अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ हर उवाच ॥
अक्रूरेश्वरमेकोनचत्वारिंशत्तमं शृणु ॥
यस्य दर्शनमात्रेण सुबुद्धिर्जायते नृणाम् ॥१॥
पुरा त्वयैव कल्पादौ परया शक्तिरूपया ॥
कृतं कृत्स्नं वरारोहे त्रैलोक्यं सचराचरम् ॥२॥
ततस्त्वं संस्तुता देवैः सकिंनरमहोरगैः ॥
प्रदक्षिणां प्रकुर्वति गणा नानाविधास्तु ते ॥३॥
नमस्कारं प्रकुर्वति स्तोत्रं कुर्वंति चापरे ॥
न करोति नमस्कारमेको भृंगिरिटिस्तदा ॥४॥
क्रूरां बुद्धिं समासाद्य गर्वेणतीव गर्वितः ॥५॥
एको देवो महादेवः स्त्रिया किमनया मम ॥
यदा नायाति ते पार्श्वं तदा प्रोक्तस्त्वया गतः ॥६॥
कस्मान्न कुरुषे पूजां प्रदक्षिणमथो स्तुतिम् ॥
मद्भक्तो मदधीनोऽसि मम पुत्रो मया कृतः ॥
इत्थंभूतगणेश त्वं किं वै लौल्येन वर्त्तसे ॥७॥
इति भृंगिरिटिः श्रुत्वा कुद्धस्त्वामाह गर्वितः ॥
नाहं पार्वति ते पुत्रः पुत्रोऽहं शंकरस्य तु ॥८॥
एष एव च मे माता एष एव च मे पिता ॥
एवं रात्रिदिनं यामि शरणं परमेष्ठिनम् ॥९॥
त्वमप्यस्यैव शरणं ननु पार्वति संस्थिता॥
यदि च त्वामहं वंदे तद्वंदे सकलान्गणान् ॥१०॥
इति भृंगिरिटेः श्रुत्वा वाक्यं कुपितया त्वया ॥
तस्योक्तं प्रमथेशस्य भीरु भृंगिरिटेरिदम् ॥११॥
सुतो भूत्वा भवान्कस्माददाक्षिण्यं ब्रवीषि माम् ॥
त्वङ्मांसशोणितांत्रं च मातृकं तनयस्य तु ॥१२॥
नखदंतास्थिसंघातः शिश्नं वाक्च शिरस्तथा ॥
तथैव शुक्रं गणप पैतृकं तु शरीरकम् ॥१३॥
इति भृंगिरिटिः श्रुत्वा सद्यो योगबलेन तु ॥
मांसादि त्यक्तवान्सर्वं मातृकं भागमेव हि ॥१४॥
ततः प्रभृति वामोरु नखदंतास्थिनासिकः ॥
स च क्रूरां मतिं कृत्वा क्रोधसंरक्तलोचनः ॥१५॥
त्वां परित्यज्य दुःखार्त्त आजगाम ममांतिकम् ॥
अथ त्वया तदा शप्तो गणो भृंगिरिटिः प्रिये ॥१६॥
क्रूरा बुद्धिः कृता यस्मात्त्वया कुमतिना भृशम् ॥
तस्मात्त्वं मानुषे लोके गमिष्यसि न संशयः ॥१७॥
इत्युक्तस्तु त्वया देवि गणो भृंगिरिटिस्तथा ॥
पपात मानुषं लोकं पुण्यांते सुकृती यथा ॥१८॥
स गत्वा पुष्करद्वीपं तपसे भावितात्मवान् ॥
तत्रैकपादूर्द्ध्वभुजो दशपद्मान्यवस्थितः ॥
दग्धीभूतं च तपसा जगद्वै दुष्करेण तु ॥१९॥
ततो ब्रह्मा च विष्णुश्च शक्रश्च त्रिदशैः सह ॥
वयं च चारुजघने तत्समीपं समागतः ॥२०॥
उपगम्य ततस्तस्य कथितं पुरतो मया ॥
अलं क्रूरेण तपसा लोकस्योत्सादनेन वै ॥२१॥
त्रैलोक्यमपि निःसंज्ञं जातमेवं स्थिते त्वयि ॥
संहरस्व तपो घोरं लोकसंतापनं महत्॥२२॥
प्रार्थ्यतां पार्वती पुत्र सा दास्यति वरं च ते॥
अस्याः प्रसादान्मुक्तिस्ते शापाच्चैव भविष्यति ॥
एवमुक्तस्तदा तेन प्रार्थिता त्वं महेश्वरि ॥
गणेन भृंगिरिटिना भक्तिनम्रेण सादरात् ॥२४॥
त्वया प्रोक्तं विशालाक्षि पुत्र गच्छ ममाज्ञया ॥
महाकालवने रम्ये तत्राऽक्रूरो भविष्यसि ॥२५॥
पुनः प्राप्स्यसि कैलासं सिद्धगंधर्वसेवितम्॥
अंकपादाग्रतो लिंगं सप्तकल्पानुगं महत् ॥
यस्य दर्शनमात्रेण शुभा बुद्धिः प्रजायते ॥२६॥
कृतघ्ना नास्तिकाः क्रूरा ये च विश्वासघातकाः ॥
महापातकिनो ये च ये च शापवशं गताः ॥
दर्शनात्तस्य लिंगस्य तेऽपि स्वर्ग भुजो नराः ॥२७॥
क्रूरां बुद्धिं समासाद्य कंसं हत्वा च केशिहा ॥
बलदेवेन सहितस्त्यक्त्वा तां मथुरां पुरीम् ॥२८॥
महाकालवनं गत्वा तोष यित्वा महेश्वरम्॥
अक्रूरत्वं च संप्राप्तं कीर्त्तिर्लब्धा च शाश्वती ॥२९॥
त्वदीयं वचनं श्रुत्वा गणो भृंगिरिटिस्तदा ॥
तथेति प्रत्ययी जातो महा कालवनं गतः ॥
देवमाराधयामास तपसा दुष्करेण तु ॥३०॥
एतस्मिन्नंतरे देवि लिंगमध्यात्त्वमुत्थिता ॥
अर्द्धांगं मामकं कृत्वा स्वकीयांगमथा र्द्धतः ॥
फणींद्रबद्धजूटार्द्धमर्द्धधमिल्लभूषितम्॥ ३१॥
पत्रवल्लीविचित्रार्धमर्द्धचंद्रविराजितम् ॥
मुक्ताहारनिबद्धार्द्धमर्द्धं सर्पैश्च वेष्टितम् ॥३२॥
ततो भृंगिरिटिर्देवि दृष्ट्वा तन्महदद्रुतम् ॥
चिंतयामास हृदये मयाऽज्ञानादनुष्ठितम् ॥३३॥
उमा च शंकरश्चैव देहमेकं सनातनम् ॥
एका मूर्त्तिरनिर्देश्या द्विधा भेदेन दृश्यते ॥३४॥
एवं चिंतयतस्तस्य भक्तिनम्रस्य पार्व्वति ॥
प्रोक्तं त्वया प्रसन्नाहं वरं वरय पुत्रक ॥३५॥
तेनोक्तं यदि तुष्टासि मातर्मम महेश्वरि ॥
अस्य लिंगस्य माहात्म्यात्क्रूरा बुद्धिर्गता मम ॥३६॥
अक्रूरेश्वरनामायं देवः ख्यातो भवत्विति ॥
त्वं देवि सर्वभावानामेका कारणमुच्यते ॥३७॥
त्वं मूर्ता पुण्यनिचया त्वं गतिः पुण्यसेविनाम्॥
पिता माता सुहृद्बन्धुस्त्वमेका कारणं परम् ॥३८॥
कुरु पुण्यतमं स्थानं ब्रह्महत्यादिनाशनम् ॥
भुक्तिदं मुक्तिदं चैव वांछितार्थप्रदायकम्॥ ३९॥
तथेति च त्वया प्रोक्तं गिरा मधुरया तदा ॥
यत्ते प्रियतमं वत्स तत्पूर्वं प्रकरोम्यहम् ॥४०॥
न मेऽस्ति दुष्करं पुत्र त्वत्कृते कनकप्रभ ॥
अस्मिन्स्थाने तु ये देवमकूरेश्वरसंज्ञकम् ॥
प्रसंगादपि पश्यंति अपि पापरता नराः ॥
तेऽप्यवश्यं भविष्यंति त्वत्समा नियतं गणाः ॥४१॥
भक्त्या स्तोष्यंति ये नाम लिंगस्यास्य च मानवाः ॥
मानसैः पातकैर्मुक्ता यास्यंति स्वर्गमक्षयम् ॥४२॥
स्नात्वा तु विधिवत्पूजां यः करिष्यति मानवः॥
स मुक्तः पातकैः सर्वैः प्राप्स्यते रविमंडलम् ॥४३॥
आयुरारोग्यमैश्वर्यं काममत्र हि वांछितम् ॥
गोसहस्रफलं चात्र स्पृष्ट्वा प्राप्स्यति मानवः ॥४४॥
स्नात्वा मंदाकिनीकुंडे योऽकूरेश्वरमीश्वरम् ॥
पूजयेद्विविधैः पुष्पैर्महापापहतोपि वा॥४५॥
विमानं दिव्यमारूढो यावत्कल्पचतुष्टयम् ॥
गंधर्वैर्गीयमानस्तु सोऽपि स्वर्गं गमिष्यति॥ ४६॥
इत्युक्तः स गणो देवि मत्समीपमुपागतः ॥
शापान्मुक्तस्त्वया सार्धं विस्मृता किं वरानने ॥४७॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
अक्रूरेश्वरदेवस्य शृणु कुंडेश्वरं परम् ॥४८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽक्रूरेश्वरमाहात्म्यवर्णनंनामै कोनचत्वारिंशोऽध्यायः ॥३९॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP