संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ४३

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीशिव उवाच ॥
चत्वारिंशत्तमं विद्धि त्र्यधिकं पर्वतात्मजे ॥
यस्य दर्शनमात्रेण जायते सर्वसंपदः ॥१॥
आदिकल्पे पुरा जातो वक्रांगो लोहितच्छविः ॥
रौद्रस्त्वंगारसदृशो मम गात्राद्वरानने ॥
मया धृतो धरण्यां स विख्यातो भूमिपुत्रकः ॥२॥
जातमात्रे सुते तस्मिन्महाकाये भयावहे ॥
कंपिता धरणी देवी देवास्त्रस्ताः सवासवाः ॥३॥
क्षोभं गताः समुद्राश्च चेलुश्च धरणीधराः ॥
तेनैव पीडितं सर्वं सदेवासुरमानुषम् ॥४॥
ऋषयो वालखिल्याश्च देवाः शक्रपुरोगमाः ॥
बृहस्पतिं पुरस्कृत्य ब्रह्मलोकं गताः प्रिये ॥५॥
सोच्छ्वाँसाः कथयामासुर्नमस्कृत्य पितामहम् ॥
वृत्तांतं विस्तरात्सर्वं लोकत्रयविनाशनम् ॥६॥
हरगात्रोद्भवेनैव जातमात्रेण लीलया ॥
लोकत्रयं समाक्रांतं पीडितं भक्षितं तथा ॥७॥
तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः ॥
चिंतयित्वा तु तैः सार्द्धमाजगाम ममांतिकम् ॥८॥
मया पृष्टास्तु ते सर्वे किमर्थं भयविह्वलाः ॥
सोच्छ्वासहृदया दीनाः कस्माद्वो भयमागतम् ॥९॥
तैः सर्वं कथितं देवि ममाग्रे भयविह्वलैः ॥
त्वदंगसंभवेनैव देवदेव जगत्पते ॥
पीडितं भक्षितं चैव सदेवासुरमानवम् ॥१०॥
इति तेषां वचः श्रुत्वा क्षेमार्थं कृपया मया ॥
आकारितो मत्समीपमुवाच वदतां वरः ॥११॥
आदेशो दीयतां देव किं करोमीत्युवाच सः ॥
नाकर्ष त्वं जगदिदं मया प्रोक्तः पुनःपुनः ॥१२॥
ममांगाद्रजसा जातस्तेनांगारक उच्यसे ॥
लोकानां स्वस्तये नित्यं मंगलोसि मया कृतः ॥१३॥
इदानीं वक्रतां यातो वक्रस्त्वं गीयसे बुधैः ॥
विज्ञप्तोऽहं तदा तेन मम वाक्यं श्रुतं यदा ॥
आहारेण विना देव कथं तृप्तिर्भविष्यति ॥१४॥
तस्मान्मे देहि सुस्थानमाधिपत्यं च देहि मे ॥
शक्तिं च देहि मे शीघ्रमाहारं देहि मे प्रभो ॥१५॥
तस्य तद्वचनं श्रुत्वा पुत्रोऽयं मम वल्लभः ॥
तस्माद्दास्यामि परमं स्थानमक्षयमुत्तमम् ॥१६॥
इति संचिन्त्य मनसा स्मृतं स्थानं मयोत्तमम् ॥
उत्संगे च सुतं कृत्वा प्रेम्णा प्रोक्तं पुनःपुनः ॥१७॥
दत्तं पुत्र मया स्थानं महाकालवनोत्तमे ॥
गंगेश्वरस्य पूर्वे तु प्रशस्यं स्थानमुत्तमम् ॥१८॥
खगर्ता चैव शिप्रा च संगमस्तत्र विद्यते ॥१९॥
यदा मया धृता गंगा तदा सा चन्द्रमण्डलात् ॥
प्रमादात्पतिता भूमौ महाकालवनोत्तमे ॥२०॥
खगर्तेति च विख्याता खाद्भ्रष्टा प्रापतत्क्षितौ ॥
अतो मयावतारस्तु सहसा तव वै कृतः ॥२१॥
लिंगमूर्तिरहं पुत्र तिष्ठामि सुरपूजितः ॥
तत्स्थानं दुर्लभं देवैस्तस्मात्त्वं गच्छ सत्वरम् ॥२२॥
पूजितोऽहं त्वया तत्र संगमे लोकपूजिते ॥
त्रिषु लोकेषु यास्यामि ख्यातिं वै तव नामतः ॥२३॥
मध्ये ग्रहाणां सर्वेषामाधिपत्यं मया तव ॥
दत्तं तृतीयकं स्थानं तत्र तृप्तिर्भविष्यति ॥२४॥
पूजां प्राप्स्यसि तत्रैव ग्रहमध्ये व्यवस्थितः ॥
तिथिर्दत्ता चतुर्थी ते तस्यां ये व्रततत्पराः ॥२५॥
त्वामुद्दिश्य करिष्यंति पूजां शांतिं सदक्षिणाम् ॥
तेन सर्वेण ते तृप्तिर्भविष्यति न संशयः ॥२६॥
वारश्चैकश्च ते दत्तो मंगलार्थं मया तव ॥
नववस्त्रपरीधानं विद्यारंभं दिने तव ॥
तैलाभ्यंगं करिष्यंति न च प्राप्स्यंति ते बलम् ॥२७॥
इत्युक्तस्तु मया देवि वक्रांगो मंगलः सुतः ॥
अंगारकेति विख्यातस्तथेत्यंगीचकार सः ॥२८॥
सन्तुष्टस्तेन वाक्येन मदीयेन वरानने ॥
आजगाम मुदा युक्तो महाकालवनोत्तमे ॥२९॥
शिप्रायाश्च तटे रम्ये खगर्त्तासंगमांतिकम् ॥
दृष्टोऽहं लिंगरूपेण परां तुष्टिमुपागतः ॥३०॥
मया चालिंगितः प्रेम्णा चुम्बितः शिरसि प्रिये ॥
वरो दत्तो विशालाक्षि वांछितं ते भविष्यति ॥३१॥
दृष्टोऽहं च त्वया पुत्र भक्त्या चाराधितस्त्वया ॥
मम वाक्यं कृतं यस्मात्तस्मात्तुष्टोऽस्मि मंगल ॥३२॥
अंगारेश्वरनामाहमद्यप्रभृति पुत्रक ॥
त्रिषु लोकेषु विख्या तो भविष्यामि न संशयः ॥३३॥
ये मां पश्यंति सततं संगमेऽत्र व्यवस्थितम् ॥
न तेषां पुनरावृत्तिर्भविष्यति महीतले ॥३४॥
ये मां संपूज यिष्यंति ह्यंगारकदिने नराः ॥
कलौ युगे कृतार्थास्ते भविष्यंति न संशयः ॥३५॥
चतुर्थ्यां मंगलदिने ये मां पश्यंति सुव्रताः ॥
न ते यास्यंति संसारे घोरे दुःखशताकुले ॥३६॥
अमावास्या च भौमश्च संयोगो दृश्यते यदा ॥
खगर्त्तायाश्च शिप्रायाः संगमे देवपूजिते ॥३७॥
स्नात्वा तदा प्रपश्यंति मामत्रैव व्यवस्थितम् ॥
तेषां पुण्यफलं देवि समासाच्छृणु सांप्रतम् ॥३८॥
वाराणस्यां प्रयागे च कुरुक्षेत्रे च यत्फलम् ॥
गयायां पुष्करे प्रोक्तं तत्पुण्यमधिकं भवेत् ॥३९॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
अंगारेश्वरदेवस्य श्रूयतामुत्तरेश्वरम्॥ ४०॥     
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्येंऽगारकेश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP