पुलस्त्य उवाच
ततः सुकेशिर्देवर्षे गत्वा स्वपुरमुत्तमम् ।
समाहूयाब्रवीत् सर्वान् राक्षसान् धार्मिकं वचः ॥१॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ।
दानं दया च क्षान्तिश्च ब्रह्मचर्यममानिता ॥२॥
शुभा सत्या च मधुरा वाड् नित्यं सत्क्रियारतिः ।
सदाचारनिषेवित्वं परलोकप्रदायकाः ॥३॥
इत्यूचुर्मुनयो मह्यं धर्ममाद्यं पुरातनम् ।
सोहमाज्ञापये सर्वान् क्रियतामविकल्पतः ॥४॥
पुलस्त्य उवाच
ततः सुकेशिवचनात् सर्व एव निशाचराः ।
त्रयोदशाङ्गं ते धर्मं चक्रुर्मुदितमानसाः ॥५॥
ततः प्रवृद्धिं सुतरामगच्छन्त निशाचराः ।
पुत्रपौत्रार्थसंयुक्ताः सदाचारसमन्विताः ॥६॥
तज्ज्योतिस्तेजसस्तेषां राक्षसानां महात्मनाम् ।
गन्तुं नाशक्नुवन् सूर्यो नक्षत्राणि न चन्द्रमाः ॥७॥
ततस्त्रिभुवने ब्रह्मन् निशाचरपुरोऽभवत् ।
दिवा चन्द्रस्य सदृशः क्षणदायां च सूर्यवत् ॥८॥
न ज्ञायते गतिर्व्योम्नि भास्करस्य ततोऽम्बरे ।
शशाङ्कमिति तेजस्त्वादमन्यन्त पुरोत्तमम् ॥९॥
स्वं विकासं विमुञ्चन्ति निशामिति व्यचिन्तयन् ।
कमलाकरेषु कमला मित्रमित्यवगम्य हि ।
रात्रौ विकसिता ब्रह्मन् विभूतिं दातुमीप्सवः ॥१०॥
कौशिका रात्रिसमयं बुद्ध्वा निरगमन् किल ।
तान् वयसास्तदा ज्ञात्वा दिवा निघ्नन्ति कौशिकान् ॥११॥
स्नातकास्त्वापगास्वेव स्नानजप्यपरायणाः ।
आकण्ठमग्नास्तिष्ठन्ति रात्रौ ज्ञात्वाऽथ वासरम् ॥१२॥
न व्यजुज्यन्त चक्राश्च तदा वै पुरदर्शने ।
मन्यमानास्तु दिवसमिदमुच्चैर्बुवन्ति च ॥१३॥
नूनं कान्ताविहीनेन केनचिच्चक्रपत्त्रिणा ।
उत्सृष्टं जीवितं शून्ये फूत्कृत्य सरितस्तटे ॥१४॥
ततोऽनुकृपयाविष्टो विवस्वांस्तीव्ररश्मिभिः ।
संतापयञ्जगत् सर्वं नास्तमेति कथंचन ॥१५॥
अन्ये वदन्ति चक्राह्वो नूनं कश्चिन् मृतो भवेत् ।
तत्कान्तया तपस्तप्तं भर्तृशोकार्त्तया बत ॥१६॥
आराधितस्तु भगवांस्तपसा वै दिवाकरः ।
तेनासौ शशिनिर्जेता नास्तमेति रविर्ध्रुवम् ॥१७॥
यज्विनो होमशालासु सह ऋत्विग्भिरध्वरे ।
प्रावर्त्तयन्त कर्माणि रात्रावपि महामुने ॥१८॥
महाभागवताः पूजां विष्णोः कुर्वन्ति भक्तितः ।
रवौ शशिनि चैवान्ये ब्रह्मणोऽन्ये हरस्य च ॥१९॥
कामिनश्चाप्यमन्यन्त साधु चन्द्रमसा कृतम् ।
यदियं रजनी रम्या कृता सततकौमुदी ॥२०॥
अन्ये ब्रुवँल्लोकगुरुरस्माभिश्चक्रभृद वशी ।
निर्व्याजेन महागन्धैरर्चितः कुसुमैः शुभैः ॥२१॥
सह लक्ष्म्या महायोगी नभस्यादिचतुर्ष्वपि ।
अशून्यशयना नाम द्वितीया सर्वकामदा ॥२२॥
तेनासौ भगवान् प्रीतः प्रादाच्छयनमुत्तमम् ।
अशून्यं च महाभोगैरनस्तमितशेखरम् ॥२३॥
अन्येऽब्रुवन् ध्रुवं देव्या रोहिण्या शशिनः क्षयम् ।
दृष्ट्वा तप्तं तपो घोरं रुद्राराधनकाम्यया ॥२४॥
पुण्यायामक्षयाष्टम्यां वेदोक्तविधिना स्वयम् ।
तुष्टेन शंभुना दत्तं वरं चास्यै यदृच्छया ॥२५॥
अन्येब्रुवन् चन्द्रमसा ध्रुवमाराधितो हरिः ।
व्रतेनेह त्वखण्डेन तेनाखण्डः शशी दिवि ॥२६॥
अन्ये ब्रुवञ्छशाङ्केन ध्रुवं रक्षा कृतात्मनः ।
पदद्वयं समभ्यर्च्य विष्णोरमिततेजसः ॥२७॥
तेनासौ दीप्तिमांश्चन्द्रः परिभूय दिवाकरम् ।
अस्माकमानन्दकरो दिवा तपति सूर्यवत् ॥२८॥
लक्ष्यते का रणैरन्यैर्बहुभिः सत्यमेव हि ।
शशाङ्कनिर्जितः सूर्यो न विभाति यथा पूरा ॥२९॥
यथामी कमलाः श्लक्ष्णा रणद्भृङ्गगणावृताः ।
विकचाः प्रतिभासन्ते जातः सूर्योदयो ध्रुवम् ॥३०॥
यथा चामी विभासन्ति विकचाः कुमुदाकराः ।
अतो विज्ञायते चन्द्र उदितश्च प्रतापवान् ॥३१॥
एवं संभाषतां तत्र सूर्यो वाक्यानि नारद ।
अमन्यत किमेतद्धि लोको वक्ति शुभाशुभम् ॥३२॥
एवं संचिन्त्य भगवान् दध्यौ ध्यानं दिवाकरः ।
आसमन्ताज्जगद ग्रस्तं त्रैलोक्यं रजनीचरैः ॥३३॥
ततस्तु भगवाञ्ज्ञात्वा तेजसोऽप्यसहिष्णुताम् ।
निशाचरस्य वृद्धिं तामचिन्तयत योगवित् ॥३४॥
ततोऽज्ञासीच्च तान् सर्वान् सदाचाररताञ्शुचीन् ।
देवब्राह्मणपूजासु संसक्तान् धर्मसंयुतान् ॥३५॥
ततस्तु रक्षः क्षयकृत तिमिद्विपकेसरी ।
महांशुनखरः सूर्यस्तदविघातमचिन्तयन् ॥३६॥
ज्ञातवांश्च ततश्छिद्रं राक्षसानां दिवस्पतिः ।
स्वधर्मविच्युतिर्नाम सर्वधर्मविघातकृत ॥३७॥
ततः क्रोधाभिभूतेन भानुना रिपुभेदिभिः ।
भानुभी राक्षसपुरं तद दृष्टं च यथेच्छया ॥३८॥
स भानुना तदा दृष्टः क्रोधाध्मातेन चक्षुषा ।
निपपाताम्बराद भ्रष्टः क्षीणपुण्य इव ग्रहः ॥३९॥
पतमानं समालोक्यं पुरं शालकटङ्कटः ।
नमो भवाय शर्वाय इदमुच्चैरुदीरयत् ॥४०॥
तमाक्रन्दितमाकर्ण्य चारणा गगनेचराः ।
हा हेति चुक्रुशुः सर्वे हरभक्तः पतत्यसौ ॥४१॥
तच्चारणवचः शर्वः श्रुतवान् सर्वगोऽव्ययः ।
श्रुत्वा संचिन्तयामास केनासौ पात्यते भुवि ॥४२॥
ज्ञातवान् देवपतिना सहस्त्रकिरणेन तत् ।
पातितं राक्षसपुरं ततः क्रुद्धस्त्रिलोचनः ॥४३॥
क्रुद्धस्तु भगवन्तं तं भानुमन्तमपश्यत ।
दृष्टमात्रस्त्रिनेत्रेण निपपात ततोऽम्बरात् ॥४४॥
गगनात् स परिभ्रष्टः पथि वायुनिषेविते ।
यदृच्छया निपतितो यन्त्रमुक्तो यथोपलः ॥४५॥
ततो वायुपथान्मुक्तः किंशुकोज्ज्वलविग्रहः ।
निपपातान्तरिक्षात् स वृतः किन्नरचारणैः ॥४६॥
चारणैर्वेष्टितो भानुः प्रविभात्यम्बरात् पतन् ।
अर्द्धपक्कं यथा तालात् फलं कपिभिरावृत्तम् ॥४७॥
ततस्तु ऋषयोऽभ्येत्य प्रत्यूचुर्भानुमालिनम् ।
निपतस्व हरिक्षेत्रे यदि श्रेयोऽभिवाञ्छसि ॥४८॥
ततोऽब्रवीत् पतनीव विवस्वांस्तांपोधनान् ।
किं तत क्षेत्रं हरेः पुण्य्णं वदध्वं शीघ्रमेव मे ॥४९॥
तमूचुर्मुनयः सूर्यं श्रृणु क्षेत्रं महाफलम् ।
साम्प्रतं वासुदेवस्य भावि तच्छंकरस्य च ॥५०॥
योगशायिनमारभ्य यावत् केशवदर्शनम् ।
एतत् क्षेत्रं हरेः पुण्यं नाम्ना वाराणसी पुरी ॥५१॥
तच्छुत्वा भगवान् भानुर्भवनेत्राग्नितापितः ।
वरणायास्तथैवास्यास्त्वन्तरे निपपात ह ॥५२॥
ततः प्रदह्यति तनौ निमज्यास्यां लुलद रविः ।
वरणायां समभ्येत्य न्यमज्जत यथेच्छया ॥५३॥
भूयोऽसिं वरणां भूयो भूयोऽपि वरणामसिम् ।
लुलंस्त्रिनेत्रवह्यार्तौ भ्रमतेऽलातचक्रवत् ॥५४॥
एतस्मिन्नन्तरे ब्रह्मन् ऋषयो यक्षराक्षसाः ।
नागा विद्याधराश्चापि पक्षिणोऽप्सरसस्तथा ॥५५॥
यावन्तो भास्कररथे भूतप्रेतादयः स्थिताः ।
तावन्तो ब्रह्मसदनं गता वेदयितुं मुने ॥५६॥
ततो ब्रह्मा सुरपतिः सुरैः सार्धं समभ्यगात् ।
रम्यं महेश्वरावासं मन्दरं रविकारणात् ॥५७॥
गत्वा दृष्ट्वा च देवेशं शंकरं शूलपाणिनम् ।
प्रसाद्य भास्करार्थाय वाराणस्यामुपानयत् ॥५८॥
ततो दिवाकरं भूयः पाणिनादाय शंकरः ।
कृत्वा नामास्य लोलेति रथमारोपयत् पुनः ॥५९॥
आरोपिते दिनकरे ब्रह्माऽभ्येत्य सुकेशिनम् ।
सबान्धवं सनगरं पुनरारोपयद दिवि ॥६०॥
समारोप्य सुकेशिं च परिष्वज्य च शंकरम् ।
प्रणम्य केशवं देवं वैराजं स्वगृहं गतः ॥६१॥
एवं पुरा नारद भास्करेण पुरं सुकेशेर्भुवि सन्निपातितम् ।
दिवाकरो भूमितले भवेन क्षिप्तस्तु दृष्टया न च संप्रदग्धः ॥६२॥
आरोपितो भूमितलाद भवेन भूयोऽपि भानुः प्रतिभासनाय ।
स्वयंभुवा चापि निशाचरेन्द्रस्त्वारोपितः खे सपुरः सबन्धुः ॥६३॥