नारद उवाच
मलयेऽपि महेन्द्रेण यत्कृतं ब्राह्मणर्षभ ।
निष्पादितं स्वकं कार्यं तन्मे व्याख्यातुमर्हसि ॥१॥
पुलस्त्य उवाच
श्रूयतां यन्महेन्द्रेण मलये पर्वतोत्तमे ।
कृतं लोकहितं ब्रह्मन्नात्मश्च तथा हितम् ॥२॥
अन्धासुरस्यानुचरा मयतारपुरोगमाः ।
ते निर्जिताः सुरगणैः पातालगमनोत्सुकाः ॥३॥
ददृशुर्मलयं शैलं सिद्धाध्युषितकन्दरम् ।
लतावितानसंछन्नं मत्तसत्त्वसमकुलम् ॥४॥
चन्दनैरुगाक्रान्तैः सुशीतैरभिसेवितम् ।
माधवीकुसुमामोदं ऋष्यर्चितहरं गिरिम् ॥५॥
तं दृष्ट्वा शीतलच्छायं श्रान्ता व्यायामकर्षिताः ।
मयतारपुरोगास्ते निवासं समरोचयन् ॥६॥
तेषु तत्रोपविष्टेषु प्राणतृप्तिप्रदोऽनिलः ।
विवाति शीतः शनकैर्दक्षिणो गन्धसंयुतः ॥७॥
तत्रैव च रतिं चक्रुः सर्व एव महासुराः ।
कुर्वन्तो लोकसम्पूज्ये विद्वेषं देवतागणे ॥८॥
ताञ्ज्ञात्वा शङ्करः शक्रं प्रेषयन्मलयेऽसुरान् ।
स चापि ददृशे गच्छन् पथि गोमातरं हरिः ॥९॥
तस्याः प्रदक्षिणां कृत्वा दृष्ट्वा शैलं च सुप्रभम् ।
ददृशे दानवान् सर्वान् संह्नष्टान् भोगसंयुतान् ॥१०॥
अथाजुहाव बलहा सर्वानेव महासुरान् ।
ते चाप्याययुरव्यग्रा विकिरन्तः शरोत्करान् ॥११॥
तानागतान् बाणजालैः रथस्थोऽद्भुतदर्शनः ।
छादयामास विप्रर्षे गिरीन् वृष्ट्या यथा घनः ॥१२॥
ततो बाणैरवच्छाद्य मयादीन् दानवान् हरिः ।
पाकं जघान तीक्ष्णाग्रैमार्गणैः कङ्कवाससैः ॥१३॥
तत्र नाम विभुर्लेभे शासनत्वात् शरैर्दृढैः ।
पाकशासनतां शक्रः सर्वामरपतिर्विभुः ॥१४॥
तथाऽन्यं पुरनामानं बाणासुरसुतं शरैः ।
सुपुङ्खैर्दारयामास ततोऽभूत् स पुरन्दरः ॥१५॥
हत्वेत्थं समरेऽजैषीद गोत्रभिद दानवं बलम् ।
तच्चापि विजितं ब्रह्मन् रसातलमुपागतम् ॥१६॥
एतदर्थं सहस्त्राक्षः प्रेषितो मलयाचलम् ।
त्र्यम्बकेन मुनिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥१७॥
नारद उवाच
किमर्थं दैवतपतिर्गोत्रभित् कथ्यते हरिः ।
एष मे संशयो ब्रह्मन् ह्नदि सम्परिवर्तते ॥१८॥
पुलस्त्य उवाच
श्रूयतां गोत्रभिच्छक्रः कीर्तितो हि यथा मया ।
हते हिरण्यकशिपौ यच्चकारारिमर्दनः ॥१९॥
दितिर्विनष्टपुत्रा कश्यपं प्राह नारद ।
विभो नाथोऽसि मे देहि शक्रहन्तारमात्मजम् ॥२०॥
कश्यपस्तामुवाचाथ यदि त्वमसितेक्षणे ।
शौचाचारसमायुक्ता स्थास्यसे दशतीर्दश ॥२१॥
संवत्सराणां दिव्यानां ततस्त्रैलोक्यनायकम् ।
जनयिष्यसि पुत्रं त्वं शत्रुघ्नं नान्यथा प्रिये ॥२२॥
इत्येवमुक्ता सा भर्त्रा दितिर्नियममास्थिता ।
गर्भाधानमृषिः कृत्वा जगामोदयपर्वतम् ॥२३॥
गते तस्मिन् मुनिश्रेष्ठे सहस्त्राक्षोऽपि सत्वरम् ।
तमाश्रममुपागम्य दितिं वचनमब्रवीत् ॥२४॥
करिष्याम्यनुशुश्रूषां भवत्या यदि मन्यसे ।
बाढमित्यब्रवीद देवी भाविकर्मप्रचोदिता ॥२५॥
समिदाहरणादीनि तस्याश्चके पुरन्दरः ।
विनीतात्मा च कार्यार्थी छिद्रान्वेषी भुजङ्गवत् ॥२६॥
एकदा सा तपोयुक्ता शौचे महति संस्थिता ।
दशवर्षशतान्ते तु शिरः स्त्राता तपस्विनी ॥२७॥
जानुभ्यामुपरि स्थाप्य मुक्तकेशा निजं शिरः ।
सुष्वाप केशप्रान्तैस्तु संश्लिष्टचरणाऽभवत् ॥२८॥
तमन्तरमशौचस्य ज्ञात्वा वेदः सहस्त्रदृक् ।
विवेश मातुरुदरं नासारन्ध्रेण नारद ॥२९॥
प्रविश्य जठरं क्रुद्धो दैत्यमातुः पुरन्दरः ।
ददर्शोर्ध्वमुखं बालं कटिन्यस्तकरं महत् ॥३०॥
तस्यैवास्तेऽथ ददृशे पेशीं मांसस्य वासवः ।
शुद्धस्फटिकसंकाशां कराभ्यां जगृहेऽथ ताम् ॥३१॥
ततः कोपसमाध्मातो मांसपेशीं शतक्रतुः ।
कराभ्यां मर्दयामास ततः सा कठिनाऽभवत् ॥३२॥
ऊर्ध्वेनार्धं च ववृधे त्वधोऽध ववृधे तथा ।
शतपर्वाऽथ कुलिशः संजातो मांसपेशितः ॥३३॥
तेनैव गर्भं दितिजं वज्रेण शतपर्वणा ।
चिच्छेद सप्तधा ब्रह्मन् स रुरोद च विस्वरम् ॥३४॥
ततोऽप्यबुध्यत दितिरजानाच्छक्रचेष्टितम् ।
शुश्राव वाचं पुत्रस्य रुदमानस्य नारद ॥३५॥
शक्रोऽपि प्राह मा मूढ रुदस्वेति सुघर्घरम् ।
इत्येवमुक्त्वा चैकैकं भूयश्चिच्छेद सप्तधा ॥३६॥
ते जाता मरुतो नाम देवभृत्याः शतक्रतोः ।
मातुरेवापचारेण चलन्ते ते पुरस्कृताः ॥३७॥
ततः सकुलिशः शक्रो निर्गम्य जठरात् तदा ।
दितिं कृताञ्जलिपुटः प्राह भीतस्तु शापतः ॥३८॥
ममास्ति नापराधोऽयं यच्छस्तस्तनयस्तव ।
तवैवापनयाच्छस्तस्तन्मे न क्रोद्धुमर्हसि ॥३९॥
दितिरुवाच
न तवात्रापराधोऽस्ति मन्ये दिष्टमिदं पुरा ।
सम्पूर्णे त्वपि काले वै याऽशौचत्वमुपागता ॥४०॥
पुलस्त्य उवाच
इत्येवमुक्त्वा तान् बालान् परिसान्त्व्य दितिः स्वयम् ।
देवराज्ञा सहैतांस्तु प्रेषयामास भामिनी ॥४१॥
एवं पुरा स्वानपि सोदरान् स गर्भस्थितानुज्जरितुं भयार्तः ।
बिभेद वज्रेण ततः स गोत्रभित् ख्यातो महर्षे भगवान् महेन्द्रः ॥४२॥