अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ७७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीमहादेव उवाच ॥
सप्तसप्ततिकं देवि पुष्पदंतेश्वरं शृणु ॥
यस्य दर्शनमात्रेण गर्भवासो न जायते ॥१॥
शिनिर्नाम द्विजो देवि स चापुत्रोऽभवत्पुरा ॥
पुत्रार्थं चिंतयामास स तपांसि बहूनि ह ॥२॥
वायुभक्षोंऽबुभक्षश्च निराहारोर्ध्वबाहुकः ॥
शाकमूलफलाहारः पर्णाश्येकद्वि पर्णभुक् ॥३॥
एवमादीनि चान्यानि तपांसि श्रेयसे परम् ॥
एतेषां तपसां मध्ये तप एकं समाश्रये ॥४॥
परं विघ्नोपशांत्यर्थं तोषयिष्येऽहमी श्वरम् ॥
एवं संचिंत्य मनसा ऊर्ध्वबाहूर्ध्वपादकः ॥
आभ्यां न स दुरासाद्यो नापराधो भविष्यति ॥५॥
तथा चकार स मुनिर्वर्षाणां द्वादशैव हि ॥
तपस्यंतं च तं दृष्ट्वा नियमे परमे स्थितम् ॥६॥
विज्ञप्तोहं त्वया देवि मंदरे चारुकंदरे ॥
करोत्येष तपः क्रूरं पुत्रहेतोर्मुनिर्म हान् ॥७॥
तेजसा दीपयच्छैलं शोषयन्सलिलाशयान् ॥
तपसा दुष्करेणैव क्षुभिता नाकवासिनः ॥८॥
व्यालेंद्रा व्याकुलीभूता लुलिताश्चाचलेश्वराः ॥
मुनयो विस्मृतिं प्राप्ताः कंपेते चापि रोदसी ॥९॥
अयोनिजः शिनिर्विप्रः पुत्रमिच्छत्ययोनिजम् ॥
त्वं योनिर्गुणसंघानां त्वं योनिस्तपसामपि ॥१०॥
त्वं तपस्त्वं परं धाम शिखिचंद्रार्कलोचन ॥
सर्वेश्वर सुतोऽभीष्टः किं न विप्राय दीयते ॥११॥
सुरासुरगुरो किं न पुत्रमस्मै प्रयच्छसि ॥
तपसा क्षीणदोषस्य ब्रह्मत्वे भावितात्मनः ॥१२॥
शिनेः पुत्रप्रदानं त्वं कुरु मद्वचनाच्छिव ॥
तपसा दुष्करेणैव गाढं क्लिष्टो महामुनिः ॥१३॥
तेजांसि ज्योतिषामेव महतां च विधिस्थितः ॥
अहरत्तेजसा स्वेन तमांसीव दिवाकरः ॥१४॥
त्वद्भक्तस्य च देवेश व्यर्थः कस्मात्परिश्रमः ॥
उदितेऽर्के तमांसीह न भवंति कदाचन ॥१५॥
त्वत्परस्य न देवश युक्ता दुःखविभीषिका ॥
इत्यहं प्रार्थितो देवि त्वया पर्वतपुत्रिके ॥१६॥
विप्रार्थमनुकंपार्थं पुत्रार्थं च विशेषतः ॥
आकारिता मया देवि गणास्त्व द्गौरवेण तु ॥१७॥
रुद्राश्च हरभक्ताश्च कूष्मांडा गगनेचराः ॥
रोमरौद्रा महानीलाः शिखावंतः सकोकिलाः ॥१८॥
अन्ये च विविधाकाराः कालास्या हरिपिंगलाः ॥
जटाजूटधराश्चित्रा वीथिनक्षत्रचारिणः ॥१९॥
नीलग्रीवा कृष्णमुखाः पिंगधौतजटासटाः ॥
ज्वरो डिंडिर्महाकालो लांगुलिश्च महेश्वरः ॥२०॥
घंटाकर्णो विशाखश्च परिशेषा गणाश्च ये ॥
वृषारूढाः कामतुल्याः कामरूपबलास्तथा ॥२१॥
शूलचंद्रधराः सर्वे सर्वे तुल्यपराक्रमाः ॥
ममादेशात्समायाताः कृतांजलिपुटाः स्थिताः ॥२२॥
स्तुवंतो विविधैः स्तोत्रैरूचुरेवं समाहिताः ॥
किं कर्त्तव्यमिहास्माभिरादेशो दीयतां प्रभो ॥२३॥
गणानां वचनं श्रुत्वा ज्ञात्वा भक्तिं च तादृशीम् ॥
महातपःप्रभावोऽयं शिनिविप्रस्य कीर्त्तितः ॥२४॥
पुत्रार्थं तप्यति तपः शिनिर्ब्राह्मणसत्तमः ॥
मद्वाक्यात्को नु विप्रस्य पुत्रत्वं संप्रदास्यति ॥२५॥
तस्याहं संप्रदास्यामि सर्वान्कामा न्यथेप्सितान् ॥
अमरं चाजरं पुत्रं मुनिर्वांछति सांप्रतम् ॥२६॥
मद्वाक्यं क्रियतां सद्यो विप्रः क्लेशाद्विमुच्यताम्॥
मद्भक्तस्य न संकल्पो मिथ्या भवितुमर्हति॥ २७॥
मदीयं वचनं श्रुत्वा सर्वे कंपितकंधराः ॥
सर्वे चावाङ्मुखा जाताः सर्वे ध्यानपरायणाः ॥२८॥
न कश्चिद्भाषते किंचिन्न कश्चिद्वीक्षते तदा ॥
अथोक्तं पुष्पदंतेन रभसान्मानितेन तु ॥२९॥
मम चित्तमविज्ञाय गणानामनुकंपया ॥
न यास्यंति गणा देव त्वां विहाय महीतलम् ॥३०॥
इह स्थास्यंति सततं त्वत्समीपे न संशयः ॥
कथं योनिं प्रयास्यंति संप्राप्य मुदमुत्तमाम् ॥३१॥
हीनां रजोऽधिकां दीनां तमोबहुलधारिणीम् ॥
कथं स्वर्गं परित्यज्य यास्यामो नरकं परम् ॥३२॥
ब्रुवन्नेवं भ्रमेणैव भाव्यर्थेन प्रणोदितः ॥
उक्तो मया विशालाक्षि पुष्पदंतो गणाग्रणीः ॥३३॥
पत त्वं मानुषे लोके यस्मान्मे विप्रियं कृतम् ॥
शप्त्वा तं पुष्पदंतं तु वीरकः प्रेरितो मया ॥३४॥
विप्रस्य पुत्रतां तूर्णं पुत्र गच्छ ममाज्ञया ॥
ततस्ते संप्रदास्यामि सर्वान्कामान्यथेप्सितान् ॥३५॥
इत्युक्तो वीरको देवि गतो विप्रस्य पुत्रताम् ॥
पुष्पदंतोऽपि करुणं विललाप सुदुःखितः ॥३६॥
पश्चात्तापेन संयुक्तो निश्वस्य च पुनःपुनः ॥
अहो तत्सफलं जन्म यदाज्ञा क्रियते नरैः ॥३७॥
प्रभूणामेकचित्तेन ते भृत्या दुर्लभाः स्मृताः ॥
तेषामर्थश्च धर्मश्च कुलं चैव च तारितम् ॥३८॥
प्रसन्नास्त्रिदशास्तेषां प्रभु भक्ताश्च ये नराः ॥
सेवाधर्मो हि गहनो योगिनामपि दुष्करः ॥३९॥
न ज्ञेयः केन तत्त्वेन दुराराध्यः प्रभुर्भवेत् ॥
एकेनाप्यपराधेन प्रकोपं कुरुते प्रभुः ॥४०॥
विनश्यंत्युपकाराणि तस्मात्सेवा सुदुष्करा ॥
स्वामी सर्पश्च वह्निश्च तप्तभावं व्रजंति हि ॥४१॥
तस्माद्यत्नेन संसेव्या आत्मरक्षणतत्परैः ॥
सोऽहं भूमौ निपतितः प्रभोरादेशभंजकः ॥४२॥
कांस्तु लोकान्गमिष्यामि कलुषी भूणहा इव ॥
एवं विलप्य बहुशो मामेव शरणं गतः ॥
उवाच दीनया वाचा प्रणिपत्य पुनःपुनः ॥४३॥
दीनोऽस्मि ज्ञानहीनोऽस्मि प्रणतोऽस्मि च शंकर ॥
कुरु प्रसादं देवेश अपराधं क्षमस्व मे ॥४४॥
न हि निर्वहणं यांति प्रभूणामाश्रिता रुषः ॥
प्रसीद देवदेवेश दीनस्य कृपणस्य च ॥४५॥
अपि कीट पतंगत्वं गच्छेयं तव शासनात ॥
भक्तोहं सर्वदा देव पुत्रत्वे हि प्रतिष्ठितः ॥४६॥
इति तस्य वचः श्रुत्वा पुष्पदंतस्य पार्वति ॥
ममत्वेन तदा देवि प्रोक्तमित्थं त्वया वचः ॥४७॥
गच्छ पुत्र ममादेशान्महाकालवनं शुभम् ॥
लिंगमाराधय क्षिप्रं तत्त्वन्नाम्ना भविष्यति ॥४८॥
कीर्त्तिस्ते भविता पुत्र यावदाभूतसंप्लवम् ॥
इत्युक्ते तु त्वया देवि मयाप्युक्तं वरानने।४९॥
न मे मिथ्या वचः पुत्र भविष्यति कथंचन ॥
दर्शनादेव लिंगस्य ममाभीष्टो भविष्यसि ॥५०॥
विमाने पुष्पपादे तु समारूढो भविष्यसि ॥
पुष्पैः संपूज्यमानस्तु पदं प्राप्स्यसि शाश्वतम् ॥५१॥
गणैः सार्द्धं मया चैव मुदितो विचरिष्यसि ॥
ममापि न रतिर्वत्स भविष्यति त्वया विना ॥५२॥
अहं तत्रागमिष्यामि महाकालवने शुभे ॥
तुष्टोऽहं सर्वदा वत्स गणानामग्रणीः कृतः ॥५३॥
अनया शुद्धया भक्त्या लोकानामुपकारकः ॥
भविष्यसि न संदेहस्तस्मिन्क्षेत्रे गतो ध्रुवम्॥५४॥
इत्युक्तो हि मया देवि पुष्पदंतो गणाग्रणीः ॥
मानी ममाज्ञया मौनी महाकालवने शुभम् ॥५५॥
लिंगमाराधयामास दुर्वासेशादथोत्तरे ॥
लिंगेनोक्तस्तु सहसा तुष्टोऽहं गणसत्तम ॥
त्वन्नाम्ना ख्यातिमेष्यामि प्रसादस्ते कृतोऽधुना ॥५६॥
एतस्मिन्नन्तरे देवि त्वया सार्द्धमहं गतः ॥
शक्राद्यैस्त्रिदशैः सार्द्धं गणैर्नानाविधैस्तथा ॥५७॥
हृष्टस्तु पुष्पदंतोऽपि पुष्पपट्टासने शुभे ॥
पुष्पैः प्रकीर्यमाणोऽपि पुनः प्राप्तो ममांतिकम् ॥५८॥
मया संश्लेषितः स्नेहादुत्संगेऽप्यधिरोपितः ॥
स्थानं दत्तं विशालाक्षि इदमुक्तं मया तदा ॥५९॥
ये पश्यंति नरा लिंगं त्वया संपूजितं भुवि ॥
ते यास्यंति पुष्पकेण क्रीडन्तो वै त्रिविष्टपम् ॥६०॥
गणाध्यक्षा भविष्यंति सर्वकामैरलंकृताः ॥
मम लोके गणाध्यक्षा यावदिंद्राश्चतुर्दश ॥६१॥
दर्शनात्क्षीयते पापमैहिकं पूर्वकं तथा ॥
ततः प्रसादान्मे सर्वं ज्ञानं सम्यग्भविष्यति ॥६२॥
यः पूजयेच्चतुर्द्दश्यामष्टम्यां सोमवासरे ॥
अमरैः सह संहृष्टो मोदते दिवि सर्वदा ॥६३॥
पैतृकैर्मातृकैः सार्द्धं कुलैस्तु सप्तभिर्युतः ॥
न वदेत्केनचित्सार्द्धं नरो यः प्रातरुत्थितः ॥६४॥
पुष्पदंतेश्वरं दृष्ट्वा सोऽश्वमेधफलंलभेत् ॥
मुच्यते पातकाद्यैश्च यः शाठ्येनापि पश्यति ॥६५॥
मृतो गांधर्वलोके तु याति विद्याधरैर्वृतः ॥
न तस्य संतति च्छेदो यः पश्यति दिनेदिने ॥
नियमेन गणाध्यक्ष जायते ब्रह्मणो दिनम्॥ ६६॥
ऐश्वर्यं सप्तलोकेषु भुक्त्वा भोगान्यथाक्रमम्॥
पृथिव्यामेकराड्भूत्वा ममांगे संभविष्यति ॥६७॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
पुष्पदन्तेश्वरेशस्य अविमुक्तेश्वरं शृणु ॥६८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम् आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे पुष्पदन्तेश्वरमाहात्म्यवर्णनंनाम सप्त सप्ततितमोऽध्यायः ॥७७॥छ ॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP