अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीहर उवाच ॥
मार्कण्डेयेश्वरं विद्धि षट्त्रिंशत्तममीश्वरम् ॥
यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः ॥१॥
ब्रह्मवंशसमुत्पन्नो मृकण्डोनाम तापसः ॥
वेदाध्ययनसंपन्नः स चापुत्रो बभूव ह ॥२॥
पुत्रार्थं चिन्तयामाम कथं पुत्रो भवेदिति ॥
अपुत्रस्य कुतो लोक इति वेदेषु पठ्यते ॥३॥
तस्मात्तपः करिष्यामि येन मे तनयो भवेत् ॥
एवं संचित्य बहुधा स जगाम हिमालयम् ॥४॥
चकार वसतिं चापि तपसे भावितात्मवान् ॥
वायुभक्षोंबुभक्षश्च निराहारोर्ध्वपादकः ॥५॥
शाकमूलफलाहारः पर्णाश्येकद्विपर्णभुक् ॥
एवमादीनि चान्यानि तपांसि सुबहून्यपि ॥६॥
चकार स मुनिस्तत्र वर्षाणि द्वादशैव तु ॥
न तुष्टोऽहं तदा देवि तपसा दुष्करेण तु ॥७॥
ततो ज्ञात्वा मतिं तस्य विज्ञप्तोऽहं तदा त्वया ॥
करोत्येव तपः क्रूरं पुत्रहेतोर्मुनिर्महान् ॥८॥
तेजसा दीपयञ्छैलं शोषयन्सलिलाशयान् ॥
तपसा दुष्करेणैव क्षुभिता नाकवासिनः॥९॥
समुद्राः क्षुभिताः सर्वे चन्द्रादित्यौ तथैव च ॥
ऋषयो विस्मृतिं प्राप्ताः कंपेते चापि रोदसी ॥
अकालप्रलयो देव भविष्यति न संशयः ॥१०॥
मुनये तन्मृकण्डाय पुत्रो वै दीयतामिति॥
मया प्रोक्तं वरारोहे पुत्रमिच्छत्ययोनिजम् ॥११॥
अक्षयं सुविशालाक्षि सहस्राक्षमिवापरम् ॥
चन्द्राभं चन्द्रवदनं चन्द्रवद्भुवनप्रियम् ॥१२॥
नीलोत्पलदलश्यामं नीलोत्पलदलेक्षणम् ॥
विशालचारुजघनं चारुकुण्डलमंडितम् ॥
पुत्रमिच्छति देवेशि मृकण्डोऽयं महामुनिः ॥१३॥
त्वयाप्युक्तं पुनर्देवि कारुण्याद्भक्तिवत्सले ॥
न ददासि मुनेः पुत्रं तप्यतो विषमं तपः ॥१४॥
फलस्य दाता तपसां कथं त्वं गीयसे बुधैः ॥
कस्त्वां नु शरणं गच्छेल्लोकानां सम्भवं भवम् ॥१५॥
करोषि सर्वदैत्यानां सर्वदेवाकुलाकुलम् ॥
त्वयाहं सुचिरं देवं सत्कृता करुणाकर ॥१६॥
नान्यो मामनुकम्पार्थं प्रयच्छेत्प्रवरं वरम् ॥
स त्वं सर्वजगन्नाथ प्रभुः कर्त्ता प्रशासिता ॥१७॥
हेतुः स्वामी महेशानो दयालुर्भक्तवत्सलः ॥
सर्वेश्वर स्तुतोऽभीष्टं किं न विप्राय दीयते ॥१८॥
तपसा क्षीणपापस्य ब्रह्मत्वे भावितात्मनः ॥
अस्य पुत्रप्रदानं त्वं कुरु मद्वचनाच्छिव ॥१९॥
मया त्वं वर्णिता देवि स्नेहाक्षरपदैः शुभैः ॥
लोलपंकजपत्राक्षि गौरि भूधरगात्रजे ॥२०॥
स्कंदमातः कलापूर्णचंद्रबिम्बनिभानने ॥
कृशोदरि विनिःस्पृष्टचामीकरनिभद्युते ॥२१॥
त्वयोक्तं प्रकरिष्यामि वाक्यं द्विरदगामिनि ॥
त्वं सिद्धिः साधका साध्यं त्वं क्रिया प्रक्रमाश्रया ॥२२॥
त्वं माया श्रीर्द्युतिः श्रीमच्छ्रद्धारुचिरसंततिः ॥
कृत्वा मानं बहुविधं मयैव सह सुन्दरि ॥२३॥
भ्राजसे विविधाकारा मोहयित्वाखिलं जगत् ॥
त्वयाप्युक्तं पुनर्देवि क्रियतां तु वचो मम ॥२४॥
मुनयेऽस्मै तपःक्षीणसर्वगात्राय सांप्रतम् ॥
वरः प्रदीयतामस्मै ब्राह्मणाय महेश्वर ॥२५॥
मयाप्युक्तं विशालाक्षि श्रूयतां वचनं मम ॥
असौ गच्छतु विप्रेंद्रो महाकालवनोत्तमे ॥२६॥
पत्तनेश्वरपूर्वे तु तत्रास्ते लिंगमुत्तमम् ॥
पुत्रप्रदं विशालाक्षि महापातकनाशनम् ॥२७॥
मदीयं वचनं श्रुत्वा त्वयाप्युक्तो द्विजोत्तमः ॥
महाकालवनं गच्छ पुत्रार्थमृषि सत्तम ॥
तत्र लिंगं समाराध्य लप्स्यसे पुत्रमुत्तमम् ॥२८॥
त्वया संप्रेरितो विप्रस्तथेति कृतनिश्चयः ॥
आशया परया युक्तः पुत्रकामो जगाम सः ॥२९॥
तत्र दृष्ट्वा महालिंगं पुत्रदं पापनाशनम् ॥
भक्त्या संसेवयामास तपसा दुष्करेण तु ॥३०॥
अथ केनापि कालेन निःसृतोऽहं त्वया सह॥
लिंगमध्याद्वरारोहे स च प्रोक्तो द्विजोत्तमः ॥३१॥
शर्वोऽहमिति जानीहि ब्रूहि किं करवाणि ते ॥
आवां पुरा प्रसन्नौ ते ज्ञातं तव विचेष्टितम् ॥३२॥
यमिच्छसि वरं ब्रह्मंस्तदद्य प्रददामि ते ॥
मया प्रोक्तः प्रसन्नेन मुनिः परमविस्मितः ॥३३॥
प्रह्वः प्राह सुहृदये स हृष्टो मुनि सत्तमः ॥
अपत्यहेतोर्देवेशौ किमलभ्यं भवेन्मम ॥३४॥
मया प्रोक्तस्तदा देवि मृकण्डो मुनिसत्तमः ॥
अयोनिजस्ते तनयो मानुषो वै भवि ष्यति ॥
ऐश्वर्यज्ञानसंपन्नो दीर्घायुः सर्ववित्सुधीः ॥३५॥
एतस्मिन्नंतरे देवि प्रादुर्भूतो महातपाः ॥
पुत्रः परमधर्मात्मा मार्कण्डेयो महामुनिः ॥३६॥
स जातमात्रो धर्मात्मा तत्रैव तपसि स्थितः ॥
देवमाराधयामास स तुष्टोऽथ वरं ददौ ॥३७॥
त्वयाहं जातमात्रेण तपसा तोषितो यतः ॥
तस्मात्ख्यातिं गमिष्यामि त्वन्नाम्ना द्विजसत्तम ॥३८॥
ये मां पश्यंति विप्रेंद्र भक्त्या परमया युताः ॥
प्राप्नुवंति गतिं नित्यं ते सदानंद दायिनीम् ॥३९॥
प्रसंगाद्ये गमिष्यंति ते सदा दुःखवर्जिताः ॥
देवदेवं समाराध्य मोदिष्यंति हि ते नराः ॥४०॥
त्र्यक्षा गणेश्वराः सिद्धाः सिद्धगंधर्वसेविताः ॥
ते भविष्यंति सततं मम भक्ताश्च ये नराः ॥४१॥
ये मां संपूजयिष्यंति हृद्यैः पुष्पैः सुगंधिभिः ॥
दीर्घायुषो भविष्यंति सदा दुःखविवर्जिताः ॥४२॥
इत्युक्ते तेन लिंगेन मार्कण्डेयो महातपाः ॥
तपश्चचार तत्रैव महाकालवने स्थितः ॥४३॥
प्रभावः कथितो देवि मार्कंडेयेश्वरस्य च ॥
शिवेश्वरस्य देवस्य माहात्म्यं शृणु सांप्रतम् ॥४४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये मार्कंडेयेश्वरमाहात्म्यवर्णनंनाम षट्त्रिशोऽध्यायः ॥३६॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP