पुलस्त्य उवाच
ततो मुरारिभवनं समभ्येत्य सुरास्ततः ।
ऊचुर्देवं नमस्कृत्य जगत्संक्षुब्धिकारणम् ॥१॥
तच्छुत्वा भगवान् प्राह गच्छामो हरमन्दिरम् ।
स वेत्स्यति महाज्ञानी जगत्क्षुब्धं चराचरम् ॥२॥
तथोक्ता वासुदेवेन देवाः शक्रपुरोगमाः ।
जनार्दनं पुरस्कृत्य प्रजग्मुर्मन्दरं गिरिम् ।
न तत्र देवं न वृषं न देवीं न च नन्दिनम् ॥३॥
शून्यं गिरिमपश्यन्त अज्ञानतिमिरावृत्ताः ।
तान् मूढदृष्टीन् संप्रेक्ष्य देवान् विष्णुर्महाद्युतिः ॥४॥
प्रोवाच किं न पश्यध्वं महेशं पुरतः स्थितम् ।
तमूचुर्नैव देवेशं पश्यामो गिरिजापतिम् ॥५॥
न विद्मः कारणं तच्च येन दृष्टिर्हता हि नः ।
तानुवाच जगन्मर्तिर्यूयं देवस्य सागसः ॥६॥
पापिष्ठा गर्भहन्तारो मृडान्याः स्वार्थतत्पराः ।
तेन ज्ञानविवेको वै हतो देवेन शूलिना ॥७॥
येनाग्रतः स्थितमपि पश्यन्तोऽपि न पश्यथ ।
तस्मात् कायविशुद्धर्थं देवदृष्ट्र्यर्थमादरात् ॥८॥
तप्तकृच्छ्रेण संशुद्धाः कुरुध्वं स्त्रानमीश्वरे ।
क्षीरस्त्राने प्रयुञ्जीत सार्द्धं कुम्भशतं सुराः ॥९॥
दधिस्त्राने चतुःषष्टिर्द्वात्रिंशद्धविषोऽर्हणे ।
पञ्जगव्यस्य शुद्धस्य कुम्भाः षोडश कीर्तिताः ॥१०॥
मधुनोऽष्टौ जलस्योक्ताः सर्वे ते द्विगुणाः सुराः ।
ततो रोचनया देवमष्टोत्तरशतेन हि ॥११॥
अनुलिम्पेत् कुङ्कुमेन चन्दनेन च भक्तितः ।
बिल्वपत्रैः सकमलैः धत्तूरसुरचन्दनैः ॥१२॥
मन्दारैः पारिजातैश्च अतिमुक्तैस्तथाऽर्चयेत् ।
अगुरुं सह कालेयं चन्दनेनापि धूपयेत् ॥१३॥
जप्तव्यं शतरुद्रीयं ऋग्वेदोक्तैः पदक्रमैः ।
एवं कृते तु देवेशं पश्यध्वं नेतरेण च ॥१४॥
इत्युक्ता वासुदेवेन देवाः केशवमब्रुवन् ।
विधानं तप्तकृच्छ्रस्य कथ्यतां मधुसूदन ।
यस्मिंश्चीर्णे कायशुद्धिर्भवते सार्वकालिकी ॥१५॥
वासुदेव उवाच
त्र्यहमुष्णं पिबेदापः त्र्यहमुष्णं पयः पिबेत् ।
त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयम् ॥१६॥
पला द्वादश तोयस्य पलाष्टौ पयसः सुराः ।
षट्पलं सर्पिषः प्रोक्तं दिवसे दिवसे पिबेत् ॥१७॥
पुलस्त्य उवाच
इत्येवमुक्ते वचने सुराः कायविशुद्धये ।
तप्तकृच्छ्ररहस्यं वै चक्रुः शक्रपुरोगमाः ॥१८॥
ततो व्रते सुराश्चीर्णे विमुक्ताः पापतोऽभवन् ।
विमुक्तपापा देवेशं वासुदेवमथाब्रुवन् ॥१९॥
क्वासौ वद जगन्नाथ शंभुस्तिष्ठति केशव ।
यं क्षीराद्यभिषेकेण स्नापयामो विधानतः ॥२०॥
अथोवाच सुरान्विष्णुरेष तिष्ठति शङ्करः ।
मद्देहे किं न पश्यध्वं योगश्चायं प्रतिष्थितः ॥२१॥
तमूचूर्नैव पश्यामस्त्वत्तो वै त्रिपुरान्तकम् ।
सत्यं वद सुरेशान महेशानः क्व तिष्ठति ॥२२॥
ततोऽव्ययात्मा स हरिः स्वहत्पङ्कजशायिनम् ।
दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम् ॥२३॥
ततः सुराः क्रमेणैव क्षीरादिभिरनन्तरम् ।
स्त्रापयाञ्चक्रिरे लिङ्गं शाश्वतं ध्रुवमव्ययम् ॥२४॥
गोरोचनया त्वालिप्य चन्दनेन सुगन्धिन ।
बिल्वपत्राम्बुजैर्देवं पूजयामासुरञ्जसा ॥२५॥
प्रधूप्यागुरुणा भक्त्या निवेद्य परमौषधीः ।
जप्त्वाऽष्टशतनामानं प्रणामं चक्रिरे ततः ॥२६॥
इत्येवं चिन्तयन्तश्च देवावेतौ हरीश्वरौ ।
कथं योगत्वमापन्नौ सत्त्वान्धतमसोद्भवौ ॥२७॥
सुराणां चिन्तितं ज्ञात्वा विश्वमूर्तिरभूद्विभुः ।
सर्वलक्षणसंयुक्तः सर्वायुधधरोऽव्ययः ॥२८॥
सार्द्धं त्रिनेत्रं कमलाहिकुण्डलं जटागुडाकेशखगर्षभध्वजम् ।
समाधवं हारभुजङ्गवक्षसं पीताजिनाच्छन्नकटिप्रदेशम् ॥२९॥
चक्रासिहस्तं हलशार्ङ्गपाणिं पिनाकशूलाजगवान्वितं च ।
कपर्दखट्वाङ्गकपालघण्टासशङ्खटङ्काररवं महर्षे ॥३०॥
दृष्टैव देवा हरिशङ्करं तं नमोऽस्तु ते सर्वगताव्ययेति ।
प्रोक्त्वा प्रणामं कमलासनाद्याश्चकुर्मतिं चैकतरां नियुज्य ॥३१॥
तानेकचित्तान् विज्ञाय देवान् देवपतिर्हरिः ।
प्रगृह्याभ्यद्रवत्तूर्णं कुरुक्षेत्रं स्वमाश्रमम् ॥३२॥
ततोऽपश्यन्त देवेशं स्थाणुभूतं जले शुचिम् ।
दृष्ट्वा नमः स्थाणवेति प्रोक्त्वा सर्व्वे ह्युपाविशन् ॥३३॥
ततोऽब्रवीत् सुरपतिरेह्येहि दीयतां वरः ।
क्षुब्धं जगज्जगन्नाथ उन्मज्जस्व प्रियातिथे ॥३४॥
ततस्तां मधुरां वाणीं शुश्राव वृषभध्वजः ।
श्रुत्वोत्तस्थौ च वेगेन सर्वव्यापी निरञ्जनः ॥३५॥
नमोऽस्तु सर्वदेवेभ्यः प्रोवाच प्रहसन् हरः ।
स चागतः सुरैः सेन्द्रैः प्रणतौ विनयान्वितैः ॥३६॥
तमूचुर्देवताः सर्वास्त्यज्यतां शङ्कर द्रुतम् ।
महाव्रतं त्रयो लोकाः क्षुब्धास्त्वत्तेजसावृत्ताः ॥३७॥
अथोवाच महादेवो मया त्यक्तो महाव्रतः ।
ततः सुरा दिवं जग्मुर्हष्टाः प्रयतमानसाः ॥३८॥
ततोऽपि कम्पते पृथ्वी साब्धिद्वीपाचला मुने ।
ततोऽभिचिन्तयदरुद्रः किमर्थं क्षुभिता मही ॥३९॥
ततः पर्यचरच्छूली कुरुक्षेत्रं समन्ततः ।
ददर्शौघवतीतीरे उशनसं तपोनिधिम् ॥४०॥
ततोऽब्रवीत्सुरपतिः किमर्थं तप्यते तपः ।
जगत्क्षोभकरं विप्र तच्छीघ्रं कथ्यतां मम ॥४१॥
उशना उवाच
तवाराधनकामार्थं तप्यते हि महत्तपः ।
संजीवनीं शुभां विद्यां ज्ञातुमिच्छे त्रिलोचन ॥४२॥
हर उवाच
तपसा परितुष्टोऽस्मि सुतप्तेन तपोधन ।
तस्मात् संजीवनीं विद्यां भवाञ्ज्ञास्यति तत्त्वतः ॥४३॥
वरं लब्ध्वा ततः शुक्रस्तपसः संन्यवर्त्तत ।
तथपि चलते पृथ्वी साब्धिभूभृन्नगावृता ॥४४॥
ततोऽगमन्महादेवः सप्तसारस्वतं शुचिः ।
ददर्श नृत्यमानं च ऋषिं मङ्कणसंज्ञितम् ॥४५॥
भावेन पोप्लूयति बालवत स भुजौ प्रसार्यैव ननर्त्त वेगात् ।
तस्यैव वेगेन समाहता तु चचाल भूर्भमिधरैः सहैव ॥४६॥
तं शङ्करोऽभ्येत्य करे निगृह्य प्रोवाच वाक्यं प्रहसन् महर्षे ।
किं भावितो नृत्यसि केन हेतुना वदस्व मामेत्य किमत्र तुष्टिः ॥४७॥
स ब्राह्मणः प्राह ममाद्य तुष्टिर्येनेह जाता श्रृणु तद द्विजेन्द्र ।
बहून् गणान् वै मम तप्यतस्तपः संवत्सरान् कायविशोषणार्थम् ॥४८॥
ततोऽनुपश्यामि करात् क्षतोत्थं निर्गच्छते शाक रसं ममेह ।
तेनाद्य तुष्टोऽस्मि भृशं द्विजेन्द्र येनास्मि नृत्यामि सुभावितात्मा ॥४९॥
तं प्राह शम्भुर्द्विज पश्य मह्यं भस्म प्रवृत्तोऽङ्गुलितोऽतिशुक्लम् ।
संताडनादेव न च प्रहर्षो ममास्ति नूनं हि भवान् प्रमत्तः ॥५०॥
श्रुत्वाऽथ वाक्यं वृषभध्वजस्य मत्वा मुनिर्मङ्कणको महर्षे ।
नृत्यं परित्यज्य सुविस्मितोऽथ ववन्द पादौ विनयावनम्रः ॥५१॥
तमह शम्भुर्द्विज गच्छ लोकं तं ब्रह्मणो दुर्गममव्ययस्य ।
इदं च तीर्थं प्रवरं पृथिव्यां पृथूदकस्यास्तु समं फलेन ॥५२॥
सांनिध्यमत्रैव सुरासुराणां गन्धर्वविद्याधरकिन्नराणाम् ।
सदाऽस्तु धर्मस्य निधानमग्र्यं सारस्वतं पापमलापहारि ॥५३॥
सुप्रभा काञ्चनाक्षी च सुर्वणुर्विमलोदका ।
मनोहरा चौघवती विशाला च सरस्वती ॥५४॥
एताः सप्त सरस्वत्यो निवसिष्यन्ति नित्यशः ।
सोमपानफलं सर्वाः प्रयच्छन्ति सुपुण्यदाः ॥५५॥
भवानपि कुरुक्षेत्रे मूर्तिं स्थाप्य गरीयसीम् ।
गमिष्यति महापुण्यं ब्रह्मलोकं सुदुर्गमम् ॥५६॥
इत्येवमुक्तो देवेन शङ्करेण तपोधनः ।
मूर्तिं स्थाप्य कुरुक्षेत्रे ब्रह्मलोकमगाद वशी ॥५७॥
गते मङ्कणके पृथ्वी निश्चला समजायत ।
अथागान्मन्दरं शम्भुर्निजमावसथं शुचिः ॥५८॥
एतत् तवोक्तं द्विज शङ्करस्तु गतस्तदासीत् तपसेऽथ शैले ।
शून्येऽभ्यगाद दुष्टमतिर्हि देव्या संयोधितो येन हि कारणेन ॥५९॥