अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीईश्वर उवाच ॥
पंचाधिकं विजानीहि पंचाशत्तममीश्वरम् ॥
सिंहेश्वरं वरारोहे महाभयविनाशनम ॥१॥
सद्यःकल्पे त्वया देवि मदर्थं हि महत्तपः ॥
कृतं नीलोत्पलापांगि भीषणं संशितव्रतम् ॥
तपसा तव रौद्रेण दग्धं हि भुवनत्रयम् ॥२॥
दुष्करं हि तपो ज्ञात्वा भगवां श्चतुराननः ॥
आगत्योवाच देवेशो देवि त्वां शुभया गिरा ॥३॥
किं पुत्रि प्राप्तुकामासि किमलभ्यं ददामि ते ॥
विरम्यतामतिक्लेशात्त पसोऽस्मान्ममाज्ञया ॥४॥
त्वया च वचनं श्रुत्वा गुरोर्गौरवगर्भितम् ॥
प्रियं तथ्यं हितं तत्र वर्णनिर्णीतवांछितम् ॥५॥
प्रत्युक्तः स तदा ब्रह्मा प्रणामनम्रया त्वया ॥
तपसा दुष्करेणाप्तः पतित्वे शंकरो मया ॥६॥
स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः ॥
श्यामाहं कांचनाकारा वल्लभेन च संयुता ॥
भर्त्ता भूतपतिर्वश्यः कथं स्यादिति मे तपः ॥७॥
त्वदीयं वचनं श्रुत्वा वरार्हो वरदः प्रभुः ॥
एवं भविष्यतीत्याह ब्रह्मा लोकपितामहः ॥८॥
कियता चैव कालेन वांछासिद्धिर्भविष्यति ॥
गौरीनाम्ना तु ते मूर्त्तिः कांत्या दीप्ता भविष्यति ॥९॥
एतच्छ्रुत्वा त्वया वाक्यं ब्रह्मणः परमेष्ठिनः ॥
क्रुद्धा त्वं गिरिजेऽत्यर्थं कालेऽभीष्टं भविष्यति ॥१०॥
क्रोधात्सिंहः समुद्भूतो वदनात्ते भयावहः ॥
विवृतास्यो महारौद्रो जटाजटिलकंधरः ॥११॥
प्रोद्धूतवल्गुलांगूलो दंष्ट्रोत्कटमुखोत्कटः ॥
तस्यास्ये पतितुं देवि व्यवसायः कृतस्त्वया ॥१२॥
सोऽपि सिंहः क्षुधाविष्टस्त्वां भक्षयितुमुद्यतः ॥
न चैवासौ समर्थोऽभूद्वीक्षितुं वा तपोधिकाम् ॥१३॥
स दह्यमानः सहसा तेजसा तपसा तव ॥
पराङ्मुखः समभवत्प्राणत्राणपरायणः ॥१४॥
ततस्तवाभूत्करुणा सिंहं प्रति यतव्रते ॥
क्षुधितस्य त्वया तस्य क्षीरं ह्यमृतसन्निभम् ॥१५॥
उत्पादितं स्तनाभ्यां तु तस्य सिंहस्य कारणात ॥
तथापि दह्यतेऽत्यर्थं दुष्टभावं यतो गतः ॥१६॥
तेनोक्तं दह्यमानेन मातर्दग्धोस्मि तेजसा ॥
त्वदीयेन दुराचारो दुष्टोहं पापविग्रहः ॥१७॥
त्वामत्तुकामो दुष्टात्मा त्वयाहं जनितोऽधुना ॥
तस्माद्यास्यामि नरकं मातृहा गुरुघातकः ॥८॥
तस्य तद्वचनं श्रुत्वा दुःखितस्य सुतस्य तु ॥
ममत्वेन विशालाक्षि सिंहस्य कथितं त्वया ॥१९॥
अधमं विद्यते क्षेत्रं महाकालवनं सुत॥
तत्र गच्छ ममादे शाच्छीघ्रं देवविनिमितम् ॥२०॥
कंटेश्वरस्य देवस्य समीपे लिंगमुत्तमम् ॥
सिंहनादात्समुत्पन्नं शंकरस्य महात्मनः ॥२१॥
अंधकासुरयुद्धे वै पीडिते वासवे पुरा ॥
त्वदीयं वचनं श्रुत्वा सिंहस्त्वरितविक्रमः ॥२२॥
गतो महाकालवनं दृष्टो देवोऽथ तत्क्षणात्॥
दिव्यदेहो मृगारिस्तु जातो लिंगस्य दर्शनात् ॥२३॥
ममत्वात्तस्य लिंगस्य त्वं गता तत्र पार्वति ॥
सिंहिकारूपमास्थाय शीघ्रं सिंहस्त्वया प्रिये ॥२४॥
दृष्टो दिव्यशरीरस्तु लिंगस्यास्य प्रभावतः ॥
तव तुष्टिः परा जाता दृष्ट्वा सिंहं महाद्युतिम् ॥२५॥
कृतं नाम त्वया देवि लिंगस्यास्य वरानने ॥
दिव्यदेहस्तु सिहोयं जातो लिंगस्य दर्शनात् ॥२६॥
अतः सिंहेश्वरो देवो भुवि ख्यातो भविष्यति ॥
एतस्मिन्नंतरे ब्रह्मा संप्राप्तस्तत्र सुव्रते ॥
उवाच त्वां वरारोहे देवैः परिवृतस्तदा ॥२७॥
य एष सिंहः संभूतस्तव क्रोधात्सुतो यतः ॥
ततोऽसौ वाहनो देवि भविष्यति न संशयः ॥२८॥
लिंगं सिंहेश्वरं भक्त्या यः पश्यति समाहितः ॥
तस्य वासोऽक्षयो दिव्यो भविष्यति त्रिविष्टपे ॥२९॥
कीर्तनान्मुच्यते पापाद्दृष्ट्वा भद्राणि पश्यति ॥
स्पर्शनादस्य लिंगस्य पुनात्यासप्तमं कुलम् ॥३०॥
मनसा चिंतितान्कामांस्तांश्च प्राप्नोति पुष्कलान् ॥
तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः ॥३१॥
यदा पश्यति सिंहेशं संसारार्णवतारकम् ॥
व्यालव्याघ्रादयश्चौरास्तथा साहसिकाश्च ये ॥३२॥
तेभ्यो भयं न भवति श्रीसिंहेश्वरदर्शनात् ॥
यज्ञानां तपसां चैव दानादीनां च यत्फलम् ॥
तत्फलं जायते सम्यग्दृष्ट्वा सिंहेश्वरं शिवम् ॥३३॥
मदीयं लोकमाप्नोति सुरासुरनमस्कृतम् ॥
यः पश्यति प्रयत्नेन देवं सिंहेश्वरं तदा ॥३४॥
इत्युक्त्वासौ जगामाथ ब्रह्मा लोके स्वकं प्रिये ॥
यद्वपुस्तव पूर्वं स्यात्कालकांतिकलंकितम् ॥
प्रभावात्तपसस्तस्य गौरत्वं प्राप्तमद्भुतम् ॥३५॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
सिंहेश्वरस्य देवस्य रेवंतेशमतः शृणु ॥३६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये सिंहेश्वरमाहात्म्यवर्णनंनाम पंचपंचाशत्तमोऽध्यायः ॥५५॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP