संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ६१

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ६१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ईश्वर उवाच ॥
एकषष्टितमं विद्धि सौभाग्येश्वरमीश्वरम् ॥
यस्य दर्शनमात्रेण सौभाग्य मतुलं लभेत् ॥१॥
प्रधमं प्राकृते कल्पे राजाभूदश्ववाहनः ॥
प्राग्ज्योतिषपुरे रम्ये धर्मात्मा कीर्त्तिवर्द्धनः ॥२॥
अनेकयज्ञकृत्प्राज्ञः संग्रामेष्वप राजितः ॥
तस्य भार्या विशालाक्षि नाम्ना मदनमञ्जरी ॥३॥
काशिराजसुता सुभ्रू रूपेणातीव शोभना ॥
दक्षा सुशीला धर्मिष्ठा गृहव्यापारको विदा ॥४॥
चतुःषष्टिकलायुक्ता सदा भर्तृहिते रता ॥
पूर्णेन्दुवदना सौम्या सदा मधुरभाषिणी ॥५॥
पूर्वकर्मवशाद्देवि दुर्भूगा समजायत ॥
सा नेष्टा तस्य नृपतेर्नेत्रोद्वेगकरी सदा ॥६॥
श्रोत्रोद्वेगकरं वाक्यं तस्य राज्ञः करोति सा ॥
ददाह लोचने राजस्तस्याः संदर्शनं सदा ॥७॥
मृर्छां प्राप्नोत्यसह्यां स तस्याः स्पर्शेन भूपतिः ॥
कदा चालोकितो राजा तया प्रेम्णा वरानने ॥
दह्यमानोऽतितीव्रेण वह्निना वाक्यमब्रवीत् ॥८॥
द्वास्थैतां दुर्भगां भार्यामादाय विपिने वने ॥
परित्यजाशु नैतत्ते विचार्यं वचनं मम ॥९॥
ततो नृपस्य वचनमविचार्यमवेक्ष्य सः ॥
द्वास्थस्तत्याज तां सुभ्रूमारोप्य स्यंदनं वने ॥१०॥
सा च त्यक्ता वने शून्ये रुदती च मुहुर्मुहुः ॥
सस्मार तं महीपालं तममन्यत दैवतम् ॥११॥
अथ सा चारुसर्वांगी तत्रासक्तात्ममानसा ॥
निश्वासपरमा निन्ये दिनशेषं तथा निशाम् ॥१२॥
निश्वसन्त्यनवद्यांगी हाहेति रुदती मुहुः ॥
मन्दभाग्येति चात्मानं निनिन्द मदिरेक्षणा ॥१३॥
न विहारे न चाहारे रमणीये न तद्वने ॥
न कन्दरेषु शैलानां सा बबन्ध तदा रतिम् ॥
त्यक्ता तेन वरारोहे निनिन्द निजयौवनम् ॥१४॥
दुर्भगाहं क्व जातात्र दुष्टदैववशीकृता ॥
कथं प्राप्तः स मे भर्त्ता तादृशो नृपस त्तमः ॥१५॥
धन्योऽयमतिपुण्योऽयं योऽयं यौवनगोचरः ॥
अन्यासामसतीनां च रमिष्यति न संशयः ॥१६॥
अभीष्टा कस्यचित्कांता कांतः कस्याश्चिदीप्सितः ॥
परस्परानुरागाढयं दांपत्यमतिदुर्लभम् ॥१७॥
ममायं वल्लभो राजा न चाहं नृपवल्लभा ॥
परस्परानुरागो हि धन्यानामेव जायते ॥१८॥
यद्यद्य स महीपालो न मया संगमेष्यति ॥
तत्कामाग्निरवश्यं मां क्षपयिष्यति दुःसहः ॥१९॥
रमणीयमभूद्यत्तु पुंस्कोकिलनिनादितम् ॥
हीनं हि वल्लभेनैवं दहतीवाद्य मे वनम्॥ २०॥
इत्थं सा मदनाविष्टा विलपन्ती पुनःपुनः ॥
ददर्श तापसं तत्र त्रिकालज्ञं दृढव्रतम् ॥२१॥
मेखलाजिनकौपीनदण्डकाष्ठोपजीवनम् ॥
महौजसं महाभागं मुमुक्षुं मुनिपुंगवम् ॥२२॥
उदयादित्यसंकाशं विभावसुसमद्युतिम् ॥
तं दृष्ट्वा सहसोत्थाय सा राज्ञी दुर्मता सती ॥२३॥
विनयेनोपसंयम्य प्रणिपत्याभिवाद्य च ॥
वियोगकारणं राज्ञः पप्रच्छ प्रणता सती ॥२४॥
भगवन्काशिराजस्य सुताहमतिवल्लभा ॥
भगिनी शत्रुसेनस्य मातुश्चातीव वल्लभा ॥२५॥
अश्ववाहनसंज्ञेन नृपेणोढा महामुने ॥
धर्मतो धर्मकल्पेन प्रजपतिसमेन तु ॥२६॥
सा किमर्थं न चाभीष्टा जाताऽहं तस्य भूपतेः ॥
स चातीव ममाभीष्टो नृपतिः सर्वदा विभो ॥२७॥
दुर्भगाहं कथं जाता कर्मणा केन तापस ॥
कथं भवति वश्यो मे भर्त्ता नृपतिसत्तमः ॥
सौभाग्यं च कथं मे स्यादिति सत्यं च कथ्यताम् ॥२८॥
तस्यास्तद्वचनं श्रुत्वा स मुनिः संशितव्रतः ॥
ज्ञानेन कथयामास तस्या दौर्भाग्यकारणम् ॥२९॥
पाणिग्रहणकाले त्वं ग्रहैः पापैर्विलोकिता ॥
भर्ता ते नृपतिः पुत्रि ग्रहैः सौम्यैर्विलोकितः ॥३०॥
तेन ते वल्लभो राजा न त्वं भूपस्य वल्लभा ॥
इति तस्य वचः श्रुत्वा सा राज्ञी दीनमानसा ॥
पप्रच्छ विनयोपेता भक्तिनम्रात्मकन्धरा ॥३१॥
भगवन्केन दानेन स्नानेन नियमेन च ॥
कर्मणा केन सौभाग्यं परमं हि कथं भवेत् ॥३२॥
इति तस्या वचः श्रुत्वा स मुनिः संशितव्रतः ॥
कथयामास माहात्म्यं सौभाग्यं येन लभ्यते ॥३३॥
महाकालवने पुत्रि लिगं सौभाग्यदायकम्॥
मतंगेश्वरपार्श्वे तु विद्यतेऽभीष्टदायकम् ॥
तस्य दर्शनमात्रेण सौभाग्यं समवाप्स्यसि ॥३४॥
इंद्राण्याराधितं लिंगं पुरा सौभाग्यकारणात् ॥
सौभाग्यं परमं लब्धं नष्टः शक्रोऽपि लब्धवान् ॥
तस्माद्गच्छ ममादेशान्महाकालवनं शुभम् ॥३५॥
सौभाग्यं भविता तत्र कांतेन सह दर्शनम्॥
पुत्रो भविष्यति शुभे तस्य लिंगस्य दर्शनात् ॥३६॥
इत्युक्ता सा तदा तेन तापसेन वरानने ॥
विद्यते यत्र तल्लिंगं महाकालवनं गता ॥३७॥
ददर्श प्रणयोपेता लिंगं सौभाग्यदायकम् ॥
दर्शनात्तस्य लिंगस्य राजा सस्मार तां प्रियाम् ॥३८॥
पप्रच्छ जमदग्निं तु क्व गता मे प्रिया विभो ॥
भक्षिता विपिने विप्र सिंहव्याघ्रनिशाचरैः ॥३९॥
मया त्यक्ता नृशंसेन अहं तस्यास्तु वल्लभः ॥
एवं ब्रुवाणो नृपतिः प्रत्युक्तो जमदग्निना ॥४०॥
न भक्षिता सा भूपाल सिंहव्याघ्रनिशाचरैः ॥
सा चाविप्लुतचारित्रा त्वद्भक्ता च पतिव्रता ॥४१॥
महाकालवनं राजन्गता सौभाग्यकाम्यया ॥
भार्या रक्ष्या महीपाल इति सा श्रुतिरुत्तमा ॥४२॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ॥
आत्मा हि जायते तस्यां सा रक्ष्यातो नरेश्वर ॥४३॥
धर्महानिश्चानुदिनमभार्यस्य भवेन्नृप ॥
नित्यक्रियाया विभ्रंशः स चापि पतनाय वै ॥४४॥
पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्त्तरि ॥
दुःशीला दुर्भगा भार्या पोषणीया नरेश्वर ॥४५॥
इति तस्य वचः श्रुत्वा समायातो नरेश्वरः ॥
महाकालवने रम्ये ददर्श स्वां प्रियां तदा ॥४६॥
सौभाग्यालंकृतां सुभ्रू पूजयंतीं महेश्वरम् ॥
दृष्ट्वा स्नेहेन चालिंग्य प्रत्युवाच स तां प्रियाम्॥ ४७॥
विरहेण त्वदीयेन संतप्तोऽहं वरानने ॥
अद्य मे सफलं चक्षुर्जीवितं च सुजीवितम् ॥४८॥
यत्त्वां पश्यामि सुभगे कृतार्थोहं कृतस्त्वया ॥
एवं दृष्टातिहर्षेण सा ददर्श तदा पतिम् ॥
उवाच च प्रसीदेति भूयो भूयो मुदान्विता ॥४९॥
ततः स राजा रभसात्परिष्वज्याह भामिनीम् ॥
प्रिये प्रसन्न एवाहं भूयो भूयो ब्रवीमि किम् ॥५०॥
ततः समागमो जातो जातः पुत्रोऽतिधार्मिकः ॥
तस्य लिंगस्य माहात्म्याद्दत्तोनाम स गीयते ॥५१॥
सौभाग्यमतुलं लब्धं तया देव्या हिमात्मजे ॥
सौभाग्येश्वरसंज्ञं तु ततःप्रभृति भूतले ॥५२॥
ये पश्यंति विशालाक्षि सौभाग्येश्वरमीश्वरम्॥
तेषां कुले न दौर्भाग्यं जायते पर्वतात्मजे ॥५३॥
भविष्यति न दारिद्र्यं वियोगो न च बन्धुभिः ॥
पुत्रमित्रकलत्राणां लिंगस्य च समर्चनात् ॥५४॥
नोपसर्गभयं तेषां ये पश्यंति वरानने ॥
सौभाग्येश्वरसंज्ञं तु न ग्रहादिभयं भवेत् ॥५५॥
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः ॥
मनुष्यो जायते देवि सौभाग्येश्वरदर्शनात् ॥
संपूज्यः सर्वलोकेषु सौभाग्येकनिधिर्भवेत् ॥५६॥||
जायते भूपतिर्लोके सार्वभौमो वरानने ॥
नापुत्रा नाधना नारी न दीना न च दुःखिता ॥
जायते दुर्भगा नैव सौभाग्येश्वरदर्शनात् ॥५७॥
न वैधव्यं न च व्याधिर्नाकालमरणं श्रिये॥
न पुत्रभर्तृजं दुःखं जायते लिंगदर्शनात् ॥५८॥
यथा लक्ष्मीर्हरेर्नित्यं सावित्री ब्रह्मणः स्मृता ॥
रोहिणी वल्लभा चेंदोः शची शक्रस्य वल्लभा ॥
तथा सा जायते नारी सौभाग्येश्वरदर्शनात् ॥५९॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
सौभाग्येश्वरदेवस्य शृणु रूपेश्वरं प्रिये ॥६०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीति लिंगमाहात्म्ये सौभाग्येश्वरमाहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP