पुलस्त्य उवाच
जटाधरं हरिर्दृष्ट्वा क्रोधादारक्तलोचनम् ।
तस्मात् स्थानादपाक्रम्य कुब्जाग्रेऽन्तर्हितः स्थितः ॥१॥
वसवोऽष्टौ हरं दृष्ट्वा सुस्त्रुवुर्वेगतो मुने ।
सा तु जाता सरिच्छ्रेष्ठा सीता नाम सरस्वती ॥२॥
एकादश तथा रुद्रास्त्रिनेत्रा वृषकेतनाः ।
कान्दिशीका लयं जग्मुः समभ्येत्यैव शंकरम् ॥३॥
विश्वेऽश्विनौ च साध्याश्च मरुतोऽनलभास्कराः ।
समासाद्य पुरोडाशं भक्षयन्तो महामुने ॥४॥
चन्द्रः सममृक्षगणैर्निशां समुपदर्शयन् ।
उत्पत्यारुह्य गगनं स्वमधिष्ठानमास्थितः ॥५॥
कश्यपाद्याश्च ऋषयो जपन्तः शतरुद्रियम् ।
पुष्पाञ्जलिपुटा भूत्वा प्रणताः संस्थिता मुने ॥६॥
असकृद् दक्षदयिता दृष्ट्वा रुद्रं बलाधिकम् ।
शक्रादीनां सुरेशानां कृपणं विललाप ह ॥७॥
ततः क्रोधाभिभूतेन शंकरेण महात्मना ।
तलप्रहारैरमरा बहवो विनिपातिताः ॥८॥
पादप्रहारैरपरे त्रिशूलेनापरे मुने ।
दृष्ट्यग्निना तथैवान्ये देवाद्याः प्रलयीकृताः ॥९॥
ततः पूषा हरं वीक्ष्य विनिघ्नन्तं सुरासुरान् ।
क्रोधाद बाहू प्रसार्याथ प्रदुद्राव महेश्वरम् ॥१०॥
तमापतन्तं भगवान् संनिरीक्ष्य त्रिलोचनः ।
बाहुभ्यां प्रतिजग्राह करेणैकेन शंकरः ॥११॥
कराभ्यां प्रगृहीतस्य शंभुनांशुभतोऽपि हि ।
कराङ्गुलिभ्यो निश्चेरुसृग्धाराः समन्ततः ॥१२॥
ततो वेगेन महता अंशुमन्तं दिवाकरम् ।
भ्रामयामास सततं सिंहो मृगशिशुं यथा ॥१३॥
भ्रामितस्यातिवेगेन नारदांशुमतोऽपि हि ।
भुजौ हस्वत्वमापन्नौ त्रुटितस्त्रायुबन्धनौ ॥१४॥
रुधिराप्लुतसर्वाङ्गमंशुमन्तं महेश्वरः ।
संनिरीक्ष्योत्ससर्जैनमन्यतोऽभिजगाम ह ॥१५॥
ततस्तु पूषा विहसन् दशनानि विदर्शयन् ।
प्रोवाचैह्येहि कापालिन् पुनः पुनरथेश्वरम् ॥१६॥
ततः क्रोधाभीभूतेन पूष्पो वेगेन शंभुना ।
मुष्टिनाहत्य दशनाः पातिता धरणीतले ॥१७॥
भग्नदन्तस्तथा पूषा शोणिताभिप्लुताननः ।
पपात भुवि निः संज्ञो वज्राहत इवाचलः ॥१८॥
भगोऽभिवीक्ष्य पूषाणं पतितं रुधिरोक्षितम् ।
नेत्राभ्यां घोररुपाभ्यां वृषध्वजमवैक्षत ॥१९॥
त्रिपुरघ्नस्ततः क्रुद्धस्तलेनाहत्य चक्षुषी ।
निपातयामास भुवि क्षोभयन् सर्वदेवताः ॥२०॥
ततो दिवाकराः सर्वे पुरस्कृत्य शतक्रतुम् ।
मरुद्भिश्च हुताशैश्च भयाज्जग्मुर्दिशो दश ॥२१॥
प्रतियातेषु देवेषु प्रह्लादाद्या दितीश्वराः ।
नमस्कृत्य ततः सर्वे तस्थुः प्राञ्जलयो मुने ॥२२॥
ततस्तं यज्ञवाटं तु शंकरो घोरचक्षुषा ।
ददर्श दग्धुं कोपेन सर्वांश्चैव सुरासुरान् ॥२३॥
ततो निलिल्यिरे वीराः प्रणेमुर्दुद्रुवुस्तथा ।
भयादन्ये हरं दृष्ट्वा गता वैवस्वतक्षयम् ॥२४॥
त्रयोऽग्नयस्त्रिभिर्नेत्रैर्दुःसहं समवैक्षत ।
दृष्टमात्रास्त्रिनेत्रेण भस्मीभूताभवन् क्षणात् ॥२५॥
अग्नौ प्रणष्टे यज्ञोऽपि भूत्वा दिव्यवपुर्मृगः ।
दुद्राव विक्लवगतिर्दक्षिणासहितोऽम्बरे ॥२६॥
तमेवानुससारेशश्चापमानम्य वेगवान् ।
शरं पाशुपतं कृत्वा कालरुपी महेश्वरः ॥२७॥
अर्द्धेन यज्ञवाटान्ते जटाधर इति श्रुतः ।
अर्द्धेन गगने शर्वः कालरुपी च कथ्यते ॥२८॥
नारद उवाच
कालरुपी त्वयाख्यातः शंभुर्गगनगोचरः ।
लक्षणं च स्वरुपं च सर्वं व्याख्यातुमर्हसि ॥२९॥
पुलस्त्य उवाच
स्वरुपं त्रिपुरघ्नस्य वदिष्ये कालरुपिणः ।
येनाम्बरं मुनिश्रेष्ठ व्याप्तं लोकहितेप्सुना ॥३०॥
यत्राश्विनी च भरणी कृत्तिकायास्तथांशकः ।
मेषो राशिः कुजक्षेत्रं तच्छिरः कालरुपिणः ॥३१॥
आग्नेयांशास्त्रयो ब्रह्मन् प्राजापत्यं कवेर्गृहम् ।
सौम्यार्द्धं वृषनामेदं वदनं परिकीर्तितम् ॥३२॥
मृगार्द्धमार्द्रादित्याशांस्त्रयः सौम्यगृहं त्विदम् ।
मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः ॥३३॥
आदित्यांशश्च पुष्यं च आश्लेशा शशिनो गृहम् ।
राशिः कर्कटको नाम पार्श्वे मखविनाशिनः ॥३४॥
पित्र्यर्क्षं भगदैवत्यमुत्तरांशश्च केसरी ।
सूर्यक्षेत्रं विभोर्ब्रह्मन् हदयं परिगीयते ॥३५॥
उत्तरांशास्त्रयः पाणिश्चित्रार्धं कन्यका त्वियम् ।
सोमपुत्रस्य सद्मैतद् द्वितीयं जठरं विभोः ॥३६॥
चित्रांशद्वितयं स्वातिर्विशाखायांशकत्रयम् ।
द्वितीयं शुक्रसदनं तुला नाभिरुदाहता ॥३७॥
विशाखांशमनूराधा ज्येष्ठा भौमगृहं त्विदम् ।
द्वितीयं वृश्चिको राशिर्मेढ़्रं कालस्वरुपिणः ॥३८॥
मूलं पूर्वोत्तरांशश्च देवाचार्यगृहं धनुः ।
ऊरुयुगलमीशस्य अमरर्षे प्रगीयते ॥३९॥
उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने ।
धनिष्ठार्थं शनिक्षेत्रं जानुनी परमेष्ठिनः ॥४०॥
धनिष्ठार्धं शतभिषा प्रौष्ठपद्यांशकत्रयम् ।
सौरेः सद्मापरमिदं कुम्भो जङ्घें च विश्रुते ॥४१॥
प्रौष्ठपद्यांशमेकं तु उत्तरा रेवती तथा ।
द्वितीयं जीवसदनं मीनस्तु चरणावुभौ ॥४२॥
एवं कृत्वा कालरुपं त्रिनेत्रो यज्ञं क्रोधान्मार्गणैराजघान ।
विद्धश्चासौ वेदनाबुद्धिमुक्तः खे संतस्थौ तारकाभिश्चिताङ्गः ॥४३॥
नारद उवाच
राशयो गदिता ब्रह्मंस्त्वया द्वादश वै मम ।
तेषां विशेषतो ब्रूहि लक्षणानि स्वरुपतः ॥४४॥
पुलस्त्य उवाच
स्वरुपं तव वक्ष्यामि राशीनां श्रृणु नारद ।
यादृशा यत्र संचारा यस्मिन् स्थाने वसन्ति च ॥४५॥
मेषः समानमूर्तिश्च अजाविकधनादिषु ।
संचारस्थानमेवास्य धान्यरत्नाकरादिषु ॥४६॥
नवशाद्वलसंछन्नवसुधायां च सर्वशः ।
नित्यं चरति फुल्लेषु सरसां पुलिनेषु च ॥४७॥
वृषः सदृशरुपो हि चरते गोकुलादिषु ।
तस्याधिवासभूमिस्तु कृषीवलधराश्रयः ॥४८॥
स्त्रीपुंसयोः समं रुपं शय्यासनपरिग्रहः ।
वीणावाद्यधृड़ः मिथुनं गीतनर्तकशिल्पिषु ॥४९॥
स्थितः क्रीडारतिर्नित्यं विहारावनिरस्य तु ।
मिथुनं नाम विख्यातं राशिर्द्वधात्मकः स्थितः ॥५०॥
कर्कः कुलीरेण समः सलिलस्थः प्रकीर्तितः ।
केदारवापीपुलिने विविक्तावनिरेव च ॥५१॥
सिंहस्तु पर्वतारण्यदुर्गकन्दरभूमिषु ।
वसते व्याधपल्लीषु गह्वरेषु गुहासु च ॥५२॥
ब्रीहिप्रदीपिककरा नावारुढा च कन्यका ।
चरते स्त्रीरतिस्थाने वसते नडवलेषु च ॥५३॥
तुलापाणिश्च पुरुषो वीथ्यापणविचारकः ।
नगराध्वानशालासु वसते तत्र नारद ॥५४॥
श्वभ्रवल्मीकसंचारी वृश्चिको वृश्चिकाकृतिः ।
विषगोमयकीटादिपाषाणादिषु संस्थितः ॥५५॥
धनुस्तुरङ्गजघनो दीप्यमानो धनुर्धरः ।
वाजिशूरास्त्रविद्वीरः स्थायी गजरथादिषु ॥५६॥
मृगास्यो मकरो ब्रह्मन् वृषस्कन्धेक्षणाङ्गजः ।
मकरोऽसौ नदौचारी वसते च महौदधौ ॥५७॥
रिक्तकुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः ।
द्यूतशालाचरः कुम्भः स्थायी शौण्डिकसद्मसु ॥५८॥
मीनद्वयमथासक्तं मीनस्तीर्थाब्धिसंचरः ।
वसते पुण्यदेशेषु देवब्राह्मणसद्मसु ॥५९॥
लक्षणा गदितास्तुभ्यं मेषादीनां महामुने ।
न कस्यचित् त्वयाख्येयं गुह्यमेतत्पुरातनम् ॥६०॥
एतन् मया ते कथितं सुरर्षे यथा त्रिनेत्रः प्रममाथ यज्ञम् ।
पुण्यं पुराणं परमं पवित्रमाख्यातवान्पापहरं शिवं च ॥६१॥