन गर्तेन सत्वरम् ॥३२॥
ततो ज्यास्वनमत्युग्रं स चक्रे पार्थिवस्तदा ॥
येन पातालमखिलमासीदापूरितांतरम्॥ ३३॥
ततो ज्यास्वनमाकर्ण्य कुजंभो दानवेश्वरः ॥
आजगामातिकोपेन स्वसैन्यपरिवारितः ॥३४॥
ततो युद्धमभूत्तस्य सह राज्ञा वरानने ॥
दिनानि त्रीणि स यदा योधितस्तेन दानवः ॥३५॥
ततः कोपपरीतात्मा मुशलायाभ्यधावत ॥
गंधैर्माल्यैस्तथा धूपैः पूज्यमानः स तिष्ठति ॥३६॥
यावद्गृह्णाति मुशलं तावत्सा च मुदावती ॥
पस्पर्श चंदनव्याजैरनेकैश्च पुनःपुनः ॥३७॥
ततः स गत्वा युयुधे मुसलेनासुरेश्वरः ॥
तदा मुसलपातास्ते धनुषा निष्प्रभीकृताः ॥३८॥
धनुर्ज्याघातशब्देन पतिते भूतले तदा ॥
गतो वैवस्वतं लोकं कुजंभोनाम दानवः ॥३९॥
ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः ॥
जगुर्गंधर्वपतयो देववाद्यानि सस्वनुः ॥४०॥
स चापि राजा तं हत्वा पुत्रौ लब्ध्वा सुतां तदा ॥
मुदावतीं मुदा युक्तो हर्षगद्गदनिर्भरः ॥४१॥
पुत्राभ्यां सहितो देवि सुसंपूर्णमनोरथः ॥
सांतःपुरपरीवारः पुनरायाद्वरानने ॥४२॥
महाकालवने रम्ये यत्र तल्लिंगमुत्तमम्॥
पूजयामास रत्नैश्च वस्त्रैराभरणैस्तथा ॥४३॥
ततः स पूजितो देवैः शक्रेण च पुनःपुनः ॥
अस्य लिंगस्य माहात्म्याद्धनुः प्राप्तं नृपेण ३॥४४॥
कुजंभोऽपि हतो दैत्यो देवविद्वेषकारकः ॥
धनुःसाहस्रनामायमतः ख्यातिं गमिष्यति ॥४५॥
भक्त्या ये पूजयिष्यंति धनुःसाहस्रमीश्वरम्॥
यास्यन्ति शत्रवस्तेषां क्षयं नैवात्र संशयः ॥४६॥
अर्चिते देवदेवेशे धनुःसाहस्रिके शिवे ॥
अर्चिताः सर्वदेवाः स्युर्वरदाश्च न संशयः ॥४७॥
प्रातर्मध्येऽपराह्णे च धनुःसाहस्रकं शिवम् ॥
ये नमन्ति नरा नित्यं न ते नरकभोगिनः ॥४८॥
तीर्थानां च यथा गंगा रक्षिता योधसत्तमैः ॥
तथायं रक्षको देवो नाम्ना धनुःसहस्रकः ॥४९॥
तत्र गंगादितीर्थानि विद्यन्ते विविधानि च ॥
सुरहस्यातिपुण्यानि सद्यः पापहराणि च ॥५०॥
तेषां फलं विनिर्दिष्टं ये पश्यन्ति तु भक्तितः ॥
धनुःसाहस्रकं नाम सदा शत्रुक्षयंकरम् ॥५१॥
एष ते कथितो देवि प्रभावः पापना शनः ॥
धनुःसाहस्रदेवस्य देवं पशुपतिं शृणु ॥५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीति लिङ्गमाहात्म्ये धनुःसाहस्रमाहात्म्यवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP