संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ३८

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ईश्वर उवाच ॥
अष्टात्रिंशत्तमं विद्धि कुसुमेश्वरसंज्ञकम् ॥
देवं स्वर्गप्रदं देवि महापातकना शनम् ॥१॥
पुरा वैवस्वते कल्पे प्राप्ते वाराहसंज्ञके ॥
प्रादुर्भूते विशालाक्षि कैलासादहमागतः ॥२॥
महाकालवने रम्ये रममाणस्य पार्वति ॥
त्वया सार्द्धं ममाक्षैश्च प्रादुरासीन्महास्वनः ॥३॥
पृष्टोऽहं च तदा श्रुत्वा शब्दं चातीव दुःसहम् ॥
शब्दोत्पत्तिर्मया देवि कथिता सा त्वदग्रतः ॥४॥
एते गणेशाः क्रीडंति मध्ये वै वीरको गणः ॥
कुसुमैर्भूषितोऽत्यर्थं ममातीव सुवल्लभः ॥५॥
कुसुमैर्हन्यतेऽप्यर्थं पूज्यते कुसुमोत्करैः ॥
स एव वीरको देवि सदा मे हर्षदायकः ॥६॥
नानाश्चर्यगुणाधारो गणेश्वरशतार्चितः ॥
मदीयं वचनं श्रुत्वा त्वयाप्युक्तं वरानने ॥७॥
 न दृश्यते विना पुण्यैः पुत्रस्याननपंकजम् ॥
ईदृशस्य सुतस्यापि ममोत्कण्ठा महेश्वर ॥८॥
कदाहमीदृशं पुत्रं द्रक्ष्याम्यानन्ददायकम् ॥
मया तव वचः श्रुत्वा हसित्वा च पुनःपुनः ॥
प्रोक्तं पार्वति पुत्रोऽयं प्रदत्तो वीरकोऽधुना ॥९॥
एष एव सुतस्तेस्तु नयनानन्ददायकः ॥
त्वया मात्रा कृतार्थस्तु वीरकः कुसुमार्चितः ॥१०॥
मदीयं वचनं श्रुत्वा प्रेषिता विजया त्वया ॥
दत्तो हरेण मे पुत्रो विजये शीघ्रमानय ॥११॥
विजयोवाच गणपं गणमध्ये च वर्त्तिनम् ॥
एहि वीरक चापल्यात्त्वया देवः प्रकोपितः ॥
किमुन्मत्तवदत्यर्थं नृत्यरागेण मोहितः ॥१२॥
इत्युक्तो भयसंत्रस्तः कुसुमैर्भूषितस्तदा ॥
त्वत्समीपं समायातो विजयानुगतः शनैः ॥१३॥
भूषितं कुसुमैर्दृष्ट्वा भयत्रस्तं च वीरकम् ॥
त्वया चाकारितो देवि गिरा मधुरवर्णया ॥१४॥
एह्येहि जातोऽसि मे पुत्रकस्त्वं देवेन दत्तोऽधुना वीरकोसि ॥
उक्तवत्येवमंके निधायाथ तं पर्यचुम्बः कपोले कलंवादिनम् ॥१५॥
मूर्धन्युपाघ्राय सम्मार्ज्य गात्राणि सा भूषयामास दिव्यैः स्वयं भूषणैः ॥
किंकिणीमेखलानूपुरैः सन्मणीनिष्ककेयूरहारोत्करैः सद्गुणैः ॥१६॥
कोमलैः पल्लवैश्चित्रितैश्चारुभिर्दिव्य मन्त्रोद्भवैस्तस्य शुभ्रैस्ततः ॥
भूतिभिश्चाकरोर्मिश्रसिद्धार्थकैरंगरक्षाविधींस्तस्यतुष्टा सती ॥१७॥
एवमाधाय चोवक्थ कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभंगोज्वलैः ॥
वत्स गच्छाधुना क्रीड सार्द्धं गणैरप्रमत्तो यथा बालचर्यां शनैः ॥१८॥
सोऽपि सिद्ध्याकुले गण्डशैले मिलद्रत्नजाले वृहच्छा लतालाकुले ॥
क्षणं फुल्लमालातमालालिमाले क्षणं वृक्षमूले विलोलालिमाले ॥१९॥
क्षणं स्वल्पपंके जले पंकजाले क्षणं वृक्षखण्डे शुभे निष्कलंके ॥
परिक्रीडते बालको वै विहारी गणेशाधिपो देवतानन्दकारी ॥२०॥
एवं विक्रीडतस्तस्य वीरकस्य गणस्य च ॥
संध्या तमो मयी प्राप्ता विज्ञप्तोऽहं त्वया प्रिये ॥२१॥
ऐश्वर्यं दीयतामस्य मम पुत्रस्य शंकर ॥
शरीरार्द्धं गणेशत्वं लोकपालत्वमग्रतः ॥२२॥
लिंगत्वमक्षयत्वं च स्थानं दिव्यं सुदुर्ल्लभम् ॥
वंद्यमानं यथा देव सिद्धगन्धर्वकिंनरैः ॥
ब्रह्मेन्द्रवरुणादित्यलोकपालेश्वरेश्वरैः ॥२३॥
एतैरेव गणैः सार्द्धं स्तूय मानं महात्मभिः ॥
अलंकृतो मया यस्मात्कुसुमैर्विविधैः शुभैः ॥२४॥
कुसुमेश्वरसंज्ञस्तु तस्मात्ख्यातो भवत्विति ॥
मयाप्युक्तं विशालाक्षि वीरकं दयितं मम ॥२५॥
मत्प्रभावसमं दिव्यं सेवितं गणपैः सदा ॥
शृणु गन्धर्वगीतानां माधुर्यममृतोपमम् ॥२६॥
पश्य किन्नरनारीणां गायन्तीनां मनोरमम् ॥
पश्याप्सरःसमूहस्यनृत्यमेतन्निरन्तरम् ॥२७॥
विद्याधरैः परिवृतः कुसुमेशो वरानने ॥
विशेषतो मया देवि प्रथमं प्रमथे श्वरः ॥
कुसुमेश्वरतां नीतो यदा कुसुममंडितः ॥२८॥
स्थानं दत्तं विशालाक्षि शिवलिंगस्य चोत्तरे ॥
वरो दत्तो बहुमतो दुष्प्राप्यस्त्रिदशैरपि ॥२९॥
ये त्वां द्रक्ष्यंति गणप कुसुमेश्वरसंज्ञकम् ॥
न तेषां जायते पापं पद्मपत्रे यथा जलम् ॥३०॥
कुसुमैरर्चयिष्यंति ये नराः कुसुमेश्वरम् ॥
मत्स्थानं ते समासाद्य मोदिष्यंति गतव्यथाः ॥३१॥
योऽप्येकं दिवसं मर्त्त्यस्त्वां पश्यति समाहितः ॥
स मुक्तः पातकैः सर्वैर्मम लोकं गमिष्यति ॥३२॥
यः पूजयति भावेन कुसुमैः कुसुमेश्वरम् ॥
स प्राप्स्यति परं स्थानं पुनरावृत्तिदुर्लभम् ॥३३॥
एवमादिवरैः पुष्टः कृतोयं कुसु मेश्वरः ॥
कृतकृत्यो गणो देवि लिंगेनेश्वरतां गतः ॥३४॥
कुसुमेश्वरदेवस्य प्रभावः कथितस्त्वयम् ॥
अक्रूरेशस्य देवस्य श्रूयतां तदनन्तरम् ॥३५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे कुसुमेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP