अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीमहादेव उवाच ॥
एकोनषष्टिकं विद्धि देवं सिद्धेश्वरं प्रिये ॥
यस्य दर्शनमात्रेण सिद्धिः पुंसां प्रजायते ॥१॥
आसीदश्वशिरानाम राजा परमधार्मिकः ॥
सोऽश्वमेधेन यज्ञेन इष्ट्वा सबहुदक्षिणम् ॥२॥
स्नातश्चावभृथे हृष्टो ब्राह्मणैः परिवारितः ॥
यावदास्ते स राजर्षिस्तावत्सिद्धोऽतिदीप्तिमान् ॥३॥
नानौषधिप्रभावज्ञो मंत्रतंत्र विशारदः ॥
आययौ कपिलः श्रीमान्जैगीषव्यश्च सिद्धराट् ॥४॥
तयोस्त्वरितमुत्थाय स राजाभ्यागतक्रियाम् ॥
चकार परया युक्तो मुदा वै पृथि वीपतिः ॥५॥
तावर्चितावासनस्थौ क्षमाशीलौ शुचिव्रतौ ॥
महौजसौ महाभागौ मुमुक्षू मुनिपुंगवौ ॥
विद्याविनयसंपन्नौ ब्रह्मचर्यपरायणौ ॥
अनेकसृष्टिसंहारस्थितिकार्यपरायणौ ॥७॥
उदयादित्यसंकाशौ विभावसुसमद्युती॥
तेजोराशिसमायुक्तौ दुर्निरीक्ष्यौ पृथग्जनैः ॥८॥
विनयेनोपसंगम्य प्रणिपत्याभिवाद्य च ॥
स राजा प्रांजलिर्भूत्वा प्रश्नमेनमपृच्छत ॥९॥
॥ अश्वशिरा उवाच ॥
श्रुतं मया मुनिश्रेष्ठौ नान्यो देवो जनार्द्दनात् ॥
ध्यातोथ पूजितो नॄणां मुक्तिदो भवबंधनात् ॥१०॥
संस्मृते तु हृषीकेशे नराणां कोटिजन्मजम् ॥
अशुभं क्षयमाप्नोति कथं न प्रणमेद्धरिम् ॥११॥
समाराध्य जगन्नाथं शक्राद्यास्त्रिदिवौकसः ॥
वसंति मुदिताः स्वर्गे दिव्यद्युतिसमन्विताः ॥१२॥
जन्ममृत्युजरा रोगैर्दुःखानि विविधानि च ॥
प्रयांति विलयं सद्यः प्रसन्ने गरुडध्वजे ॥१३॥
इति पृष्टस्तदा तेन प्रार्थितेन यशस्विना ॥
ऊचतुस्तं नृपं सिद्धौ सिद्धिविज्ञानकोविदौ ॥१४॥
क एष प्रोच्यते राजंस्त्वया नारायणोऽधुना ॥
आवां नारायणौ द्वौ तु त्वत्प्रत्यक्षं गतौ नृप ॥१५॥
॥ अश्वशिरा उवाच ॥
भवंतौ ब्राह्मणौ सिद्धौ तपसा दग्धकिल्विषौ ॥
युवां नारायणौ कस्मादिति वाक्यमुवाच सः ॥१६॥
शंखचक्रगदापाणिः पीतवासा जनार्द्दनः ॥
गरुडस्थो हृषीकेशः कस्तस्य सदृशो भुवि ॥१७॥
तस्य राज्ञो वचः श्रुत्वा संसिद्धौ योगकोविदौ ॥
दर्शयामासतुस्तौ हि कृत्वा नारायणं वपुः ॥१८॥
कपिलो मंत्रमाहात्म्यात्स्वयं विष्णुर्बभूव ह ॥
शंखचक्रगदापाणिः पीतवासाश्च तत्क्षणात् ॥१९॥
जैगीषव्यश्च गरुडस्तत्क्षणात्समजायत ॥
ततः समभवत्तत्र राजवेश्मनि कौतुकम् ॥२०॥
दृष्ट्वा नारायणं देवं गरुडस्थं सनातनम् ॥
आश्चर्यं तादृशं दृष्ट्वा स राजा विस्मयान्वितः ॥
उवाच क्षाम्यतां सिद्धौ नायं विष्णुरथेदृशः ॥२१॥
तस्य ब्रह्मा समुत्पन्नो नाभिपंकजमध्यतः ॥
तस्मात्तु ब्रह्मणो रुद्रः स विष्णुः परमेश्वरः ॥२॥
इति राज्ञो वचः श्रुत्वा तदा तौ सिद्धसत्तमौ ॥
चक्रतुः परमां मायां योगाचार्यौ सुमांत्रिकौ ॥२३॥
कपिलः पद्मनाभस्तु पद्ममध्ये प्रजापतिः ॥
बभूव स्वयमेवात्र सहसा योगतस्तदा ॥२४॥
जैगीषव्योऽथ रुद्रस्तु तस्यैवांके व्यवस्थितः ॥
ददर्श महदाश्चर्यं स राजा योगमोहितः ॥२५॥
कौतुकात्प्रत्युवाचेदं भीतः कंपितकन्धरः ॥
नेत्थं भवति विश्वेशो माया योगिनां तदा ॥
सर्वरूपी हरिः श्रीमान्सर्वगः सर्वदः स्मृतः ॥२६॥
ततो वाक्यावसाने तु तस्य राज्ञश्च संसदि ॥
मशका मत्कुणा यूका भ्रमराः पक्षिणो मृगाः ॥२७॥
अश्वा गावो हयाः सिंहा व्याघ्रा गोमहिषास्तथा ॥
अन्येपि पशवः कीटा ग्राम्यारण्याश्च सर्वशः ॥२८॥
दृश्यंते राजभवने कोटिशः पर्वतात्मजे ॥
तं दृष्ट्वा भूतसंघातं राजा विस्मितमानसः ॥२९॥
यावच्चिंतयते किं स्यात्तावज्ज्ञातं नृपेण हि ॥
जैगीषव्यस्य माहात्म्यं कपिलस्य महात्मनः ॥३०॥
कृतांजलिपुटो भूत्वा स राजाऽश्वशिरास्तदा ॥
पप्रच्छ च द्विजौ भक्त्या किमिदं सिद्धसत्तमौ ॥३१॥
सामर्थ्यमीदृशं लब्धं कस्माद्वै तपसो बलात् ॥
अद्य मे सफलोत्पत्तिरद्य मे सफलं श्रुतम् ॥३२॥
सफला मे मनोवृत्तिर्युवयोर्दर्शनेन वै ॥
तस्य तद्वचनं श्रुत्वा कपिलो वाक्यमब्रवीत् ॥३३॥
महाकालवने राजन्विद्यते लिंगमुत्तमम् ॥
ख्यातं सिद्धेश्वरं नाम्ना सिद्धैरभ्यर्चितं सदा ॥३४॥
सौभाग्येश्वरपूर्वे तु सौभाग्यारोग्यदायकम् ॥
प्रभावात्तस्य लिंगस्य प्राप्ता सिद्धिरनुत्तमा ॥३५॥
जैगीषव्येन सिद्धेन मया वैं नृपसत्तम ॥
तस्माद्व्रज महाबाहो महाकालवनं शुभम् ॥३६॥
तत्र द्रक्ष्यसि सर्वेशं शंखचक्रगदाधरम ॥
लिंगमूर्त्तौ स्थितं विष्णुं यस्ते सिद्धिं प्रदास्यति ॥३७॥
संसिद्धा बहवस्तत्र सनकाद्या नरेश्वर ॥
तस्य तद्वचनं श्रुत्वा कपिलस्य महात्मनः ॥३८॥
जगाम सहसा तत्र स राजाश्वशिरास्तदा ॥
ददर्श चैव तौ सिद्धौ सिद्धेश्वरसमीपतः ॥३९॥
अन्ये च बहवः सिद्धाः सिद्धनाथास्तथा परे ॥
ज्ञात्वा सिद्धेश्वरं देवं सिद्धसंघैः समर्चितम् ॥४०॥
लिंगमध्ये स्थित विष्णुं ज्ञात्वा स नृपसत्तमः ॥
पूजयामास भावेन परमेण समाधिना ॥४१॥
ततस्तुष्टोऽब्रवीद्देवो वरं वरय सुव्रत ॥
यत्तेभिलषितं सर्वमहं दास्यामि भूपते ॥४२॥
लिंगस्य वचनं श्रुत्वा नृपेणोक्तं च तच्छृणु ॥
यदि मेऽस्ति दया देव प्रसन्नोऽसि हि चेत्प्रभो ॥४३॥
यत्ते रूपं परं नाथ तद्दर्शय ममाच्युत ॥
एतदेव हि मे देव सदाभिलषितं हृदि ॥४४॥
आजन्मनो जगन्नाथ कदा द्रक्ष्ये जनार्द्दनम् ॥
एतदिच्छाम्यहं देव वराणां प्रवरं वरम् ॥
दीयमानं त्वयाभीष्टं ख्यातं सिद्धेश्वरं क्षितौ ॥४५॥
नृपस्य वचनं श्रुत्वा लिंगेनोक्तं वरानने ॥
न मे विदुर्देवगणा नासुरा न महर्षयः ॥४६॥
परं रूपं नृपश्रेष्ठ कृष्णोऽहं लिंगतां गतः ॥
ममलोकं तु ये प्राप्ता मुनयो मंत्रभूषिताः ॥४७॥
न चैते मां विजानंति परमार्थेन पार्थिव ॥
यदेतद्दृश्यते तेजो लिंगरूपेण मामकम् ॥४८॥
एतदेव हि ब्रह्माद्या ध्यायन्ति त्रिदशास्त्वमी ॥
अतो न मे परं रूपं द्रष्टुं कश्चित्क्षमो भवेत् ॥४९॥
अनेकजन्मसंशुद्धा योगिनो मदनुग्रहात् ॥
प्रविशंति तनौ मह्यं मुक्ताः संसारबंधनैः ॥५०॥
एवं हि बुवतस्तस्य सिद्धिः प्राप्ता नृपेण हि॥
विष्णुरूपं समास्थाय तस्मिँल्लिंगे लयं गतः ॥५१॥
अतो देवि सुविख्यातं लिंगं सिद्धेश्वरं परम् ॥
ये पश्यंति नरा भक्त्या तेषां सिद्धिश्च शाश्वती ॥५२॥
अंजनं पादलेपं च पादुकासिद्धिरेव च ॥
गुटिका खड्गसिद्धिश्च महासिद्धिः सुदुर्लभा ॥५३॥
दिव्यौषधैश्च या सिद्धिर्मंत्रस्पर्शोद्भवा च या ॥
एतास्तु सिद्धयः प्रोक्ता अपरा लघिमादयः ॥५४॥
धर्मार्थकाम सिद्धिश्च मोक्षसिद्धिरनुत्तमा ॥
जायते नात्र सन्देहः श्रीसिद्धेश्वरदर्शनात् ॥५५॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
सिद्धेश्वरस्य देवस्य मतंगेशमथो शृणु ॥५६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीति लिङ्गमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनामैकोनषष्टितमोऽध्यायः ॥५९॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP