लोमहर्षण उवाच
ततो रामहदं गच्छेत् तीर्थसेवी द्विजोत्तमः ।
यत्र रामेण विप्रेण तरसा दीप्ततेजसा ॥१॥
क्षत्रमुत्साद्य वीरेण हदाः पञ्च निवेशिताः ।
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ॥२॥
पितरस्तर्पितास्तेन तथैव प्रपितामहाः ।
ततस्ते पितरः प्रीता राममूचुर्द्विजोत्तमाः ॥३॥
राम राम महाबाहो प्रीताः स्मस्तव भार्गव ।
अनया पितृभक्त्या च विक्रमेण च ते विभो ॥४॥
वरं वृणीष्व भद्रं ते किमिच्छसि महायशः ।
एवमुक्तस्तु पितृभी रामः प्रभवतां वरः ॥५॥
अब्रवीत् प्राञ्जलिर्वाक्यं स पितृन् गगने स्थितान् ।
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि ॥६॥
पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ।
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ॥७॥
ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ।
हदाश्चैते तीर्थभूता भवेयुर्भुवि विश्रुताः ॥८॥
एवमुक्ताः शुभं वाक्यं रामस्य पितरस्तदा ।
प्रत्यूचुः परमप्रीता रामं हर्षपुरस्कृताः ॥९॥
तपस्ते वर्द्धतां पुत्र पितृभक्त्या विशेषतः ।
यच्च रोषभिभूतेन क्षत्रमुत्सादितं त्वया ॥१०॥
ततश्च पापान्मुक्तस्त्वं पातितास्ते स्वकर्मभिः ।
हदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ॥११॥
हदेष्वेतेषु ये स्त्रात्वा स्वान् पितृंस्तर्पयन्ति च ।
तेभ्यो दास्यन्ति पितरो यथाभिलषितं वरम् ॥१२॥
ईप्सितान् मानसान् कामान् स्वर्गवासं च शाश्वतम् ।
एवं दत्त्वा वरान् विप्रा रामस्य पितरस्तदा ॥१३॥
आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्हितास्तदा ।
एवं रामहदाः पुण्या भार्गवस्य महात्मनः ॥!४॥
स्त्रात्वा हदेषु रामस्य ब्रह्मचारी शुचिव्रतः ।
राममभ्यर्च्य श्रद्धवान् विन्देद बहु सुवर्णकम् ॥१५॥
वंशमूलं समासाद्य तीर्थसेवी सुसंयतः ।
स्ववंशसिद्धये विप्राः स्त्रात्वा वै वंशमूलके ॥१६॥
कायशोधनमासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।
शरीरशुद्धिमाप्नोति स्त्रातस्तस्मिन् न संशयः ॥१७॥
शुद्धदेहश्च तं याति यस्मान्नावर्तते पुनः ।
तावद भ्रमन्ति तीर्थेषु सिद्धास्तीर्थपरायणाः ।
यावन्न प्राप्नुवन्तीह तीर्थं तत्कायशोधनम् ॥१८॥
तस्मिंस्तीर्थे च संप्लाव्य कायं संयतमानसः ।
परं पदमवाप्नोति यस्मान्नावर्तते पुनः ॥१९॥
ततो गच्छेत विप्रेन्द्रास्तीर्थं त्रैलोक्यविश्रुतम् ।
लोका यत्रोद्धताः सर्वे विष्णुना प्रभविष्णुना ॥२०॥
लोकोद्धारं समासाद्य तीर्थस्मरणतत्परः ।
स्त्रात्वा तीर्थवरे तस्मिन् लोकान् पश्यति शाश्वतान् ॥२१॥
यत्र विष्णुः स्थितो नित्यं शिवो देवः सनातनः ।
तौ देवौ प्रणिपातेन प्रसाद्य मुक्तिमाप्नुयात् ॥२२॥
श्रीतीर्थं तु ततो गच्छेत शालग्राममनुत्तमम् ।
तत्र स्त्रातस्य सांनिध्यं सदा देवी प्रयच्छति ॥२३॥
कपिलाहदमासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।
तत्र स्त्रात्वाऽर्चयित्वा च दैवतानि पितृंस्तथा ॥२४॥
कपिलानां सहस्त्रस्य फलं विन्दति मानवः ।
तत्र स्थितं महादेवं कापिलं वपुरास्थितम् ॥२५॥
दृष्ट्वा मुक्तिमवाप्नोति ऋषिभिः पूजितं शिवम् ।
सूर्यतीर्थं समासाद्य स्त्रात्वा नियतमानसः ॥२६॥
अर्चयित्वा पितृन् देवानुपवासपरायणः ।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥२७॥
सहस्त्रकिरणं देवं भानुं त्रैलोक्यविश्रुतम् ।
दृष्ट्वा मुक्तिमवाप्नोति नरो ज्ञानसमन्वितः ॥२८॥
भवानीवनमासाद्य तीर्थसेवी यथाक्रमम् ।
तत्राभिषेकं कुर्वाणो गोसहस्त्रफलं लभेत् ॥२९॥
पितामहस्य पिबतो ह्यमृतं पूर्वमेव हि ।
उद्गारात् सुरभिर्जाता सा च पातालमाश्रिता ॥३०॥
तस्याः सुरभयो जाताः तनया लोकमातरः ।
ताभिस्तत्सकलं व्याप्तं पातालं सुनिरन्तरम् ॥३१॥
पितामहस्य यजतो दक्षिणार्थमुपाहताः ।
आहूता ब्रह्मणा ताश्च विभ्रान्ता विवरेण हि ॥३२॥
तस्मिन् विवरद्वारे तु स्थितो गणपतिः स्वयम् ।
यं दृष्ट्वा सकलान् कामान् प्राप्नोति संयतेन्द्रियः ॥३२॥
सङ्गिनीं तु समासाद्य तीर्थं मुक्तिसमाश्रयम् ।
देव्यास्तीर्थे नरः स्नात्वा लभते रुपमुत्तमम् ॥३४॥
अनन्तां श्रियमाप्नोति पुत्रपौत्रसमन्वितः ।
भोगांश्च विपुलान् भुक्त्वा प्राप्नोति परमं पदम् ॥३५॥
ब्रह्मावर्त्ते नरः स्त्रात्वा ब्रह्मज्ञानसमन्वितः ।
भवते नात्र संदेहः प्राणान् मुञ्जति स्वेच्छया ॥३६॥
ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम् ।
तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥३७॥
तत्र स्त्रात्वा महाप्राज्ञ उपवासपरायणः ।
यक्षस्य च प्रसादेन लभते कामिकं फलम् ॥३८॥
ततो गच्छेत विप्रेन्द्रा ब्रह्मावर्त्तं मुनिस्तुतम् ।
ब्रह्मावर्त्ते नरः स्त्रात्वा ब्रह्म चाप्नोति निश्चितम् ॥३९॥
ततो गच्छेत विप्रेन्द्राः सुतीर्थकमनुत्तमम् ।
तत्र संनिहिता नित्यं पितरो दैवतैः सह ॥४०॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।
अश्वमेधमवाप्नोति पितृन् प्रीणाति शाश्वतान् ॥४१॥
ततोऽम्बुवनं धर्मज्ञ समासाद्य यथाक्रमम् ।
कामेश्वरस्य तीर्थं तु स्त्रात्त्वा श्रद्धासमन्वितः ॥४२॥
सर्वव्याधिविनिर्मुक्तो ब्रह्मावाप्तिर्भवेद ध्रुवम् ।
मातृतीर्थं च तत्रैव यत्र स्त्रातस्य भक्तितः ॥४३॥
प्रजा विवर्द्धते नित्यमनन्तां चाप्नुयाच्छ्रियम् ।
ततः शीतवनं गच्छेन्नियतो नियताशनः ॥४४॥
तीर्थं तत्र महाविप्रा महदन्यत्र दुर्लभम् ।
पुना ति दर्शनादेव दण्डकं च द्विजोत्तमाः ॥४५॥
केशानभ्युदद्ध्च वै तस्मिन् पूतो भवति पापतः ।
तत्र तीर्थवरं चान्यत् स्वानुलोमायनं महत् ॥४६॥
तत्र विप्रा महाप्राज्ञा विद्वांसस्तीर्थतत्पराः ।
स्वानुलोमायने तीर्थे विप्रास्त्रैलोक्यविश्रुते ॥४७॥
प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः ।
पूतात्मानश्च ते विप्राः प्रयान्ति परमां गतिम् ॥४८॥
दशाश्वमेधिकं चैव तत्र तीर्थं सुविश्रुतम् ।
तत्र स्त्रात्वा भक्तियुक्तस्तदेव लभते फलम् ॥४९॥
ततो गच्छेत श्रद्धावान् मानुषं लोकविश्रुतम् ।
दर्शनात् तस्य तीर्थस्य मुक्तो भवति किल्बिषैः ॥५०॥
पुरा कृष्णमृगास्तत्र व्याधेन शरपीडिताः ।
विगाह्य तस्मिन् सरसि मानुषत्वमुपागताः ॥५१॥
ततो व्याधाश्च ते सर्वे तानपृच्छन् द्विजोत्तमान् ।
मृगा अनेन वै याता अस्माभिः शरपीडिताः ॥५२॥
निमग्नास्ते सरः प्राप्य क्व ते याता द्विजोत्तमाः ।
तेऽब्रुवंस्तत्र वै पृष्टा वयं ते च द्विजोत्तमाः ॥५३॥
अस्य तीर्थस्य माहात्म्यान्मानुषत्वमुपागताः ।
तस्माद् यूयं श्रद्दधानाः स्त्रात्वा तीर्थे विमत्सराः ॥५४॥
सर्वपापविनिर्मुक्ता भविष्यथ न संशयः ।
ततः स्त्राताश्च ते सर्वे शुद्धदेहा दिवं गताः ॥५५॥
एतत तीर्थस्य माहात्म्यं मानुषस्य द्विजोत्तमाः ।
ये श्रृण्वन्ति शद्धधानास्तेऽपि यान्ति परां गतिम् ॥५६॥