मार्कण्डेय उवाच
चतुर्मुखानामुत्पत्तिं विस्तरेण ममानघ ।
तथा ब्रह्मेश्वराणां च श्रोतुमिच्छा प्रवर्तते ॥१॥
सनत्कुमार उवाच
श्रृणु सर्वमशेषेण कथयिष्यामि तेऽनघ ।
ब्रह्मणः स्त्रष्टुकामस्य यद वृत्तं पद्मजन्मनः ॥२॥
उत्पन्न एव भगवान् ब्रह्मा लोकपितामहः ।
ससर्ज सर्वभूतानि स्थावराणि चराणि च ॥३॥
पुनश्चिन्तयतः सृष्टिं जज्ञे कन्या मनोरमा ।
नीलोत्पलदलश्यामा तनुमध्या सुलोचना ॥४॥
तां दृष्ट्वाभिमतां ब्रह्मा मैथुनायाजुहाव ताम् ।
तेन पापेन महता शिरोऽशीर्यत वेधसः ॥५॥
तेन शीर्णेन स ययौ तीर्थं त्रैलोक्यविश्रुतम् ।
सान्निहत्यं सरः पुण्यं सर्वपापक्षयावहम् ॥६॥
तत्र पुण्ये स्थाणुतीर्थे ऋषिसिद्धनिषेविते ।
सरस्वत्युत्तरे तीरे प्रतिष्ठाप्य चतुर्मुखम् ॥७॥
आराधयामास तदा धूपैर्गन्धैर्मनोरमैः ।
उपहारैस्तथा हद्यै रौद्रसूक्तैर्दिने दिने ॥८॥
तस्यैवं भक्तियुक्तस्य शिवपूजापरस्य च ।
स्वयमेवाजगामाथ भगवान् नीललोहितः ॥९॥
तमागतं शिवं दृष्ट्वा ब्रह्मा लोकपितामहः ।
प्रणम्य शिरसा भूमौ स्तुतिं तस्य चकार ह ॥१०॥
ब्रह्मोवाच
नमस्तेऽस्तु महादेव भूतभव्य भवाश्रय ।
नमस्ते स्तुतिनित्याय नमस्त्रैलोक्यपालिने ॥११॥
नमः पवित्रदेहाय सर्वकल्मषनाशिने ।
चराचरगुरो गुह्यगुह्यानां च प्रकाशकृत् ॥१२॥
रोगा न यान्ति भिषजैः सर्वरोगविनाशन ।
रौरवाजिनसंवीत वीतशोक नमोऽस्तु ते ॥१३॥
वारिकल्लोलसंक्षुब्धमहाबुद्धिविघट्टिने ।
त्वन्नामजापिनो देव न भवन्ति भवाश्रयाः ॥१४॥
नमस्ते नित्यनित्याय नमस्त्रैलोक्यपालन ।
शंकरायाप्रमेयाय व्याधीनां शमनाय च ॥१५॥
परायापरिमेयाय सर्वभूतप्रियाय च ।
योगेश्वराय देवाय सर्वपापक्षयाय च ॥१६॥
नमः स्थाणवे सिद्धाय सिद्धवन्दिस्तुताय च ।
भूतसंसारदुर्गाय विश्वरुपाय ते नमः ॥१७॥
फणीन्द्रोक्तमहिम्ने ते फणीन्द्राङ्गदधारिणे ।
फणीन्द्रवरहाराय भास्कराय नमो नमः ॥१८॥
एवं स्तुतो महादेवो ब्राह्मणं प्राह शङ्क्तरः ।
न च मन्युस्त्वया कार्यों भाविन्यर्थे कदाचन ॥१९॥
पुरा वराहकल्पे ते यन्मयाऽपहतं शिरः ।
चतुर्मुखं च तदभून्न कदाचिन्नशिष्यति ॥२०॥
अस्मिन् सान्निहिते तीर्थ लिङ्गानि म भक्तितः ।
प्रतिष्ठाय विमुक्तस्वं सर्वपापैर्भविषसि ॥२१॥
सृष्टिकामेन च पुरा त्वयाऽहं प्रेरितः किल ।
तेनाहं त्वां तथेत्युक्त्वा भूतानां देशवर्तिवत् ॥२२॥
दीर्घकालं तपस्तप्त्वा मग्नः संनिहिते स्थितः ।
सुसमान्तं त्वं तथेत्युक्त्वा भूतानां देशवर्विवत् ॥२३॥
स्त्रष्टारं सर्वभूतानां मनसा कल्पितं त्वया ।
सोऽब्रवीत् त्वां गदादा दृष्ट्वा मां मग्नं तत्र चाम्भासि ॥२४॥
यदि मे नाग्रजस्त्वन्यस्ततः स्त्रक्ष्याम्यहं प्रजाः ।
त्वयैवोक्तश्च नैवास्ति त्वदन्यः पुरुषोऽग्रजः ॥२५॥
स्थाणुरेष जले मग्नो विवशः कुरु मद्धितम् ।
स सर्वभूतानसृजद दक्षादींश्च प्रजापतीन् ॥२६॥
यैरिमं प्रकरोत् सर्वं भूतग्रामं चतुर्विधम् ।
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् ॥२७॥
बिभक्षयिषवो ब्रह्मन् सहसा प्राद्रवंस्तथा ।
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् ॥२८॥
अथासां च महावृत्तिः प्रजानां संविधीयताम् ।
दत्तं ताभ्यस्त्वया ह्यन्नं स्थावराणां महौषधीः ॥२९॥
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् ।
विहितान्नाः प्रजाः सर्वाः पुनर्जग्मुर्यथागतम् ॥३०॥
ततो ववृधिरे सर्वाः प्रीतियुक्ताः परस्परम् ।
भूतग्रामे विवृद्धे तु तुष्टे लोकगुरौ त्वयि ॥३१॥
समुत्तिष्ठञ्जलात् तस्मात् प्रजाः संदृष्टवानहम् ।
ततोऽहं ताः प्रजा दृष्ट्वा विहिताः स्वेन तेजसा ॥३२॥
क्रोधेन महता युक्तो लिङ्गमुत्पाट्य चाक्षिपम् ।
तत् क्षिप्तं सरसो मध्ये ऊर्ध्वमेव यदा स्थितम् ॥३३॥
तदा प्रभृति लोकेषु स्थाणुरित्येष विश्रुतः ।
सकृद दर्शनमात्रेण विमुक्तः सर्वकिल्बिषैः ॥३४॥
प्रयाति मोक्षं परमं यस्मान्नावर्तते पुनः ।
यश्चेह तीर्थे निवसेत् कृष्णाष्टम्यां समाहितः ॥३५॥
स मुक्तः पातकैः सर्वैरगम्यागमनोद्भवैः ।
इत्युक्त्वा भगवान् देवस्तत्रैवान्तरधीयत ॥३६॥
ब्रह्मा विशुद्धपापस्तु पूज्यं देवं चतुर्मुखम् ।
लिङ्गानि देवदेवस्य ससृजे सरमध्यतः ॥३७॥
आद्यं ब्रह्मसरः पुण्यं हरिपार्श्वे प्रतिष्ठितम् ।
द्वितीयं ब्रह्मसदनं स्वकीये ह्याश्रमे कृतम् ॥३८॥
तस्यैव पूर्वदिग्भागे तृतीयं च प्रतिष्ठितम् ।
चतुर्थं ब्रह्मणा लिङ्गं सरस्वत्यास्तटे कृतम् ॥३९॥
एतानि ब्रह्मतीर्थानि पुण्यानि पावनानि च ।
ये पश्यन्ति निराहारास्ते यान्ति परमां गतिम् ॥४०॥
कृते युगे हरेः पार्श्वे त्रेतायां ब्रह्मणाश्रमे ।
द्वापरे तस्य पूर्वेण सरस्वत्यास्तटे कलौ ॥४१॥
एतानि पूजयित्व च दृष्ट्वा भक्तिसमन्विताः ।
विमुक्ताः कलुषैः सर्वैः प्रयान्ति परमां गतिम् ॥४२॥
सृष्टिकाले भगवता पूजितस्तु महेश्वरः ।
सरस्वत्युत्तरे तीरे नाम्ना ख्यातश्चतुर्मुखः ॥४३॥
तं प्रणम्य श्रद्दधानो मुच्यते सर्वकिल्बिषैः ।
लोलासंकरसंभूतैस्तथा वैभाण्डसंकरैः ॥४४॥
तथैव द्वापरे प्राप्ते स्वाश्रमे पूज्य शङ्करम् ।
विमुक्तो राजसैर्भावैर्वर्णसंकरसम्भवैः ॥४५॥
ततः कृष्णचतुर्दश्यां पूजयित्वा तु मानवः ।
विमुक्तः पातकैः सर्वैरभोज्यस्यान्नसम्भवैः ॥४६॥
कलिकाले तु संप्राप्ते वसिष्ठाश्रममास्थितः ।
चतुर्मुखं स्थापयित्वा ययौ सिद्धिमनुत्तमाम् ॥४७॥
तत्रापि ये निराहाराः श्रद्दधाना जितेन्द्रियाः ।
पूजयन्ति महादेवं ते यान्ति परमं पदम् ॥४८॥
इत्येतत् स्थाणुतीर्थस्य माहात्म्यं कीर्त्तितं तव ।
यच्छुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः ॥४९॥