नारद उवाच
पुरुरवा द्विजश्रेष्ठ यथा देवं श्रियः पतिम् ।
नक्षत्रपुरुषाख्येन आराधयत तद् वद ॥१॥
पुलस्त्य उवाच
श्रूयतां कथायिष्यामि नक्षत्रपुरुषव्रतम् ।
नक्षत्राङ्गानि देवस्य यानि यानीह नारद ॥२॥
मूलर्क्षं चरणौ विष्णोर्जङ्घे द्वे रोहिणी स्मृते ।
द्वे जानुनी तथाश्विन्यौ संस्थिते रुपधारिणः ॥३॥
आषाढे द्वे द्वयं चौर्वोर्गुह्यस्थं फाल्गुनीद्वयम् ।
कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः ॥४॥
प्रौष्ठपद्याद्वयं पार्श्वे कुक्षिभ्यां रेवती स्थिता ।
उरः संस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता ॥५॥
विशाखा भुजयोर्हस्तः करद्वयमुदाहतम् ।
पुनर्वसुरथाङ्गुल्यो नखाः सार्पस्तथोच्यते ॥६॥
ग्रीवास्थिता तथा ज्येष्ठा श्रवणं कर्णयोः स्थितम् ।
मुखसंस्थस्तथा पुष्यः स्वातिर्दन्ताः प्रकीर्तिताः ॥७॥
हनू द्वे वारुणश्चोक्तो नासा पैत्र उदाहतः ।
मृगशीर्षं नयनयो रुपधारिणि तिष्ठति ॥८॥
चित्रा चैव ललाटे तु भरणी तु तथा शिरः ।
शिरोरुहस्था चैवार्द्रा नक्षत्राङ्गमिदं हरेः ॥९॥
विधानं सम्र्पवक्ष्यामि यथायोगेन नारद ।
सम्पूजितो हरिः कामान् विदधाति यथेप्सितान् ॥१०॥
चैत्रमासे सिताष्टम्यां यदा मूलगतः शशी ।
तदा तु भगवत्पादौ पूजयेत् तु विधानतः ।
नक्षत्रसंनिधौ दद्याद् विप्रेन्द्राय च भोजनम् ॥११॥
जानुनी चाश्विनीयोगे पूजयेदथ भक्तितः ।
दोहदे च हविष्यान्नं पूर्ववद् द्विजभोजनम् ॥१२॥
आषाढाभ्यां तथा द्वाभ्यां द्वा ऊरु पूजयेद बुधः ।
सलिलं शिशिरं तत्र दोहदे च प्रकीर्तितम् ॥१३॥
फाल्गुनीद्वितीये गुह्यं पूजनीयं विचक्षणैः ।
दोहदे च पयो गव्यं देयं च द्विजभोजनम् ॥१४॥
कृत्तिकासु कटिः पूज्या सोपवासो जितेन्द्रियः ।
देयं च दोहदं विष्णोः सुगन्धकुसुमोदकम् ॥१५॥
पार्श्वे भाद्रपदायुग्मे पूजयित्वा विधानतः ।
गुडं सलेहकं दद्याद् दोहदे देवकीर्तितम् ॥१६॥
द्वे कुक्षी रेवतीयोगे दोहदे मुदगमोदकाः ।
अनुराधासु जठरं षष्ठिकान्नं च दोहदे ॥१७॥
श्रविष्ठायां तथा पृष्ठं शालिभक्तं च दोहदे ।
भुजयुग्मं विशाखासु दोहदे परमोदनम् ॥१८॥
हस्ते हस्तौ तथा पूज्यौ यावकं दोहदे स्मृतम् ।
पुनर्वसावङ्गुलीश्च पटोलस्त्र दोहदे ॥१९॥
आश्लेषासु नखान् पूज्य दोहदे तित्तिरामिषम् ।
ज्येष्ठायां पूजयेद ग्रीवां दोहदे तिलमोदकम् ॥२०॥
श्रवणे श्रवणौ पूज्यौ दधिभक्तं च दोहदे ।
पुष्ये मुखं पूजयेत दोहदे घृतपायसम् ॥२१॥
स्वातियोगे च दशना दोहदे तिलशष्कुली ।
दातव्या केशवप्रीत्यै ब्राह्मणस्य च भोजनम् ॥२२॥
हनू शतभिषायोगे पूजयेच्च प्रयत्नतः ।
प्रियङ्गुरक्तशाल्यन्नं दोहदं मधुविद्विषः ॥२३॥
मघासु नासिका पूज्या मधु दद्याच्च दोहदे ।
मृगोत्तमाङ्गे नयने मृगमांसं च दोहदे ॥२४॥
चित्रायोगे ललाटं च दोहदे चारुभोजनम् ।
भरणीषु शिरः पूज्यं चारु भक्तं च दोहदे ॥२५॥
सम्पूजनीया विद्वद्भिरार्द्रायोगे शिरोरुहाः ।
विप्रांश्च भोजयेद भक्त्या दोहदे च गुडार्द्रकम् ॥२६॥
नक्षत्रयोगेष्वेतेषु सम्पूज्य जगतः पतिम् ।
पारिते दक्षिणां दद्यात् स्त्रीपुंसोश्चारुवाससी ॥२७॥
छत्रोपानत् श्वेतयुगं सप्तधान्यानि काञ्चनम् ।
घृतपात्रं च मतिमान् ब्राह्मणाय निवेदयेत् ॥२८॥
प्रतिनक्षत्रयोगेन पूजनीया द्विजातयः ।
नक्षत्रमय एवैष पुरुषः शाश्वतो मतः ॥२९॥
नक्षत्रपुरुषाख्यं हि व्रतानामुत्तमं व्रतम् ।
पूर्वं कृतं हि भृगुणा सर्वपातकनाशनम् ॥३०॥
अङ्गोपाङ्गानि देवर्षे पूजयित्वा जगदगुरोः ।
सुरुपाण्यभिजायन्ते प्रत्यङ्गाड्गानि चैव हि ॥३१॥
सप्तजन्मकृतं पापं कुलसंगागतं च यत् ।
पितृमातृसमुत्थं च तत्सर्वं हन्ति केशवः ॥३२॥
सर्वाणि भद्राण्याप्नोति शरीरारोग्यमुत्तमम् ।
अनन्तां मनसः प्रीतिं रुपं चातीव शोभनम् ॥३३॥
वाड्माधुर्यं तथा कान्तिं यच्चान्यदभिवाञ्छितम् ।
ददाति नक्षत्रपुमान् पूजितस्तु जनार्दनः ॥३४॥
उपोष्य सम्यगेतेषु क्रमेणर्क्षेषु नारद ।
अरुन्धती महाभागा ख्याति मग्र्यां जगाम ह ॥३५॥
आदित्यस्तनयार्थाय नक्षत्राङ्गं जनार्दनम् ।
सम्पूजयित्वा गोविन्दं रेवन्तं पुत्रमाप्तवान् ॥३६॥
रम्भा रुपमवापाग्र्यं च मेनका ।
कान्तिं विधुरवापाग्र्यां राज्यं राजा पुरुरवाः ॥३७॥
एवं विधानतो ब्रह्मन्नक्षत्राङ्गो जनार्दनः ।
पूजितो रुपधारी यैस्तैः प्राप्ता तु सुकामिता ॥३८॥
एतत् तवोक्तं परमं पवित्रं धन्यं यशस्यं शुभरुपदायि ।
नक्षत्रपुंसः परमं विधानं श्रृणुष्व पुण्यामिह तीर्थयात्राम् ॥३९॥