संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ५३

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ईश्वर उवाच ॥
त्रिपंचाशत्तमं विद्धि सुप्रसिद्धमथेश्वरम् ॥
परं विश्वेश्वरं ख्यातं विश्वेषु भुवनेष्वपि ॥१॥
बभूव नृपतिः पूर्वं विदर्भायां विदूरथः ॥
सोन्तःपुरायुतोपेतं चक्रे राज्यमकंटकम् ॥२॥
जघान तापसं सोऽथ प्रमादान्मृगया गतः ॥
कृष्णाजिनधरं शांतं ध्यायंतं ब्रह्म शाश्वतम् ॥३॥
मृगं मत्वा महारण्ये ब्राह्मणं देवमोहितः ॥
तेन कर्मविपाकेन देहांते रौरवं गतः ॥४॥
तत्रासौ यातना घोरां अनुभूयात्मकालतः ॥
तस्मादिहागतो मर्त्त्ये सर्पो विषधरोऽभवत् ॥५॥
अदशत्सोऽपि कोपेन ब्राह्मणं चरणे प्रिये ॥
लकुटेन हतः सोऽपि पंचत्वं तत्क्षणाद्गतः ॥६॥
च्युतस्तु नरकात्सिंहो द्वितीयेऽभूत्सुदारुणः ॥
राजानं भक्षयामास राजलोकैर्निपातितः ॥७॥
पुनर्व्याघ्रो बभूवासौ तृतीयेऽपि भवांतरे ॥
तीक्ष्णपादनखैर्घोरैर्घातयामास सूकरान् ॥८॥
तेनापि वैश्यो निधनं नीतः कश्चिद्वनांतरे ॥
निषादैर्निहतः सोऽपि बाणैः पंचत्वमागतः ॥९॥
चतुर्थे ऽपि गजो जातः सिंहाद्वधमवाप्तवान् ॥
पंचमे मकरो जातः क्षारांभसि महोदधौ ॥। १०॥
स्नातुकामामथो रामामाजघानातिपापकृत् ॥
धीवरैः कृतधिक्कारैर्बडिशैः सन्निपातितः ॥११॥
पुनः षष्ठे भवे जातः पिशाचः पिशिताशनः ॥
सिद्धमंत्रैरथोदग्रैरथर्वप्रभवैर्भृशम् ॥१२॥
मंत्री मंत्रविदां श्रेष्ठो ब्राह्मणस्तं जघान ह ॥
सप्तमे स पुनर्जातो दुर्निरीक्ष्यवपुर्भृशम् ॥१३॥
तीक्ष्णदंष्ट्रः करालास्यो मांसशोणितभोजनः ॥
शुष्कांगो मरुभूमीषु पापिष्ठो ब्रह्मराक्षसः ॥१४॥
आक्रम्य निमिराजेन राज्ञा राक्षसशत्रुणा ॥
समारोप्य धनुः संख्ये ब्रह्मास्त्रेण निपातितः ॥१५॥
दारुणः सारमेयोऽभूदतिकृष्णोऽष्टमे भवे ॥
स शूकरखुराघातव्रणैः पंचत्वमागतः ॥१६॥
नवमे जंबुको जातः श्मशाने स च मांसभुक् ॥
लौल्यात्स निधनं प्राप्तो दुःखार्त्तो दाववह्निना ॥१७॥
दशमे त्वभवद्गृध्रस्तीक्ष्णतुंडो भयावहः ॥
पूतिमांसवसाहारो रोगेण निधनं गतः ॥१८॥
एकादशे ऽपि चंडालो गतोऽवंत्यां वरानने ॥
द्रव्यस्य हरणार्थं वै प्रविष्टो द्विजवेश्मनि ॥१९॥
स दंडपाशिकेनैव प्राप्तो बद्धश्च तत्क्षणात् ॥
आनीतो हि वधार्थाय वृक्षाग्रे ह्यवलंबितः ॥२०॥
तत्रैव लिंगमासन्नं साध्वि शूलेश्वरोत्तरे ॥
तस्य दृष्टिपथं प्राप्तमतिविक्लवचेतसः ॥२१॥
क्षणेन निधनं प्राप्तः स गतस्त्रिदशालयम् ॥
तत्र भुक्त्वा वरान्भोगानवतीर्य च भूतले ॥२२॥
जातः ख्यातो विदर्भायां विश्वेशोनाम पार्थिवः ॥
जातिस्मरत्वमापन्नो लिंगदर्शनपुण्यतः ॥२३॥
दुर्लभान्बुभुजे भोगान्प्राप्तं राज्यं चकार सः ॥
सोऽभिषिच्य सुतं राज्ये विनीतमतिधर्मवित् ॥
संस्मरन्पूर्ववृत्तांतं जगामावंतिकां पुरीम् ॥२४॥
तत्र दृष्ट्वा महल्लिंगं दुर्दर्शमतितेजसा ॥
दिव्येन चक्षुषाऽपश्यल्लिंगमध्ये चराचरम् ॥२५॥
लिंगमध्ये स्थिताः सर्वे सागराः सरितस्तथा ॥
द्वीपाश्च पर्वताश्चैव तथान्या दिव्यभूतयः ॥२६॥
चंद्रमाः सह नक्षत्रैरादित्यश्चाग्निना सह ॥
धनदो वरुणश्चैव यमः शक्रो मरुत्पतिः ॥२७॥
मरुतो देवगंधर्वा ऋषयश्च तपोधनाः ॥
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥२८॥
ब्रह्माद्या देवताश्चान्याः स्कंदो लंबोदरस्तथा॥
सर्वं त्रिभुवनं देवि लिंगमध्ये विलोकितम्॥२९॥
प्रभावं तस्य लिंगस्य ज्ञात्वा सम्यङ्महीपतिः॥
संयतः पूजयामास विश्वयोनिं महेश्वरम् ॥३०॥
प्रसन्नश्चाभवत्तस्य वचनं चेदमब्रवीत्॥
वरं वरय भद्रं ते किमभीष्टं ददामि ते॥३१॥
तेनोक्तं वचनं राज्ञा यदि तुष्टोसि मे प्रभो॥
ये त्वां पश्यंति मनुजाः श्रद्धयाऽश्रद्धयाऽथवा ॥३२॥
मा भूत्तेषां प्रपतनं घोरे संसारसागरे॥
विश्वेश्वरेति नाम्ना वै प्रसिद्धो भव भूतले ॥३३॥
इत्युक्ते वचने भूयो विश्वेशोऽलंकृतो गणैः ॥
विमानेन सुदीप्तेन गतो लोकं मदीयकम् ॥३४॥
गणैर्नानाविधैः सार्द्धं स्तूयमानो वरानने ॥
किरीटी कुण्डली चैव मुक्ताहारविभूषितः ॥
विमानं तस्य तद्दिव्यं परिक्रम्य समंततः ॥३५॥
समहेंद्रधनाध्यक्षनानानाकनिवासिनः ॥
मुनयः सिद्धगंधर्वास्तथा चाप्सरसां गणाः ॥३६॥
नृत्येनामरनारीणां विलोकितविनोदकः ॥
युगकोटिसहस्रं तु मत्समीपे व्यवस्थितः ॥३७॥
अतो देवि भुवि ख्यातो देवो विश्वेश्वरेश्वरः ॥
दृष्ट्वा लिंगं च विश्वेशं पातकैर्विप्रमुच्यते ॥३८॥
सप्तजन्मकृतैर्देही मनोवाक्कायकर्मभिः ॥
दृष्ट्वा विश्वेश्वरं लिंगं कृतकृत्यत्वमाप्यते ॥३९॥
तस्य नश्यति दौर्भाग्यमलक्ष्मीर्नाशमेति च ॥
प्राप्नोति देही कामांश्च समृद्धिं मानसीं सदा ॥४०॥
दुःस्वप्नो व्याधयः क्रूरा ग्रहा भूताश्च दारुणाः ॥
प्रणश्यन्ति वरारोहे विश्वेशे पूजिते सदा ॥४१॥
ये केचिच्छ्रद्धया युक्ता लिंगमाराधयंति वै ॥
ते सर्वकाम संपन्ना जायंते च युगेयुगे ॥४२॥
अंते गतिश्च सा दिव्या जायते मत्प्रसादतः ॥
यत्र संपूज्यते लिगं तस्मिन्देशे शुभाः क्रियाः ॥४३॥
न तत्र दुर्भिक्षभयं नापमृत्युभयं क्वचित् ॥
प्रेतयोनौ च वेताला न नागा न च दंष्ट्रिणः ॥४४॥
एते च विष्णुब्रह्मेंद्रकुबेरवरुणादयः ॥
लिंगार्चनेन संप्राप्ताः परां सिद्धिं महौजसः ॥४५॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
विश्वेश्वरस्य देवस्य कण्टेश्वरमतः शृणु ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये विश्वेश्वरमाहात्म्यवर्णनंनाम त्रिपंचा शत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP