पुलस्त्य उवाच
तस्मिंस्तीर्थवरे स्त्रात्वा दृष्ट्वा देवं त्रिलोचनम् ।
पूजयित्वा सुवर्णाक्षं नैमिषं प्रययौ ततः ॥१॥
तत्र तीर्थसहस्त्राणि त्रिंशत्पापहराणि च ।
गोमत्याः काञ्चनाक्ष्याश्च गुरुदायाश्च मध्यतः ॥२॥
तेषु स्त्रात्वार्च्य देवेशं पीतवाससमच्युतम् ।
ऋषीनपि च सम्पूज्य नैमिषारण्यवासिनः ॥३॥
देवदेवं तथेशानं सम्पूज्य विधिना ततः ।
गयायां गोपतिं द्रष्टुंजगाम स महासुरः ॥४॥
तत्र ब्रह्मध्वजे स्त्रात्वा कृत्वा चास्य प्रदक्षिणाम् ।
पिण्डनिर्वपणं पुण्यं पितृणां स चकार ह ॥५॥
उदपाने तथा स्त्रात्वा तत्राभ्यर्च्य पितृन वशी ।
गदापाणिं समभ्यर्च्य गोपतिं चापि शङ्करम् ॥६॥
इन्द्रतीर्थे तथा स्त्रात्वा संतर्प्य पितृदेवताः ।
महानदीजले स्त्रात्वा सरयूमाजगाम सः ॥७॥
तस्यां स्त्रात्वा समभ्यर्च्य गोप्रतारे कुशेशयम् ।
उपोष्य रजनीमेकां विरजां नगरीं ययौ ॥८॥
स्त्रात्वा विरजसे तीर्थे दत्त्वा पिण्डं पितृंस्तथा ।
दर्शनार्थं ययौ श्रीमानजितं पुरुषोत्तमम् ॥९॥
तं दृष्ट्वा पुण्डरीकाक्षमक्षरं परमं शुचिः ।
षडरात्रमुष्य तत्रैव महेन्द्रं दक्षिणं ययौ ॥१०॥
तत्र देववरं शम्भुमर्द्धनारीश्वरं हरम् ।
दृष्ट्वार्च्य सम्पूज्य पितृन् महेन्द्रं चोत्तरं गतः ॥११॥
तत्र देववरं शम्भुं गोपालं सोमपायिनम् ।
दृष्ट्वा स्त्रात्वा सोमतीर्थे सह्याचलमुपागतः ॥१२॥
तत्र स्त्रात्वा महोदक्यां वैकुण्ठं चार्च्य भक्तितः ।
सुरान् पितृन् समभ्यर्च्य पारियात्रं गिरिं गतः ॥१३॥
तत्र स्त्रात्वा लाङ्गलिन्यां पूजयित्वाऽपराजितम् ।
कशेरुदेशं चाभ्येत्य विश्वरुपं ददर्श सः ॥१४॥
यत्र देववरः शम्भुर्गणानां तु सुपूजितम् ।
विश्वरुपमथात्मानं दर्शयामास योगवित् ॥१५॥
तत्र मड्कुणिकातोये स्त्रात्वाभ्यर्च्य महेश्वरम् ।
जगामाद्रिं स सौगन्धिं प्रह्लादो मलयाचलम् ॥१६॥
महाह्नदे ततः स्त्रात्वा पूजयित्वा च शङ्करम् ।
ततो जगाम योगात्मा द्रष्टुं विन्ध्ये सदाशिवम् ॥१७॥
ततो विपाशासलिले स्त्रात्वाभ्यर्च्य सदाशिवम् ।
त्रिरात्रं समुपोष्याथ अवन्तीं नगरीं ययौ ॥१८॥
तत्र शिप्राजले स्त्रात्वा विष्णुं सम्पूज्य भक्तितः ।
श्मशानस्थं ददर्शाथ महाकालवपुर्धरम् ॥१९॥
तस्मिन् हि सर्वसत्त्वानां तेन रुपेण शड्करः ।
तामसं रुपमास्थाय संहारं कुरुते वशी ॥२०॥
तत्रस्थेन सुरेशेन श्वेतकिर्नाम भूपतिः ।
रक्षितस्त्वन्तकं दग्ध्वा सर्वभूतापहारिणम् ॥२१॥
तत्रातिहष्टो वसति नित्यं शर्वः सहोमया ।
वृतः प्रमथकोटीभिर्बहुभिस्त्रिदशार्चितः ॥२२॥
तं दृष्ट्वाथ महाकालं कालकालान्तकान्तकम् ।
यमसंयमनं मृत्योर्मृत्युं चित्रविचित्रकम् ॥२३॥
श्मशाननिलयं शम्भुं भूतनाथं जगत्पतिम् ।
पूजयित्वा शूलधरं जगाम निषधान् प्रति ॥२४॥
तत्रामरेश्वरं देवं दृष्ट्वा सम्पूज्य भक्तितः ।
महोदयं समभ्येत्य हयग्रीवं ददर्श सः ॥२५॥
अश्वतीर्थे ततः स्त्रात्वा दृष्ट्वा च तुरगाननम् ।
श्रीधरं चैव सम्पूज्य पञ्चालविषयं ययौ ॥२६॥
तत्रेश्वरगुणैर्युक्तं पुत्रमर्थपतेरथ ।
पाञ्चालिकं वशी दृष्ट्वा प्रयागं परतो ययौ ॥२७॥
स्त्रात्वा सन्निहिते तीर्थे यामुने लोकविश्रुते ।
दृष्ट्वा वटेश्वरं रुद्रं माधवं योगशायिनम् ॥२८॥
द्वावेव भक्तितः पूज्यौ पूजयित्वा महासुरः ।
माघमासमथोपोष्य ततो वाराणसीं गतः ॥२९॥
ततोऽस्यां वरणायां च तीर्थेषु च पृथक् पृथक् ।
सर्वपापहराद्येषु स्त्रात्वाऽर्च्य पितृदेवताः ॥३०॥
प्रदक्षिणीकृत्य पुरीं पूज्याविमुक्तकेशवौ ।
लोलं दिवाकरं दृष्ट्वा ततो मधुवनं ययौ ॥३१॥
तत्र स्वयम्भुवं देवं ददर्शासुरसत्तमः ।
तमभ्यर्च्य महातेजाः पुष्करारण्यमागतम् ॥३२॥
तेषु त्रिष्वपि तीर्थेषु स्त्रात्वाऽर्च्य पितृदेवताः ।
पुष्कराक्षमयोगन्धिं ब्रह्माणं चाप्यपूजयत् ॥३३॥
ततो भूयः सरस्वत्यास्तीर्थे त्रैलोक्यविश्रुते ।
कोटितीर्थे रुद्रकोटिं ददर्श वृषभध्वजम् ॥३४॥
नैमिषेया द्विजवरा मागधेयाः ससैन्धवाः ।
धर्मारण्याः पौष्करेया दण्ड\कारण्यकास्तथा ॥३५॥
चाम्पेया भारुकच्छेया देविकातीरगाश्च ये ।
ते तत्र शङ्करं द्रष्टुं समायाता द्विजातयः ॥३६॥
कोटिसंख्यास्तपः सिद्धा हरदर्शनलालसाः ।
अहं पूर्वमहं पूर्वमित्येवं वादिनो मुने ॥३७॥
तान् संक्षुब्धान् हरो दृष्ट्वा महर्षीन् दग्धकिल्बिषान् ।
तेषामेवानुकम्पार्थं कोटिमूर्तिरभूद् भवः ॥३८॥
ततस्ते मुनयः प्रीताः सर्व एव महेश्वरम् ।
सम्पूजयन्तस्तस्थुर्वै तीर्थं कृत्वा पृथक् पृथक् ।
इत्येवं रुद्रकोटीति नाम्ना शम्भुरजायत ॥३९॥
तं ददर्श महातेजाः प्रह्लादो भक्तिमान् वशी ।
कोटितीर्थे ततः स्त्रात्वा तर्पयित्वा वसून् पितृन् ।
रुद्रकोटिं समभ्यर्च्य जगाम कुरुजाङ्गलम् ॥४०॥
तत्र देववरं स्थाणुं शड्करं पार्वतीप्रियम् ।
सरस्वतीजले मग्नं ददर्श सुरपूजितम् ॥४१॥
सारस्वतेऽम्भसिस्त्रात्वा स्थाणुं सम्पूज्य भक्तितः ।
स्त्रात्वा दशाश्वमेधे च सम्पूज्य च सुरान् पितृन् ॥४२॥
सहस्त्रलिङ्गं सम्पूज्य स्त्रात्वा कन्याहदे शुचिः ।
अभिवाद्य गुरुं शुक्रं सोमतीर्थं जगाम ह ॥४३॥
तत्र स्त्रात्वाऽर्च्यच पितृन् सोमं सम्पूज्य भक्तितः ।
क्षीरिकावासमभ्येत्य स्त्रानं चक्रे महायशाः ॥४४॥
प्रदक्षिणीकृत्य तरुं वरुणं चार्च्य बुद्धिमान् ।
भूयः कुरुध्वजं दृष्ट्वा पद्माख्यां नगरीं गतः ॥४५॥
तत्रार्च्य मित्रावरुणौ भास्करौ लोकपूजितौ ।
कुमारधारामभ्येत्य ददर्श स्वामिनं वशी ॥४६॥
स्त्रात्वाकपिलधारायां संतर्प्यार्च्य पितृन् सुरान् ।
दृष्ट्वा स्कन्दं समभ्यर्च्य नर्मदायां जगाम ह ॥४७॥
तस्यां स्त्रात्वा समभ्यर्च्य वासुदेवं श्रियः पतिम् ।
जगाम भूधरं द्रष्टुं वाराहं चक्रधारिणम् ॥४८॥
स्त्रात्वा कोकामुखे तीर्थे सम्पूज्य धरणीधरम् ।
त्रिसौवर्णं महादेवमर्बुदेशं जगाम ह ॥४९॥
तत्र नारीह्नदे स्त्रात्वा पूजयित्वा च शङ्करम् ।
कालिञ्जरं समभ्येत्य नीलकण्ठं ददर्श सः ॥५०॥
नीलतीर्थजले स्त्रात्वा पूजयित्वा ततः शिवम् ।
जगाम सागरानूपे प्रभासे द्रष्टुमीश्वरम् ॥५१॥
स्त्रात्वा च संगमे नद्याः सरस्वत्यार्णवस्य च ।
सोमेश्वरं लोकपतिं ददर्श स कपर्दिनम् ॥५२॥
यो दक्षशापनिर्दग्धः क्षयी ताराधिपः शशी ।
आप्यायितः शङ्करेण विष्णुना सकपर्दिना ॥५३॥
तावर्च्य देवप्रवरौ प्रजगाम महालयम् ।
तत्र रुद्रं समभ्यर्च्य प्रजगामोत्तरान् कुरुन् ॥५४॥
पद्मनाभं स तत्रार्च्य सप्तगोदावरं ययौ ।
तत्र स्त्रात्वाऽर्च्य विश्वेशं भीमं त्रैलोक्यवन्दितम् ॥५५॥
गत्वा दारुवने श्रीमान् लिङ्गं स ददर्श ह ।
तमर्च्य ब्राह्मणीं गत्वा स्त्रात्वाऽर्च्य त्रिदशेश्वरम् ॥५६॥
प्लक्षावतरणं गत्वा श्रीनिवासमपूजयत् ।
ततश्च कुण्डिनं गत्वा सम्पूज्य प्राणतृप्तिदम् ॥५७॥
शूर्पारके चतुर्बाहुं पूजयित्वा विधानतः ।
मागधारण्यमासाद्य ददर्श वसुधाधिपम् ॥५८॥
तमर्चयित्वा विश्वेशं स जगाम प्रजामुखम् ।
महातीर्थे ततः स्त्रात्वा वासुदेवं प्रणम्य च ॥५९॥
शोणं सम्प्राप्य सम्पूज्य रुक्मवर्माणमीश्वरम् ।
महाकोश्यां महादेवं हंसाख्यं भक्तिमानथ ॥६०॥
पूजयित्वा जगामाथ सैन्धवारण्यमुत्तमम् ।
तत्रेश्वरं सुनेत्राख्यं शङ्खशूलधरं गुरुम् ।
पूजयित्वा महाबाहुः प्रजगाम त्रिविष्टपम् ॥६१॥
तत्र देवं महेशानं जटाधरमिति श्रुतम् ।
तं दृष्ट्वाऽर्च्य हरिं चासौ तीर्थं कनखलं ययौ ॥६२॥
तत्रार्च्य भद्रकालीशं वीरभद्रं च दानवः ।
धनाधिपं च मेघाङ्कं ययावथ गिरिव्रजम् ॥६३॥
तत्र देवं पशुपतिं लोकनाथं महेश्वरम् ।
सम्पूजयित्वा विधिवत्कामरुपं जगाम ह ॥६४॥
शशिप्रभं देववरं त्रिनेत्रं सम्पूजयित्वा सह वै मृडान्या ।
जगाम तीर्थप्रवरं महाख्यं तस्मिन् महादेवमपूजयत् सः ॥६५॥
ततस्त्रिकूटं गिरिमत्रिपुत्रं जगाम द्रष्टुं स हि चक्रपाणिनम् ।
तमीडय भक्त्या तु गजेन्द्रमोक्षणं जजाप जप्य परमं पवित्रम् ॥६६॥
तत्रोष्य दैत्येश्वरसूनुरादरान्मासत्रयं मूलफलाम्बुभक्षी ।
निवेद्य विप्रप्रवरेषु काञ्चनं जगाम घोरं स हि दण्डकं वनम् ॥६७॥
तत्र दिव्यं महाशाखं वनस्पतिवपुर्धरम् ।
ददर्श पुण्डरीकाक्षं महाश्वापदवारणम् ॥६८॥
तस्याधस्थात् त्रिरात्रं स महाभागवतोऽसुरः ।
स्थितः स्थण्डिलशायी तु पठन् सारस्वतं स्तवम् ॥६९॥
तस्मात् तीर्थवरं विद्वान् सर्वपापप्रमोचनम् ।
जगाम दानवो द्रष्टुं सर्वपापहरं हरिम् ॥७०॥
तस्याग्रतो जजापासौ स्तवौ पापप्रणाशनौ ।
यौ पुरा भगवान् प्राह क्रोडरुपी जनार्दनः ॥७१॥
तस्मादथागाद दैत्येन्द्रः शालग्रामं महाफलम् ।
यत्र संनिहितो विष्णुश्चरेषु स्थावरेषु च ॥७२॥
तत्र सर्वगतं विष्णुं मत्वा चक्रे रतिं बली ।
पूजयन् भगवत्पादौ महाभागवतो मुने ॥७३॥
इयं तवोक्ता मुनिसंघजुष्टा प्रह्लादतीर्थानुगतिः सुपुण्या ।
यत्कीर्त्तनाच्छ्रवणात् स्पर्शनाच्च विमुक्तपापा मनुजा भवन्ति ॥७४॥