संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ४५

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीदेवदेव उवाच । ॥
पंचचत्वारिकं विद्धि देवं त्रिलोचनेश्वरम् ॥
यस्य दर्शनमात्रेण सर्वसिद्धिरवाप्यते ॥१॥
इतिहासमिहासीद्यत्पीठे विरजसंज्ञके ॥
त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते ॥२॥
नानाभंगिगवाक्षाढ्ये रत्नसानाविवापरे ॥
देदीप्यमानसौवर्णकलशेन विराजिते ॥३॥
पार्वणेन शशांकेन खेदादिव समासिते ॥
तत्र पारावतद्वंद्वं वसत्स्वैरं कृतालयम् ॥४॥
प्रातः सायं च मध्याह्ने कुर्व न्नित्यप्रदक्षिणम् ॥
उड्डीयमानं परितः पक्षवातैरितस्ततः ॥५॥
रजःप्रासादसंलग्नं दूरीकुर्वद्दिशो दश ॥
त्रिलोचनेति सततं नाम भक्तैरुदाहृतम् ॥
त्रिविष्टपेति च तथा तयोः कर्णातिथीभवेत् ॥६॥
चतुर्विधानि वाद्यानि शंभुप्रीतिकराण्यलम् ॥
तयोः कर्णगुहां प्राप्य प्रतिशब्दं प्रतन्वते ॥७॥
मंगलारात्रिकज्योतिस्त्रिसंध्यं पक्षिणोस्तयोः ॥
नेत्रांतं निर्विशन्नित्यं भक्तचेष्टां प्रदर्शयत् ॥८॥
प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ ॥
नोड्डीय वांछितं यातः पश्यंतौ कौतुकं खगौ ॥९॥
तत्रासकृज्जनाकीर्णं प्रासादं परितोऽवनौ ॥
तंडुलादि चरंतौ तौ कुर्वंतौ च प्रदक्षिणम् ॥१०॥
देवदक्षिणदिग्भागे विष्णुदेहोद्भवं जलम् ॥
तृषार्त्तौ पिबतो नित्यं स्नात्वा चाजग्मतुश्च तौ ॥११॥
तयोरित्थं विचरतोस्त्रिलोचनसमीपतः ॥
अगाद्बहुतिथः कालो द्विजयोः साधुचेष्टयोः ॥१२॥
अथ देवालयस्कंधे गवाक्षांतर्गतौ च तौ॥
श्येनेन केनचिद्दृष्टौ क्रूरदृष्ट्या सुखं स्थितौ ॥१३॥
तच्च पारावतद्वंद्वं श्येनः परिजिघृक्षया ॥
अवतीर्यांबरादाशु उपविष्टः शिवालये ॥१४॥
ततो विलोकयामास तदागमविनिर्गमौ ॥
केन मार्गेण विशतो दुर्गमेण पतत्रिणौ ॥१५॥
केनाध्वना च निर्यातः किंकाले कुरुतश्च किम् ॥
कथं युगपदेतौ मे ग्राह्यौ स्वैरं भविष्यतः ॥१६॥
 दुर्बलोऽप्याकलयितुं सहसारिर्न शक्यते ॥
करिणां च सहस्रेण वराश्वानां च लक्षतः ॥१७॥
न कर्म सिद्ध्येन्नृपतेर्दुगेणैकेन यद्भवेत् ॥
दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित्॥
स्वतंत्रं यदि दुर्गं स्यादपमार्गप्रकाशकम् ॥१८॥
इति दुर्गे बलं शंसञ्छ्येनो रोषारुणेक्षणः ॥
असाध्वसौ कलरवौ वीक्ष्य यातो नभोंगणे ॥१९॥
अथ पारावती दक्षा विपक्षक्षपणेक्षणम् ॥
महाबलं दुर्गबलात्प्राह पारा वतं पतिम् ॥२०॥
॥ कलरव्युवाच ॥
प्रिय पारावत प्राज्ञ सर्वकामसुखारव ॥
तव दृग्विषयं प्राप्तः श्येनोऽयं प्रबलो रिपुः ॥२१॥
स च तद्वाक्यमाकर्ण्य पारावत्याश्च सत्पतिः ॥
पारावतीमुवाचेदं का चिंतेति तव प्रिये ॥२२
॥ पारावत उवाच ॥
कति नाम न संतीह सुभगे व्योमचारिणः ॥
कति देवालयाद्येषु खगा नोपवसंति हि ॥२३॥
कति चैव न पश्यंति नौ सुखस्थाविह प्रिये ॥
तेभ्यो यदीह भेतव्यं कुतो नौ तत्सुखं प्रिये ॥२५॥
रम त्वं च मया सार्द्ध त्यज चिंतामिमां शुभे ॥
अस्य श्येनवराकस्य गणनापि न मे हृदि ॥२५॥
इत्थं पारावतवराच्छुत्वा पारावती वचः ॥
मौनमालम्ब्य संतस्थे पत्युः पादार्पितेक्षणा ॥२६॥
हितवत्योपदिश्यापि प्रियं प्रियचिकीर्षया ॥
पत्न्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा ॥२७॥
अन्येद्युरप्यथायातः श्येनः पश्यन्स दंपती ॥
अपरिच्छिन्नया दृष्ट्या यथा मृत्युर्गतायुषम् ॥२८॥
अथ मंडलगत्या स प्रासादं परितो भ्रमन् ॥
प्रोवाच प्रेयसी नाथ दृष्टो दुष्टस्त्वयाऽहितः ॥२९॥
तस्या वाक्यं समाकर्ण्य पुनः कलरवोऽब्रवीत् ॥
किं करिष्यत्यसौ मुग्धे मम व्योमविहारिणः ॥३०॥
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम् ॥
अयं न तां गतिं वेत्ति यां वेदाहं नभोंगणे ॥३१॥
प्रडीनोड्डीनसंडीनकांडव्यांडकपाटिका ॥
स्रंसिनी मंडलवती गतयोऽष्टावुदाहृताः ॥३२॥
यथैतासु हि कौशल्यं मयि वर्त्तति च प्रिये ॥
गतिषु क्वापि कस्यापि पक्षिणो न तथांबरे॥
सुखेन तिष्ठ का चिंचा मयि जीवति ते प्रिये॥३३॥
इति तद्वचनं श्रुत्वा आस्थिता मूकवत्सती॥
अपरेद्युरपि श्येनस्तत्रायातः शिलातले॥
कियदंतरमासाद्य उपविष्टोऽतिहृष्टवत्॥
आयामांते च स स्थित्वा तत्कुलायकुलस्य च।३५॥
पुनः श्येनो विनिर्यातः सापि कांताऽब्रवीत्पुनः॥
प्रिय स्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम्॥३६॥
असौ क्रूरोऽतिनिकटमुपविष्टोऽतिहृष्टवत्॥
सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये ॥३७॥
मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः ॥
इतरेद्युरपि प्राप्तः स च श्येनो महाबलः ॥३८॥
तयोरभिमुखं तत्र स्थितो यामद्वयावधि ॥
पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम् ॥३९॥
गतेथ शकुनौ तस्मिन्सा बभाषे विहंगमम्॥
नाथ स्थानांतरं यावो मृत्युर्वै निकटेऽन्वगात् ॥४०॥
पुनर्दृष्टे प्रणष्टः स्यादावासश्च सुखं प्रिय ॥
प्रिय यस्यास्ति पक्षस्य गतिः सर्वत्र सिद्धिदा ॥४१॥
स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान् ॥
सोपसर्गं निजं देशं त्यक्त्वा योन्यं तु न व्रजेत् ॥४२॥
स पंगुर्ना शमाप्नोति कूलस्थित इव द्रुमः ॥
प्रियोदितं निशम्येति स भवित्रीदशार्द्दितः ॥४३॥
तां वाक्यं पुनरप्याह प्रिये मा भैः खगार्दिता ॥
अपरस्मिन्नहनि च स श्येनः प्रातरेव हि ॥४४॥
तद्द्वारदेशमासाद्य सायं यावत्स्थितोऽचलः ॥
अस्ताचलस्य शिखरं याते भानौ गते खगे ॥४५॥
कुलायाद्बाह्यमागत्योवाच पारावती पतिम् ॥
नाथ निर्गमनस्यायं कालः कालोऽस्ति दूरतः ॥४६॥
यावत्तावद्विनिर्याहि त्यक्त्वा मामपि शंसिनीम् ॥
त्वयि जीवति दुष्प्राप्यं न किंचिज्जगतीतले ॥४७॥
पुनर्दाराः पुनः पुत्राः पुनर्वसु पुनर्गृहम् ॥
यद्यात्मारक्षितः पुंसां दारैपि धनैरपि ॥४८॥
तदा सर्वं हरिश्चंद्रभूपतेरिव लभ्यते ॥
अयमात्मा प्रियो बंधुरयमात्मा महद्धनम् ॥४९॥
धर्मार्थकाममोक्षाणामयमात्मार्जकः परः ॥
यावदात्मनि वै क्षेमं ताव त्क्षेमं जगत्त्रये ॥५०॥
सोऽपि क्षेमः सुगतिना यशसा सह वांछ्यते ॥
यशोहीनं तु यत्क्षेमं तक्षेमान्निधनं वरम् ॥५१॥
तद्यशः प्राप्यते पुंभिर्नीतिमार्गं प्रवर्तिभिः ॥
अतो नीतिपथं चिंत्यं नाथ स्थानादितो व्रज॥
न व्रजिष्यसि चेत्प्रातस्ततो मां संस्मरिष्यसि ॥५२॥
इत्युक्तोऽपि स वै पत्न्या पारावत्या सुमेधया ॥
न निर्ययौ ततः स्थानाद्भवित्र्या प्रतिवारितः ॥५३॥
अथोषसि समागत्य श्येनेन बलिना तदा ॥
निर्गमद्वारमारुद्धं किंचिद्भक्ष्य वता तदा ॥५४॥
दिनानि कतिचित्तत्रातिष्ठच्छयेनो महाबलः ॥
पारावतमुवाचेदं धिक्त्वा पौरुषवर्जितम् ॥५५॥
किं वा युध्यस्व दुर्बुद्धे किं वा निर्याहि मे गिरा ॥
क्षुधाक्षीणो मृतः पश्चान्निरयं पश्यसि धुवम् ॥
विधिरेव हि साहाय्यं न कुर्यात्तव नोदितम् ॥५६॥
इत्थं श्येनेन स प्रोक्तः पत्न्या स सहितः खगः ॥
अयुध्यत्तेन श्येनेन स्वदुर्गद्वारमाश्रितः ॥५७॥
क्षुधितस्तृषितः सोऽथ श्येनेन बलिना धृतः ॥
चरणेन दृढेनाशु चंच्वा सापि धृता खगी ॥५८॥
तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम् ॥
चिंतयन्भक्षणस्थानमन्यत्पक्षिविवर्जितम् ॥५९॥
अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया॥
यतोऽवमानिता नाथ त्वयाहं स्त्रीति बुद्धितः॥६०॥
अतोऽवस्थामिमां प्राप्तः किं कुर्यामबला यतः॥
अधुनापि वचश्चैकं करोषि यदि मे प्रिय ॥६१॥
तदा हितं ते वक्ष्यामि कुर्वे तदविचारितम् ॥
ममैकवाक्यकरणात्स्त्रीजितो न भविष्यसि ॥६२॥
यावदास्यं गतास्म्यस्य यावत्खस्थो न भूमिगः ॥
तावदात्मविमुक्त्यै त्वं चंच्वा पादं दृढं दश ॥६३॥
इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः ॥
स पीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु ॥६४॥
तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात ॥
पादांगुलीनां शून्यत्वे सोऽपि पारावतोऽपतत् ॥६५॥
विपद्यपि च प्राज्ञैर्न संत्याज्यः क्वचिदुद्यमः ॥
क्व च चंचुपुटस्तस्य क्व च तत्पादपीडनम् ॥६६॥
क्व च द्वयोस्तथाभूतं दूरे मोक्षणमद्भुतम्॥
दुर्बलेऽप्युद्यमः श्रेयानिति शास्त्रेषु गीयते ॥६७॥
तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः ॥
प्रशंसंत्युद्यमं चातो विपद्यपि मनीषिणः ॥६८॥।
अथ तौ कालयोगेन जंबूमार्गे मृतौ तदा ॥
जंबूमार्गे मृता ये वै तेषां स्वर्गः सदाऽक्षयः ॥६९॥
पुण्यशेषे तदा जातो गंधर्वतनयः शुभः ॥
मंदारदामतनयो नाम्ना परिमलालयः ॥७०॥
अनेकविद्यानिलयः कलाकौशलभाजनम् ॥
कौमारं वपुरासाद्य शिवभक्तिपरोऽभवत् ॥७१॥
नियमं चापि जग्राह विजितेद्रियमानसः ॥।
एकपत्नीव्रतं नित्यं चरिष्यामीति निश्चितम् ॥७२॥
परयोषित्समासक्तिरायुः कीर्तिं र्बलं सुखम् ॥
हरेत्स्वर्गगतिं चापि तस्मात्तां वर्जयेत्सुधीः ॥७३॥
अपरं चापि नियमं स शुचिष्मान्समाददे ॥
गतजन्मांतराभ्यासाविलोचनसमाश्रयात् ॥७४॥ ।
समस्तपुण्यनिलयः समस्तार्थप्रकाशकः ॥
समस्तकामजनकं परानंदैककारणम् ॥७५॥
यावच्छरीरं निरुजं यावन्नेद्रियविप्लवः ॥
तावत्त्रिलोचनोवंत्यां मंतव्यो नात्र संशयः ॥७६॥
इत्थं मंदारदामिः स काश्यां परिमलालयः ॥
नित्यं त्रिविष्टपं द्रष्टुं समागच्छेत्प्रयत्नतः ॥७७॥
पारावत्यपि संजाता रत्नदीपस्य मंदिरे ॥
नागराजस्य पाताले नाम्ना रत्नावलीति च ॥७८॥
समस्तनागकन्यानां रूपशीलकलागुणैः ॥
एकैव रत्नभूताऽऽसीद्रत्न दीपोरगात्मजा ॥७९॥
तस्याः सखीद्वयं चासीदेका नाम्ना प्रभावती ॥
कलावती तथान्या च नित्यं तदनुगे शुभे ॥८०॥
स्वदेहादनपायिन्यौ छायाकांती यथा तथा ॥
पूर्वे सख्यौ भवेतां हि रत्नावल्या महेश्वरि ॥८१॥
सा तु बाल्ये व्यतिक्रांते किंचिदुद्भिन्नयौवना ॥
शिवभक्तं स्व पितरं दृष्ट्वा नियममग्रहीत् ॥८२॥
पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने ॥
आभ्यां सखीभ्यां सहिता मौनं त्यक्ष्यामि नान्यथा ॥८३॥
एवं नागकुमारी सा सखीद्वयसमन्विता ॥
त्रिलोचनं समभ्यर्च्य गृहानहरहर्व्रजत् ॥८४॥
मां प्रत्यग्रैः सुकुसुमैः सुशुभैरि ष्टगंधिभिः ॥
सुविचित्राणि माल्यानि परिगुंफ्यार्चयेद्विभुम् ॥८५॥
तिस्रोऽपि गीतं गायंति ललितं चैव सुस्वरम् ॥
नारीमंडलभेदेन लास्यं तिस्रोऽपि र्वते ॥८६॥
वीणावेणुमृदंगांश्च लयतालविचक्षणाः ॥
वादयंति मुदायुक्तास्तिस्रोऽपि विरमंति वै ॥८७॥
इत्थमाराधयंतीशं तिस्रो नागकुमारिकाः ॥
विचित्रभंगीमालाभिरर्चयंत्यस्त्रिलोचनम् ॥८८॥
प्रातश्चतुर्थ्यां ताः स्नात्वा तीर्थे पिलिपिले शुभे ॥
त्रिलोचनं समर्च्याथ प्रसुप्ता रंगमण्डपे ॥८९॥
सुप्तासु तासु स शिवस्त्रिनेत्रः शशिभूषणः ॥
वामार्द्धविलसच्छक्तिर्नागयज्ञोपवीतकः ॥९०॥
लिंगादेव हि निर्गत्य गंगापन्नगमेखलः ॥
प्रत्युवाच ततः कन्या विभुरुत्तिष्ठतेति सः ॥९१॥
उत्थाय ता विनिर्मथ्य लोचने श्रुतिसंगमे ॥
अंगमोटनवत्यश्च तदा निर्घूर्णितेक्षणाः ॥९२॥
यावत्पश्यंति पुरतः संभ्रमापन्नमानसाः ॥
अतर्कितागमस्तावत्ताभिर्दृष्टस्त्रिलोचनः ॥९३॥
ववंदिरेऽथ ता बाला ज्ञात्वा लक्ष्मभिरीश्वरम् ॥
तुष्टुवुश्च प्रहृष्टास्ताः सन्नकंठ्योऽतिविक्लवम् ॥९४॥
जय शंभो जयेशान जय सर्वग सर्वद ॥
जय त्रिपुरसंहर्तर्जयांधकनिषूदन ॥९५॥
जय जालंधरहर जय कंदर्पदर्पहृत् ॥
जय त्रैलोक्यजनक जय त्रैलोक्यवंदित ॥
जय भक्तजनाधीश जय प्रमथ नायक ॥९६॥
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥
त्रिलोचन नमस्तुभ्यं त्रिविष्टप नमोऽस्तु ते ॥९७॥
इत्युक्त्वा दंडवद्भूमौ प्रणिपेतुः कुमारिकाः ॥
अथोत्थाप्य कुमारीस्ताः प्रोवाच शशिभूषणः ॥९८॥
सुतो मंदारदाम्नश्च नाम्ना परिमलालयः ॥
पतिर्विद्याधरवरो भवतीनां भविष्यति ॥९९॥
चिरं विद्याधरे लोके भोगान्भुक्त्वा समंततः ॥
ततो ह्यवंतिकां प्राप्य मां ध्यात्वा सिद्धिमाप्स्यथ ॥१००॥
जन्मांतरेपि मे भक्तिर्भवतीभिश्च तेन च ॥
विहिता तेन वो जन्म निर्मलं भक्तिभावितम् ॥१०१॥
एतत्प्रभावतीस्तोत्रं ये पठिष्यंति मे पुरः ॥
तेभ्यः कामान्प्रदास्यामि भवतीनामयं वरः ॥१०२॥
इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः ॥
प्रणम्य प्रोचुरीशानं प्रबद्धकरसंपुटाः ॥१०३॥
॥ नागकन्या ऊचुः ॥
पृच्छामो ब्रूहि नो नाथ करुणाकर शंकर ॥
जन्मांतरे कथं सेवा चतुर्भिर्भवतः कृता ॥१०४॥
ततः प्राक्तनवृत्तांत मेतस्यापि कृतात्मनः ॥
अस्माकमपि चाख्याहि कृपां कुरु कृपानिधे ॥१०५॥
इति श्रुत्वा प्रणयतो बालोदीरितमीप्सितम् ॥
प्रोवाच तासामपि च भवांतरविचेष्टितम् ॥१०६॥
॥ ईश्वर उवाच ॥
शृणुध्वं नागतनयास्तिस्रोपि हि समाहिताः ॥
प्राग्भवं भवतीनां च तस्यापि कथयाम्यहम् ॥१०७॥
एषा रत्नावली पूर्वमासीत्पारावती खगी ॥
स च विद्याधरवरः पतिरस्याः खगोऽभवत् ॥१०८॥
प्रासादे च ममैताभ्यामुषितं सुचिरं सुखम्॥
रजः प्रासादसंलग्नं नुन्नं पक्षानिलैः पुनः ॥१०९॥
उपरिष्टादधस्ताच्च कृता भूरिप्रदक्षिणाः ॥
व्योम्नि संचरमाणाभ्यां संचीर्णं च ममाजिरे ॥११०॥
स्नातं चतुर्नदे तीर्थे पीतं तत्रांबु चासकृत् ॥
आभ्यां कलरवाभ्यां च कृताः कलरवा मुदा ॥१११॥
एताभ्यां स्थिरचित्ताभ्यां मुदिता त्वमतीव हि ॥
दृष्ट्वा हि कौतुकान्यत्र मम भक्तैः कृतान्यपि ॥११२॥
अमूभ्यां बहुशो दृष्टा मम मंगलदीपिकाः ॥
पीतं श्रुतिपुटाभ्यां च मम नामाक्षरामृतम् ॥
तिर्यग्योनिप्रभावेन न मृतौ मम संनिधौ ॥११३॥
जंबूमार्गे मृतौ यस्मात्स्वर्गप्राप्तिकरे ध्रुवम् ॥
तस्मात्पारावती ह्येषा रत्नदीपसुताऽभवत् ॥११४॥
पतिः पारावतोऽस्याश्च जातो विद्याधरांगजः ॥
एषा प्रभावती नागी नागराजस्य सद्मनि ॥
इह जन्मनि कन्यासीत्पूर्वजन्म ब्रवीमि च ॥११५॥
त्रिशिखस्योरगेंद्रस्य सुता चेयं कलावती ॥
एतस्या अपि वृत्तांतं निशामय तु वच्म्यहम् ॥११६॥
भवांतरे तृतीयेतः कन्ये चारायणस्य च ॥
आस्तां महर्षेः शीलाढ्ये प्रेमवत्यौ परस्परम् ॥११७॥
पित्रा चारायणेनापि ताभ्यां संप्रेरितेन वै ॥
आमुष्यायणपुत्राय दत्ते नारायणाय हि ॥११८॥
अप्राप्तयौवनोरण्ये समिदाहरणाय वै ॥
गतो विधिवशाद्दष्टो दंदशूकेन कानने ॥११९॥
भवानीगौतमीनाम्न्यौ ते तु चारायणांगजे ॥
वैधव्यदुःखमापन्ने दैन्यग्रस्ते बभूवतुः ॥१२०॥
अत एव प्रयत्नेन परिणेता विवर्जयेत ॥
देवतासरिदाह्वानकन्यापाणिग्रहं सुधीः ॥१२१॥
अथर्षेः कस्यचिद्दैवादाश्रमे देवसन्निभे ॥
रंभाफलान्यदत्तानि मोहाज्जग्रहतुस्तदा ॥१२२॥
कृत्वा नानोपवासादिव्रतानि ब्राह्मणांगजे ॥
अध्यास्य निधनं कालाच्छाखामृग्यौ बभूवतुः ॥१२३॥
फलचौर्यविपाकेन वानर त्वं तयोरभूत् ॥
शीलरक्षणभावेनावंत्यां जनिमवापतुः ॥१२४॥
स च नारायणो विप्रः पितृशुश्रूषणे रतः ॥
दष्टोऽपि दंदशूकेन काश्यां पारावतो भवत ॥१२५॥
एवं भवांतरे चासीदेतयोः पतिरेव सः ॥
तिसृणां भवतीनां च भावी भर्ता पुनः स वै ॥१२६॥
प्रासादस्यापि पार्श्वे तु न्यग्रोधश्च महानगः ॥
तस्मिञ्छाखिनि वासाढ्ये शाखामृग्यो बभूवतुः ॥१२७॥
विष्णुदेहजले तीर्थे क्रीडया च ममज्जतुः ॥
पपतुश्चापि पानीयं तस्मिंस्तीर्थे तृषातुरे ॥१२८॥
जातिस्वभावचापल्यात्कीडंत्यौ च प्रदक्षिणम् ॥
चक्रतुर्बहुकृत्वश्च लिंगं ददृश तुर्बहु ॥१२९॥
विचरंत्यावितः स्वैरं तत्र न्यग्रोधसंनिधौ ॥
केनचिद्योगवेषेण पाशेन च नियंत्रिते ॥१३०॥
भिक्षार्थं शिक्षिते तेन न प्लुतिर्न निवर्त्तनम् ॥
अथ ते क्वापि मर्कट्यौ कालधर्मवशंगते ॥१३१॥
अवन्तीवासपुण्येन त्रिलोचनस्य सेवया ॥
प्रादक्षिण्यानुरूपेण जाते नागसुते अपि ॥१३२॥
अधुना तं पतिं प्राप्य विद्याधरकुमारकम् ॥
निर्विश्य स्वर्गभोगांश्चावंत्यां निर्वृतिमाप्स्य ॥१३३॥
यैरल्पमपि चावंत्या कृतं कर्म शुभावहम् ॥
तस्य मोक्षः परीपाको निश्चितं मदनुग्रहात् ॥
त्रैलोक्येऽपि च सर्वस्मिञ्छ्रेष्ठाऽवन्तीपुरी सदा ॥१३४॥
ततोऽपि लिंगमोंकारं ततोऽप्यत्र त्रिलोचनम् ॥
तिष्ठगानोऽत्र लिंगेऽहं भुक्तिं मुक्तिं ददामि वै ॥१३५॥
अतः सर्वप्रयत्नेनावन्त्यां पूज्यस्त्रिलोचनः ॥
इत्युक्त्वा देवदेवेशस्तत्प्रासादांतरेऽविशत् ॥१३६॥
लिंगस्वरूपमासाद्य शुभं त्रिभुवनादपि ॥
ताश्च स्वसदनं प्राप्य तद्वृत्तांतमशेषतः ॥
स्वमातुः पुरतश्चोक्त्वा कृतकृत्या इवाभवन् ॥१३७॥
एकदा माधवे मासि सह सार्थाः समागताः ॥
विद्याधरास्तथा नागा मिलिताः सपरिच्छदाः ॥१३८॥
विरजस्के महाक्षेत्रे त्रिलोचनसमीपतः ॥
देवस्य वरदानाच्च पृष्ट्वान्योन्यं कुलावलिम् ॥१३९॥
विद्याधराय ताः कन्या नागैस्तिस्रोऽपि कल्पिताः ॥
मंदारदामा सन्तुष्टः प्राप्य तच्च स्नुशत्रयम् ॥१४०॥
रत्नदीपैश्च नागेन्द्रः पद्मी च भुजगेश्वरः ॥
विशिखोऽपि फणींद्रश्च हृष्टा एते त्रयोऽपि च ॥
जामातरं समासाद्य शुभं परिमलालयम् ॥१४१॥
अन्योऽन्यं स्वजनास्ते तु मुदा विकसितेक्षणाः ॥
विवाहोत्सवमारच्य स्वंस्वं भवनमाविशन् ॥१४२॥
त्रिलोचनस्य लिंगस्य वर्णयंतोऽपि गौरवम् ॥
स च विद्याधरः श्रीमान्नागीभिर्विपुलं सुखम् ॥
भुक्त्वावन्तीं ततः प्राप्य संसेव्य च त्रिलोचनम् ॥१४३॥
गायन्गीतं सुमधुरं नागीभिः सहितः कृती ॥
आत्मानं चातिविस्मृत्य मध्येलिंगं लयं गतः ॥१४४॥
त्रिलोचनस्य महिमा कलौ देवेन गोपितः ॥
ततोल्पसत्त्वा मनुजा न तल्लिमगमुपासते ॥१४५॥
त्रिलोचनकथामेतां श्रुत्वा पापान्वितोऽप्यहो ॥
विपापो जायते मर्त्यो लभते च परां गतिम् ॥१४६॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
त्रिलोचनस्य देवस्य शृणु वीरेश्वरं परम् ॥१४७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये त्रिलोचनमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP