संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ३२

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ईश्वर उवाच ॥
त्रिषु लोकेषु विख्यातं द्वात्रिंशत्तममुत्तमम् ॥
विद्धि सिद्धिप्रदं पुंसां पत्तनेश्वरमीश्वरम् ॥१॥
पुराऽहं पर्वते देवि मंदरे चारुकन्दर् ॥
क्रीडन्सार्द्धं त्वया पृष्टः कदाचिद्रहसि स्थितः ॥२॥
किमर्थं पर्वतं त्यक्त्वा कैलासं रमणीयकम् ॥
मुक्ता फलशिलाशुभ्रं शङ्खचन्द्रांशुनिर्मलम् ॥३॥
सिद्धचारणगन्धर्वकिंनरोद्गीतनादितम् ॥
सदा पुष्पद्रुमच्छन्नं कदलीवनराजितम् ॥४॥
अथ कोकिलचक्राह्वचकोरकुरराकुलम् ॥
पुऽण्यलोकोपमं स्थानं त्रिविष्टपविभूषणम् ॥५॥
महाकालवने शून्ये नानागुल्मलतावृते ॥
गजेंद्रगजशार्दूल सिंहशम्बरसंकुले ॥६॥
ऋक्षवानरगोमायुजन्तुकादिविराजिते ॥
मयूरसर्पमार्जारमूषिकादिविराजिते ॥७॥
कथं वासः कृतो देव कौतूहलमिदं मम ॥८॥
इति पृष्टस्त्वया देवि मंदरे चारुकन्दरे ॥
मया प्रोक्तं प्रसन्नेन पत्तनं च मम प्रिये ॥९॥
महाकालवनं रम्यं स्वर्गात्सुखकरं परम् ॥.
स्मशानपीठसत्क्षेत्रवनोपरसमाश्रितम् ॥१०॥
अनौपम्यगुणं विद्धि पत्तनं पर्वतात्मजे ॥
एवं पत्तनदेवो वै न दृष्टो भुवनत्रये ॥
गीतवादित्रचातुर्यैः स्पर्द्धते यः सुरालयम् ॥११॥
एतस्मिन्नंतरे देवि देवर्षिर्नारदो मुनिः ॥
द्रष्टुकामः समायातो मन्दरे मां यशस्विनि ॥१२॥
विनोदार्थं मया पृष्टस्त्वत्प्रियार्थं कुतूहलात् ॥
क्व त्वया गमितः कालः कल्पसंख्यो महामुने ॥१३॥
 कस्मिन्नाश्रमसंस्थाने तपसः संचयः कृतः ॥
तीर्थानि कानि भ्रांतानि क्व ते रतिरभूच्चिरम् ॥१४॥
कौतुकं दृष्टपूर्वं तु वद मे मुनिसत्तम ॥
इति पृष्टो मया देवि ब्रह्मपुत्रो महामुनिः ॥
कथयामास वृत्तांतं पत्तनस्य प्रयत्नतः ॥१५॥
बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ॥
पत्तनानि विचित्राणि देशाश्च नगराणि च ॥१६॥
अटनार्थं महादेव जंबूद्वीपे मनोरमे ॥
दृष्टः पत्तनराजश्च सदानंदकरः परः ॥१७॥
स्वेच्छाकल्पितविन्यासः प्रासादशतकल्पितः ॥
इच्छाकामफलावाप्तिर निर्देश्यसुखावहः ॥१८॥
सर्वर्तुकुसुमामोदसुखस्पर्शानिलावृतः ॥
वीणावेणुरवैर्घुष्टो मनःप्रह्लादकारकः ॥१९॥
वज्रेंद्रनीलवैडूर्यचन्द्रकांतादिदी पितः ॥
जरामृत्युभयोपेतः सर्वव्याधिविवर्जितः ॥२०॥
शक्राग्नियमरक्षोब्धिवायुसोमेशसेवितः ॥
ऊर्द्धाधः सप्तलोकेषु पुण्येषु निवसंति हि ॥२१॥
सदा प्रमुदिता देवास्तेऽपि कांक्षंति पत्तनन्न् ॥
तत्र शांता महात्मानो निवसंते महेश्वर ॥२२॥
विद्योतितदिशो दांताः सूर्य वैश्वानरप्रभाः ॥
दिव्यांबरधरा धीरा जगमुकुटधारिणः ॥२३॥
विप्रा माहेश्वराः पुण्याः क्षत्रिया हरतत्पराः ॥
मुमुक्षवस्तपोनिष्ठा वैश्या शूद्राश्चिरायुपः ॥२४॥
स शुभ्ररूपः स च लोहिताकृतिः स चापि पीतः ससितेतरः क्वचित् ॥
स नामधेयः स च नामवर्ज्यः सोऽदृ श्यरूपः स च दृष्टरूपः ॥२५॥
क्वचिद्रविसहस्राक्षः क्वचिदेकरविप्रभः ॥
क्वचिच्चन्द्राद्विशिष्येत क्वचिदंगुलिकांतिमान् ॥२६॥
जन्म मृत्युजरारोगैर्दुःखानि विविधानि च ॥
प्रयाति विलयं तानि प्रसन्ने पत्तनेश्वरे ॥२७॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
पत्तनेशस्य देवस्य आनंदेशमतः शृणु ॥२८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये पत्तनेश्वर माहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP