संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ७९

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ७९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीमहादेव उवाच ॥
एकोनाशीतिकं विद्धि हनुमत्केश्वरं प्रिये ॥
यस्य दर्शनमात्रेण समीहितफलं लभेत् ॥१॥
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ॥
आगता मुनयो देवि राघवं प्रतिनंदितुम् ॥२॥
रामेण पूजिताः सर्वे ह्यगस्तिप्रमुखा द्विजाः ॥
प्रहृष्टमनसो विप्रा रामं वचनमब्रुवन् ॥३॥
दिष्ट्या तु निहतो राम रावणः पुत्रपौत्रवान् ॥
दिष्ट्या विजयिनं त्वाऽद्य पश्यामः सह भार्यया ॥४॥
हनूमता च सहितं वानरेण महात्मना ॥
दिष्ट्या पवनपुत्रेण राक्षसांतकरेण च ॥५॥
चिरं जीवतु दीर्घायुर्वानरो हनुमान्सदा ॥
अंजनीगर्भसंभूतो रुद्रांशो हि धरातले ॥६॥
आखंडलोऽग्निर्भगवान्यमो वै निऋतिस्तथा ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥
ब्रह्मणा सहिताश्चैव दिक्पालाः पातु सर्वदा ॥७॥
श्रुत्वा तेषां तु वचनं मुनीनां भावितात्मनाम् ॥
विस्मयं परमं गत्वा रामः प्रांजलिरब्रवीत् ॥८॥
किमर्थं लक्ष्मणं त्यक्त्वा वानरोऽयं प्रशंसितः ॥
कीदृशः किंप्रभावो वा किंवीर्यः किंपराक्रमः ॥९॥
अथोचुः सत्यमेवैतत्कारणं वानरोत्तमे ॥
न त्वस्य सदृशो वीर्ये विद्यते भुवनत्रये ॥१०॥
एष देव महाप्राज्ञो योजनानां शतं प्लुतः ॥
धर्षयित्वा पुरीं लंकां रावणांतःपुरं गतः ॥११॥
प्रादेशमात्रप्रतिमं कृतं रूपमनेन वै ॥
दृष्टा संभाषिता सीता पृष्टा विश्वासिता तथा ॥१२॥
सेनाग्रगा मंत्रिपुत्राः किंकरा रावणात्मजाः ॥
हता हनुमता तत्र ताडिता रावणालये ॥१३॥
भूयो बन्धविमुक्तेन संभाष्य तु दशाननम् ॥
लंका भस्मीकृता तेन पातकेनेव मेदिनी ॥१४॥
न कालस्य न शक्रस्य न विष्णोर्वेधसोऽपि वा ॥
श्रूयंते तानि कर्माणि यादृशानि हनूमतः ॥१५॥।
॥ राम उवाच ॥
एतस्य बाहुवीर्येण लंका सीता च लक्ष्मणः ॥
प्राप्तो मम जयश्चैव राज्यं मित्राणि बान्धवाः ॥१६॥
सखायं वानरपतिर्मुक्त्वैनं हरिपुंगवम् ॥
प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥१७॥
वाली किमर्थमेतेन सुग्रीवप्रियकाम्यया ॥
तदा वैरे समुत्पन्ने न दग्धस्तृणवत्कथम् ॥१८॥
नायं विदितवान्मन्ये हनुमानात्मनो बलम् ॥
उपेक्षितः क्लिश्यिमाने किमर्थं वानराधिपे ॥१९॥
एवं ब्रुवाणं रामं तु मुनयो वाक्यमब्रुवन् ॥
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ॥२०॥
न बले विद्यते तुल्यो न गतौ न मतावपि ॥
अमोघवाक्यैः शापस्तु दत्तोऽस्य मुनिभिः पुरा ॥२१॥
न ज्ञातं हि बलं येन बलिना वालिमर्दने ॥
बाल्येऽप्यनेन यत्कर्म कृतं नाम महात्मना ॥२२॥
तन्न वर्णयितुं शक्यमेतस्य तु बलं महत् ॥
यदि श्रोतुं तवेच्छास्ति निशामय वदामहे ॥२३॥
असौ हि जातमात्रोऽपि बालार्क इव मूर्त्तिमान् ॥
ग्रहीतुकामो बालार्कं पुप्लावांबरमध्यतः ॥२४॥
तूर्णमाधावतो राम शक्रेण विदितात्मना ॥
हनुस्तेनास्य सहसा कुलिशेनैव ताडितः ॥२५॥
ततो गिरौ पपातैष शक्रवज्राभिताडितः ॥
पततोस्य महावेगाद्वामो हनुरभज्यत ॥
अस्मिंस्तु पतिते बाले मृतकल्पेऽशनिक्षतात् ॥२६॥
ततो वायुः समादाय महा कालवनं गतः ॥
लिंगमाराधयामास पुत्रार्थं पवनस्तदा ॥२७॥
स्पृष्टमात्रस्तु लिंगेन समुत्तस्थौ प्लवंगमः ॥
जलसिक्तं यथा सस्यं पुनर्जीवि तमाप्तवान् ॥२८॥
प्राणवंतमिमं दृष्ट्वा पवनो हर्षितस्तदा ॥
प्रत्युवाच प्रसन्नात्मा पुत्रमादाय सत्वरम् ॥२९॥
स्पर्शनादस्य लिंगस्य मम पुत्रः समुत्थितः ॥
हनुमत्केश्वरो देवो विख्यातोऽयं भविष्यति ॥३०॥
एतस्मिन्नंतरे शक्रः समायातः सुरैर्वृतः ॥
नीलोत्पलमयीं मालां संप्रगृह्येदमब्रवीत् ॥३१॥
मत्करोत्सृष्टवज्रेण यस्मादस्यहनुर्हतः ॥
तदेष कपिशार्दूलो हनुमांस्तु भविष्यति ॥३२॥
वरुणोऽस्व वरं प्रादान्नास्य मृत्युर्भविष्यति ॥
यमो दंडादवध्यत्वमारोग्यं धनदो ददौ ॥३३॥
सूर्येण च प्रभा दत्ता पवनेन गतिर्द्रुता ॥
लिंगेन च वरो दत्तो देवानां संनिधौ तदा ॥३४॥
आयुधानां हि सर्वेषामवध्योऽयं भविष्यति ॥
अजरश्चामरश्चैव भविष्यति न संशयः ॥३५॥
अमित्रभयदो ह्येष मित्राणामभय प्रदः ॥
अजेयो भविता युद्धे लिंगेनोक्तं पुनःपुनः ॥३६॥
शत्रोर्बलोत्सादनाय राघवप्रीतये सदा ॥
कियत्कालं बलं स्वीयं न स्मरिष्यति शापतः ॥३७॥
हते तु रावणे भूयो रामस्यानुमते स्थितः ॥
विभीषणं प्रार्थयित्वा मामत्र स्थापयिष्यति ॥३८॥
ततो मां त्रिदशाः सर्वे पूजयिष्यंति भाविताः ॥
तेनैव नाम्ना विख्यातिं पुनर्यास्यामि भूतले ॥३९॥
अथ गंधवहः पुत्रं प्रगृह्य गृहमानयत् ॥
अंजनायै तदाचख्यौ वरलब्धिं च लिंगतः ॥४०॥
एवं लिंगप्रभावाच्च बलवान्मारुतात्मजः ॥
स जातस्त्रिषुलोकेषु राम तस्मात्प्रशस्यते ॥४१॥
पराक्रमोत्साहमति प्रतापैः सौशील्यमाधुर्यनयादिकैश्च ॥
गांभीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकोऽस्ति लोके ॥४२॥
ममेव विक्षोभितसागरस्य लोकान्दि धक्षोरिव पावकस्य ॥
प्रजा जिहीर्षोरिव चातकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥४३॥
एतद्वै कथित तुभ्यं यन्मां त्वं परि पृच्छसि ॥
हनूमतोऽस्य बालस्य कर्माण्यद्भुतविक्रम ॥४४॥
दृष्टः सभाजितश्चापि राम गच्छामहे वयम् ॥
एवमुक्त्वा गताः सर्वे मुनयोऽवंतिमण्डलम् ॥
पूजयामासुरीशानं हनुमत्केश्वरं शिवम् ॥
समर्चयंति ये भक्त्या लिंगं त्रिदशपूजितम् ॥
हनुमत्केश्वरं देवं ते कृतार्थाः कलौ युगे ॥४६॥
व्रजंत्येव सुदुष्प्राप्यं ब्रह्मसायुज्यमव्ययम्।
संप्राप्य तु पुनर्जन्म लभंते मोक्षमव्ययम् ॥४७॥
यः पश्यति नरो लिंगं हनुमत्केश्वरॆ प्रिय ॥
सोऽधिकं फलमाप्नोति सर्वदुःखविवर्जितः ॥४८॥
सर्वलोकेषु तस्यैव गतिर्न प्रतिहन्यते ॥
दिव्येनैश्वर्ययोगेन युज्यते नात्र संशयः ॥४९॥
बालसूर्यप्रतीकाशविमानेन सुवर्चसा ॥
वृतः स्त्रीणां सहस्रैस्तु स्वच्छदगमनागमः ॥५०॥
विचरत्यविचारेण सर्वलोकान्दिवौकसाम् ॥
स्पृहणीयतमः पुंसां सर्ववर्णोत्तमोधुना ॥५१॥
स्वर्गाच्च्युतः प्रजायेत कुले महति रूपवान् ॥
धर्मज्ञो रुद्रभक्तश्च सर्वविद्यार्थपारगः ॥५२॥
राजा वा राजतुल्यो वा दर्शनादस्य जायते ॥
स्पर्शनात्परमं पुण्यं यजनात्परमं पदम् ॥५३॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
हनुमत्केश्वरेशस्य स्वप्नेश्वरमथो शृणु ॥५४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्य उमामहेश्वरसंवादे हनुमत्केश्वरमाहात्म्यवर्णनंनामैकोनाशीतितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP