लोमहर्षण उवाच
सपर्वतवनामुर्वी दृष्ट्वा संक्षुभितां बलिः ।
पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः ॥१॥
आचार्य क्षोभयामाति साब्धिभूमिधरा मही ।
कस्माच्च नासुरान् भागान् प्रतिगृह्णन्ति वह्यः ॥२॥
इति पृष्टोऽथ बलिना काव्यो वेदविदां वरः ।
उवाच दैत्याधिपतिं चिरं ध्यात्वा महामतिः ॥३॥
अवतीर्णो जगदयोनिः कश्यपस्य गृहे हरिः ।
वामनेनेह रुपेण परमात्मा सनातनः ॥४॥
स नूनं यज्ञमायाति तव दानवपुंगव ।
तत्पादन्यासविक्षोभादियं प्रचलिता मही ॥५॥
कम्पन्ते गिरयश्चेमे क्षुभिता मकरालयाः ।
नेयं भूतपतिं भूमिः समर्था वोढुमीश्वरम् ॥६॥
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः ।
अनेनैव धृता भूमिरापोऽग्निः पवनो नभः ।
धारयत्यखिलान् देवान् मनुष्यांश्च महासुरान् ॥७॥
इयमस्य जगदधातुर्माया कृष्णस्य गह्वरी ।
धार्यधारकभावेन यया संपीडितं जगत् ॥८॥
तत्संनिधानादसुरा न भागार्हाः सुरद्विषः ।
भुञ्जते नासुरान् भागानपि तेन त्रयोऽग्न्ययः ॥९॥
शुक्रस्य वचनं श्रुत्वा हष्टरोमाऽब्रवीद बलिः ।
धन्योऽहं कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम् ।
यज्ञमभ्यागतो ब्रह्मन् मत्तः कोऽन्योऽधिकः पुमान् ॥१०॥
यं योगिनः सदोद्युक्ताः परमात्मानमव्ययम् ।
द्रष्टुमिच्छन्ति देवोऽसौ ममाध्वरमुपेष्यति ।
यन्मयाचार्य कर्त्तव्यं तन्ममादेष्टुमर्हसि ॥११॥
शुक्र उवाच
यज्ञभागभुजो देवा वेदप्रामाण्यतोऽसुर ।
त्वया तु दानवा दैत्य यज्ञभागभुजः कृताः ॥१२॥
अयं च देवः सत्त्वस्थः करोति स्थितिपालनम् ।
विसृष्टं च तथाऽयं च स्वयमत्ति प्रजाः प्रभुः ॥१३॥
भवांस्तु वन्दी भविता नूनं विष्णुः स्थितौ स्थितः ।
विदित्वैवं महाभाग कुरु यत् ते मनोगतम् ॥१४॥
त्वयाऽस्य दैत्याधिपते स्वल्पकेऽपि हि वस्तुनि ।
प्रतिज्ञा नैव वोढव्या वाच्यं साम तथाऽफलम् ॥१५॥
कृतकृत्यस्य देवस्य देवार्थं चैव कुर्वतः ।
अलं दद्यां धनं देवे त्वेतद्वाच्यं तु याचतः ।
कृष्णस्य देवभूत्यर्थं प्रवृत्तस्य महासुर ॥१६॥
बलिरुवाच
ब्रह्मन् कथमहं ब्रूयामन्येनापि हि याचितः ।
नास्तीति किमु देवस्य संसारस्याघहारिणः ॥१७॥
व्रतोपवासैर्विविधैर्यः प्रभुर्गृह्यते हरिः ।
स मे वक्ष्यति देहीति गोविन्दः किमतोऽधिकम् ॥१८॥
यदर्थं सुमहारम्भा दमशौचगुणान्वितैः ।
यज्ञाः क्रियन्ते यज्ञेशः स मे देहीति वक्ष्याति ॥१९॥
तत्साधु सुकृतं कर्म तपः सुचरितं च नः ।
यन्मां देहीति विश्वेशः स्वयमेव वदिष्यति ॥२०॥
नास्तीत्यहं गुरो वक्ष्ये तमभ्यागतमीश्वरम् ।
प्राणत्यागं करिष्येऽहं न तु नास्ति जने क्वचित् ॥२१॥
नास्तीति यन्मया नोक्तमन्येषामपि याचताम् ।
वक्ष्यामि कथमायाते तदद्य चामरेऽच्युते ॥२२॥
श्लाघ्य एव हि वीराणां दानाच्चापत्समागमः ।
न बाधाकारि यद्दानं तदङ्ग बलवत् स्मृतम् ॥२३॥
मद्राज्ये नासुखी कश्चिन्न दरिद्रो न चातुरः ।
न दुःखितो न चोद्विग्नो न शमादिविवर्जितः ॥२४॥
हष्टस्तुष्टः सुगन्धी च तृप्तः सर्वसुखान्वितः ।
जनः सर्वो महाभाग किमुताहं सदा सुखी ॥२५॥
एतद्विशिष्टमत्राहं दानबीजफलं लभे ।
विदितं मुनिशार्दूल मयैतत् त्वन्मुखाच्छुतम् ॥२६॥
मत्प्रसादपरो नूनं यज्ञेनाराधितो हरिः ।
मम दानमवाप्यासौ पुष्णाति यदि देवताः ॥२७॥
एतद्वीजवरे दानबीजं पतति चेद गुरौ ।
जनार्दने महापात्रे किं न प्राप्तं ततो मया ॥२८॥
विशिष्टं मम तददानं परितुष्टाश्च देवताः ।
उपभोगाच्छतगुणं दानं सुखकरं स्मृतम् ॥२९॥
मत्प्रसादपरो नूनं यज्ञेनाराधितो हरिः ।
तेनाभ्येति न संदेहो दर्शनादुपकारकृत् ॥३०॥
अथ कोपेन चाभ्येति देवभगोपरोधतः ।
मां निहन्तुं ततो हि स्याद् वधः श्लाघ्यतरोऽच्युतात् ॥३१॥
एतञ्ज्ञात्वा मुनिश्रेष्ठ दानविघ्नकरेण मे ।
नैव भाव्यं जगन्नाथे गोविन्दे समुपस्थिते ॥३२॥
लोमहर्षण उवाच
इत्येवं वदतस्तस्य प्राप्तस्तत्र जनार्दनः ।
सर्वदेवमयोऽचिन्त्यो मायावामनरुपधृक् ॥३३॥
तं दृष्ट्वा यज्ञवाटं तु प्रविष्टमसुराः प्रभुम् ।
जग्मुः प्रभावतः क्षोभं तेजसा तस्य निष्प्रभाः ॥३४॥
जेपुश्च मुनयस्तत्र ये समेता महाध्वरे ।
वसिष्ठो गाधिजो गर्गो अन्ये च मुनिसत्तमाः ॥३५॥
बलिश्चैवाखिलं जन्म मेने सफलमात्मनः ।
ततः संक्षोभमापन्नो न कश्चित् किंचिदुक्तवान् ॥३६॥
प्रत्येकं देवदेवेशं पूजयामास तेजसा ।
अथासुरपतिं प्रह्वं दृष्ट्वा मुनिवरांश्च तान् ॥३७॥
देवदेवपतिः साक्षाद विष्णुर्वामनरुपधृक ।
तुष्टाव यज्ञं वह्निं च यजमानमथार्चितः ।
यज्ञकर्माधिकारस्थान् सदस्यान् द्रव्यसम्पदम् ॥३८॥
सदस्याः पात्रमखिलं वामनं प्रति तत्क्षणात् ।
यज्ञवाटस्थितं विप्राः साधु साध्वित्युदीरयन् ॥३९॥
स चार्घमादाय बलिः प्रोद्भूतपुलकस्तदा ।
पूजयामास गोविन्दं प्राह चेदं महासुरः ॥४०॥
बलिरुवाच
सुवर्णरत्नसंघातो गजाश्चसमितिस्तथा ।
स्त्रियो वस्त्राण्यलंकारान् गावो ग्रामाश्च पुष्कलाः ॥४१॥
सर्वे च सकला पृथ्वी भवतो वा यदीप्सितम् ।
तद ददामि वृणुष्वेष्टं ममार्थाः सन्ति ते प्रियाः ॥४२॥
इत्युक्तो दैत्यपतिना प्रीतिगर्भान्वितं वचः ।
प्राह सस्मितगम्भीरं भगवान् वामनाकृतिः ॥४३॥
ममाग्निशरणार्थाय देहि राजन् पदत्रयम् ।
सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् ॥४४॥
बलिरुवाच
त्रिभिः प्रयोजनं किं ते पदैः पदवतां वर ।
शतं शतसहस्त्रं वा पदानां मार्गतां भवान् ॥४५॥
श्रीवामन उवाच
एतावता दैत्यपते कृतकृत्योऽस्मि मार्गणे ।
अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ॥४६॥
एतच्छुत्वा तु गदितं वामनस्य महात्मनः ।
वाचयामास वै तस्मै वामनाय महात्मने ॥४७॥
पाणौ तु पतिते तोये वामनोऽभूदवामनः ।
सर्वदेवमयणं रुपं दर्शयामास तत्क्षणात् ॥४८॥
चन्द्रसूर्या तु नयने द्यौः शिरश्चरणौ क्षितिः ।
पादाङ्गुल्यः पिशाचास्तु हस्ताङ्गुल्यश्च गुह्यकाः ॥४९॥
विश्वेदेवाव्श्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।
यक्षा नखेषु सम्भूता रेखास्वप्सरसस्तथा ॥५०॥
दृष्टिऋक्षाण्यशेषाणि केशाः सूर्यांशवः प्रभोः ।
तारका रोमकूपाणि रोमेषु च महर्षयः ॥५१॥
बाहवो विदिशस्तस्य दिशः श्रोत्रे महात्मनः ।
अश्विनौ श्रवणे तस्य नासा वायुर्महात्मनः ॥५२॥
प्रसादे चन्द्रमा देवो मनो धर्मः समाश्रितः ।
सत्यमस्याभवद वाणी जिह्वा देवी सरस्वती ॥५३॥
ग्रीवाऽदितिर्देवमाता विद्यास्तद्वलयस्तथा ।
स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ॥५४॥
मुखे वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ।
हदयं च परं ब्रह्म पुंस्त्वं वै कश्यपौ मुनिः ॥५५॥
पृष्ठेऽस्य वसवो देवा मरुतः सर्वसन्धिषु ।
वक्षः स्थले तथा रुद्रो धैर्ये चास्य महार्णवः ॥५६॥
उदरे चास्य गन्धर्वा मरुतश्च महाबलाः ।
लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ॥५७॥
सर्वज्योतीषि यानीह तपश्च परमं महत् ।
तस्य देवाधिदेवस्य तेजः प्रोद्भूतमुत्तमम् ॥५८॥
तनौ कुक्षिषु वेदाश्च जानुनी च महामखाः ।
इष्टयः पशवश्चास्य द्विजानां चेष्टितानि च ॥५९॥
तस्य देवमयं रुपं दृष्ट्वा विष्णोर्महात्मनः ।
उपसर्पन्ति ते दैत्याः पतङ्गा इव पावकम् ॥६०॥
चिक्षुरस्तु महादैत्यः पादाङ्गुष्ठं गृहीतवान् ।
दन्ताभ्यां तस्य वै ग्रीवामङ्गुष्ठेनाहनद्धरिः ॥६१॥
प्रमथ्य सर्वनसुरान् पादहस्ततलैर्विभुः ।
कृत्वा रुपं महाकायं संजहाराशु मेदिनीम् ॥६२॥
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभो विक्रममाणस्य सक्थिदेशे स्थितावुभौ ॥६३॥
परं विक्रममाणस्य सक्थिदेशे स्थितावुभौ ॥६३॥
परं विक्रममाणस्य जानुमूले प्रभाकरौ ।
विष्णोरास्तां स्थितस्यैतौ देवपालनकर्मणि ॥६४॥
जित्वा लोकत्रयं तांश्च हत्वा चासुरपुंगवान ।
पुरंदराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥६५॥
सुतलं नाम पातालमधस्ताद वसुधातलात् ।
बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ॥६६॥
अथ दैत्येश्वरं प्राह विष्णुः सर्वेश्वरेश्वरः ।
तत त्वया सलिलं दत्तं गृहीतं पाणिना मया ॥६७॥
कल्पप्रमाणं तस्मात् ते भविष्यत्यायुरुत्तमम् ।
वैवस्वते तथाऽतीते काले मन्वन्तरे तथा ॥६८॥
सावर्णिके तु संप्राप्ते भवानिद्रो भविष्यति ।
इदानीं भुवनं सर्वं दत्तं शक्राय वै पुरा ॥६९॥
चतुर्युगव्यवस्था च साधिका ह्येकसप्ततिः ।
नियन्तव्या मया सर्व ये तस्य परिपन्थिनः ॥७०॥
तेनाहं परया भक्त्या पूर्वमाराधितो बले ।
सुतलं नाम पातालं समासाद्य वचो मम ॥७१॥
वसासुर ममादेशं यथावत्परिपालयन् ।
तत्र देवसुखोपेते प्रासादशतसंकुले ॥७२॥
प्रोत्फुल्लपदमसरसि हदशुद्धसरिदवरे ।
सुगन्धी रुपसम्पन्नो वराभरणभूषितः ॥७३॥
स्त्रकचन्द्रनादिदिग्धाङ्गो नृत्यगीतमनोहरान् ।
उपभुञ्जन् महाभोगान् विविधान् दानवेश्वरः ॥७४॥
ममाज्ञया कालामिमं तिष्ठ स्त्रीशतसंवृतः ।
यावत्सुरैश्च विप्रैश्च न विरोधं गमिष्यसि ॥७५॥
तावत् त्वं भुड्क्षव संभोगान् सर्वकामसमन्वितान् ।
यदा सुरैश्च विप्रैश्च विरोधं त्वं करिष्यसि ।
बन्धिष्यन्ति तदा पाशा वारुणा घोरदर्शनाः ॥७६॥
बलिरुवाच
तत्रासतो मे पाताले भगवन् भवदाज्ञया ।
किं भविष्यत्युपादानमुपभोगोपपादकम् ।
आप्यायितो येन देव स्मरेयं त्वमहं सदा ॥७७॥
श्रीभगवानुवाच
दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च ।
हुतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ॥७८॥
अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः ।
फलानि तव दास्यन्ति अधीतान्यव्रतानि च ॥७९॥
उदकेन विना पूजा विना दर्भेण या क्रिया ।
आज्येन च विना होमं फलं दास्यन्ति ते बले ॥८०॥
यश्चेदं स्थानमाश्रित्य क्रियाः काश्चित् करिष्यति ।
न तत्र चासुरो भागो भविष्यति कदाचन ॥८१॥
ज्येष्ठाश्रमे महापुण्ये तथा विष्णुपदे ह्नदे ।
ये च श्राद्धानि दास्यन्ति व्रतं नियममेव च ॥८२॥
क्रिया कृता च या काचिद विधिनाऽविधिनापि वा ।
सर्वं तदक्षयं तस्य भविष्यति न संशयः ॥८३॥
ज्येष्ठे मासि सिते पक्षे एकादश्यामुपोषितः ।
द्वादश्यां वामनं दृष्टवा स्त्रात्वा विष्णुपदे हदे ।
दानं दत्त्वा यथाशक्त्या प्राप्नोति परमं पदम् ॥८४॥
लोमहर्षण उवाच
बलेर्वरमिमं दत्त्वा शक्राय च त्रिविष्टपम् ।
व्यापिना तेन रुपेण जगामादर्शनं हरिः ॥८५॥
शशास च यथापूर्वमिन्द्रस्त्रैलोक्यमूर्जितः ।
निः शेषं च तदा कालं बलिः पातालमास्थितः ॥८६॥
इत्येतत कथितं तस्य विष्णोर्माहात्म्युमुत्तमम् ।
श्रृणुयाद्यो वामनस्य सर्वपापैः प्रमुच्यते ॥८७॥
बलिप्रह्लादसंवादं मन्त्रितं बलिशुक्रयोः ।
बलेर्विष्णोश्च चरितं ये स्मरिघ्यन्ति मानवाः ॥८८॥
नाधयो व्याधयस्तेषां न च मोहाकुलं मनः ।
भविष्यति द्विजश्रेष्ठाः पुंसस्तस्य कदाचन ॥८९॥
च्युतराज्यो निजं राज्यमिष्टप्राप्तिं वियोगवान् ।
समाप्नोति महाभागा नरः श्रुत्वा कथामिमाम् ॥९०॥
ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम् ।
वैश्यो धनसमृद्धिं च शूद्रः सुखमवाप्नुयात् ।
वामनस्य च माहात्म्यं श्रृण्वन् पापैः प्रमुच्यते ॥९१॥