संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ४०

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ईश्वर उवाच ॥
चत्वारिंशत्तमं विद्धि कुंडेश्वरमतः शृणु ॥
यस्य दर्शनमात्रेण लभ्यते सद्गतिः परा ॥१॥
विज्ञप्तोऽहं त्वया देवि मंदरे चारुकंदरे ॥
वीरकं द्रष्टुमिच्छामि क्व गतो मम पुत्रकः ॥२॥
मया प्रोक्तं विशालाक्षि महाकालवनो त्तमे ॥
जलमध्ये स्थितस्तेपे तपः परमदारुणम्॥३॥
मुनिभिः सहितो धीमान्भ्राजमानोंऽशुमानिव ॥
गच्छामस्तत्र तं द्रष्टुं गणैः सार्द्धं वरानने ॥४॥
मदीयं वचनं श्रुत्वा त्वयाहं प्रेरितस्तदा ॥
उत्तिष्ठ शम्भो गच्छामो वृषमारुह सत्वरम् ॥५॥
सप्रस्नवौ स्तनौ जातौ सद्यः संस्मृत्य वीरकम् ॥
मया स्मृतो वृषो देवि धर्मरूपी सनातनः ॥६॥
मदीयं चिंतितं ज्ञात्वा ममपार्श्वमुपागतः ॥
आरूढोऽहं त्वया सार्द्धं तस्मिन्नेव वृषे तदा ॥७॥
प्रस्थितस्तत्क्षणाच्छीघ्रं गणैर्नानाविधैः सह ॥
वेगात्प्रयातो वृषभस्कंधालंबितया त्वया ॥८॥
रणद्वलयबाहुभ्यां गाढमालिंगितो ह्यहम्॥
त्वं भीता च तदा जाता यदातीव प्रणोदितः ॥९॥
वृषो मया विशालाक्षि स कृष्टो गणपैस्तदा ॥
कृष्टं च सत्वरं दृष्ट्वा प्रोक्तं च भीतया तदा ॥१०॥
श्रांतास्मि सांप्रतं देव वेगेनानेन भीषिता ॥
तद्विश्रमितुमिच्छामि भूधरस्य तटे विभो ॥११॥
क्षणं पद्भ्यां गमिष्यामि विषमोयं गिरिर्महान्॥
त्वदीयं वचनं श्रुत्वा बाढमुक्तं प्रिये मया ॥१२॥
मुहूर्त्तं चारुजघने शैलपादमुपाश्रिता ॥
कुरु श्रमापनयनं यावद्वेगात्प्रयाम्यहम् ॥१३॥
पंथान त्वत्सुखं यत्र तं वयं मृगयावहे ॥
एष कुण्डो गणाध्यक्षस्त्वत्समीपे वसिष्यति ॥
त्वदाज्ञावशवर्त्ती च किंकरः स्थापितो मया ॥१४॥
एवमुक्त्वा ततो देवि संस्थाप्य गणरक्षकम् ॥
आरूढोऽहं गिरेः प्रांतमुदयाद्रिं रविर्यथा ॥१५॥
ततोऽवलोकितोऽत्यर्थं रमणीयो महा गिरिः ॥
इदं रम्यमिदं रम्यमित्यस्मिन्वरपर्वते ॥१६॥
पश्यतो मम शैलेंद्रं गताः संवत्सरा दश ॥
त्वयाथ चिंतितं देवि क्व गतस्त्रिपुरांतकः॥१७॥
नूनं न मदनातप्तां वेत्ति मां रतिवर्जिताम् ॥
मां विहाय महादेवो निर्विशंकः क्व वर्त्तते ॥१८॥
हरस्य क्वापि यातस्य वैरं संस्मृत्य चित्तजः ॥
बाधते मामनंगोपि चापरोपितमार्गणः ॥
विलोकयंतीं हा दृष्ट्वा विलपंतीं पुनः पुनः ॥१९॥
ततः कुण्डो गणाध्यक्षो ज्ञात्वा भावं त्वदीयकम् ॥
उत्कृष्टेन स्वरेणोक्तं मा देवि विमना भव ॥२०॥
आयात एष ते भर्त्ता मा चेतः कलुषं कुरु ॥
एतच्छ्रुत्वा वचस्तस्य कुण्डस्य कमलानने ॥२१॥
दुःखार्त्तया त्वया प्रोक्तः कुण्ड वेद्मि न शंकरम् ॥
क्व गतः किं च कुरुते कालं दीर्घमिमं शिवः ॥
दर्शयस्व महादेवमित्युक्तोऽ सौ पुनःपुनः ॥२२॥
यदा न दर्शितस्तेन कुण्डेनाहं वरानने ॥
तदा शप्तस्त्वया देवि क्रुद्धया गणरक्षकः ॥२३॥
गच्छ त्वं मानुषं लोकं यस्मान्न कथितो हरः ॥
एतस्मिन्नंतरे देवि प्राप्तोऽहं त्वत्समीपतः ॥२४॥
पृष्टश्चाहं त्वया देवि विहाय क्व गतोऽसि माम् ॥
दुर्गमे पर्वते शून्ये तस्मात्त्य क्ष्यामि जीवितम् ॥२५॥
गत्वाग्रे भूधरस्यास्य किं कृतं च त्वया विभो ॥
मया तव वचः श्रुत्वा कथितं सर्वमेव तत् ॥२६॥
दुराधर्षतरः शैलः समंताद्दुरतिक्रमः ॥
त्वत्प्रियार्थं महाभागे मया मार्गोऽवलोकितः ॥२७॥
येन मार्गेण विश्रब्धं गमिष्यामः सुमध्यमे ॥
अयं कुण्डो गणो देवि विषण्णो व्याकुलः कृतः ॥२८॥
त्वयाप्युक्तं महादेव कुण्डः शप्तो मया गणः ।
ममाज्ञा न कृता यस्माद्विफलं न वचो मम ॥
तस्माद्यातु ममादेशा न्महाकालवनं शुभम् ॥२९॥
भैरवं रूपमास्थाय यत्र त्वं चोत्तरे स्थितः ॥
तस्याग्रतः स्थितं लिंगं वर्त्तते कामदं सदा ॥३०॥
तस्य दर्शन मात्रेण गणपोऽयं भविष्यति ॥
कुण्डेश्वरेति विख्यातः स देवो वै भविष्यति ॥३१॥
इत्युक्तः स त्वया देवि समासाद्य पुनःपुनः ॥
प्रस्थापितस्त्वयादेशाद्व्रज कुण्ड ममाज्ञया ॥३२॥
महाकालवनं शीघ्रं लिंगमाराध्य सत्वरम् ॥
कीर्तिस्ते भविता पुत्र त्रिषु लोकेषु शाश्वती ॥३३॥
इत्युक्तस्तत्क्षणात्प्राप्तो दृष्ट्वा लिङ्गं तु शाश्वतम् ॥
उत्तरस्य शिवस्याग्रे पूजयामास भक्तितः ॥३४॥
ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः ॥
यक्षाश्चाप्सरसश्चैव समाजग्मुः सहस्रशः ॥३५॥
अथाहं तत्क्षणात्प्राप्तस्त्वया सार्द्धं गणैर्वृतः ॥
दृष्ट्वा कुण्डं गणेशं तु लिंगाराधनतत्परम् ॥३६॥
समाधिध्याननिरतं प्रोक्तमस्माभिरादरात् ॥
तुष्टा ते पार्वती पुत्र प्रार्थ्यतां वरमुत्तमम् ॥३७॥
अक्षयं तु पदं प्राप्तं त्वया लिंगस्य दर्शनात् ॥
अद्यप्रभृति देवोऽयं ख्यातो भुवि भविष्यति ॥
नाम्ना कुण्डेश्वरो यस्मात्सर्वसंपत्करः सदा ॥३८॥
कुण्डेश्वरमनादिं तु भक्त्या पश्यति यो नरः ॥
सोऽश्वमेधसहस्रस्य फलं प्राप्स्यति नान्यथा ॥३९॥
तस्य दानफलं सर्वं सर्वतीर्थफलं सदा ॥
लिंगं कुण्डेश्वरं यस्तु भक्त्या संपूजयिष्यति॥४०॥
दशानामश्वमेधानामग्निष्टोमशतस्य च॥
स्पर्शनात्फलमाप्नोति कुण्डेश्वरस्य सर्वदा॥४१॥
प्रातः पश्यंति ये भक्त्या कृत्वा नियमपूर्वकम्॥
सिद्धिं सुकामिकीं हृष्टाः संप्राप्स्यंति न संशयः ॥४२॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कुण्डेश्वरस्य देवस्य शृणु लुंपेश्वरं परम्॥४३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कुंडेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशो ऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP