पुलस्त्य उवाच
ततो गतेषु देवेषु ब्रह्मलोकं प्रति द्विज ।
त्रैलोक्यं पालयामास बलिर्धर्मान्वितः सदा ॥१॥
कलिस्तदा धर्मयुतं जगद दृष्ट्वा कृते यथा ।
ब्रह्माणं शरणं भेजे स्वभावस्य निषेवणात् ॥२॥
गत्वा स ददृशे देवं सेन्द्रैर्देवैः समन्वितम् ।
स्वदीप्त्या द्योतयन्तं च स्वदेशं ससुरासुरम् ॥३॥
प्रणिपत्य तमाहाथ तिष्यो ब्रह्माणमीश्वरम् ।
मम स्वभावो बलिना नाशितो देवसत्तम ॥४॥
तं प्राह भगवान् योगी स्वभावं जगतोऽपि हि ।
न केवलं हि भवतो ह्नतं तेन बलीयसा ॥५॥
पश्यस्व तिष्य देवेन्द्रं वरुणं च समारुतम् ।
भास्करोऽपि हि दीनत्वं प्रयातो हि बलाद बलेः ॥६॥
न तस्य कश्चित् त्रैलोक्ये प्रतिषेद्धाऽस्ति कर्मणः ।
ऋते सहस्त्रं शिरसं हरिं दशशताङ्घ्रिकम् ॥७॥
स भूमिं च तथा नाकं राज्यं लक्ष्मीं यशोऽव्ययः ।
समाहरिष्यति बलेः कर्तुः सद्धर्मगोचरम् ॥८॥
इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः ।
दीनान् दृष्ट्वा स शक्रादीन् विभीतकवनं गतः ॥९॥
कृतः प्रावर्त्तत तदा कलेर्नाशाज्जगत्त्रये ।
धर्मोऽभवच्चतुष्पादश्चातुर्वर्ण्येऽपि नारद ॥१०॥
ततोऽहिंसा च सत्यं च शौचमिन्द्रियनिग्रहः ।
दया दान्म त्वानृशंस्यं शुश्रूषा यज्ञकर्म च ॥११॥
एतानि सर्वजगतः परिव्याप्य स्थितानि हि ।
बलिना बलवान् ब्रह्मन् तिष्योऽपि हि कृतः कृतः ॥१२॥
स्वधर्मस्थायिनो वर्णा ह्याश्रमांश्चाविशन् द्विजाः ।
प्रजापालनधर्मस्थाः सदैव मनुजर्षभाः ॥१३॥
धर्मोत्तरे वर्तमाने ब्रह्मन्नस्मिञ्जगत्त्रये ।
त्रैलोक्यलक्ष्मीर्वरदा त्वायाता दानवेश्वरम् ॥१४॥
तामागतां निरीक्ष्यैव सहस्त्राक्षश्रियं बलिः ।
पप्रच्छ काऽसि मां ब्रूहि केनास्यर्थेन चागता ॥१५॥
सा तद्वचनमाकर्ण्य प्राह श्रीः पद्ममालिनी ।
बले श्रृणुष्व याऽस्मि त्वामायाता महिषी बलात् ॥१६॥
अप्रमेयबलो देवो योऽसौ चक्रगदाधरः ।
तेन त्यक्तस्तु मघवा ततोऽहं त्वामिहागता ॥१७॥
स निर्ममे युवतश्चतस्त्रो रुपसंयुताः ।
श्वेताम्बरधरा चैव श्वेतस्त्रगनुलेपना ॥१८॥
श्वेतवृन्दारकारुढा सत्त्वाढ्या श्वेतविग्रहा ।
रक्ताम्बरधरा चान्या रक्तस्त्रगनुलेपना ॥१९॥
रक्तवाजिसमारुढा रक्ताङ्गी राजसी हि सा ।
पीताम्बरा पीतवर्णा पीतमाल्यानुलेपना ॥२०॥
सौवर्णस्यन्दनचरा तामसं गुणमाश्रिता ।
नीलाम्बरा नीलमाल्या नीलगन्धानुलेपना ॥२१॥
नीलवृषसमारुढा त्रिगुणा सा प्रकीर्तिता ।
या सा श्वेताम्बरा श्वेता सत्त्वाढ्या कुञ्जरस्थिता ॥२२॥
सा ब्रह्माणं समायाता चन्द्रं चन्द्रानुगानपि ।
या रक्ता रक्तवसना वाजिस्था रजसान्विता ॥२३॥
तां प्रादाद देवराजाय मनवे तत्समेषु च ।
पीताम्बरा या सुभगा रथस्था कनकप्रभा ॥२४॥
प्रजापतिभ्यस्तां प्रादाच्छुक्राय च विशःसु च ।
नीलवस्त्राऽलिसदृशी या चतुर्थी वृषस्थिता ॥२५॥
सा दानवान् नैऋतांश्च शूद्रान् विद्याधरानपि ।
विप्राद्याह श्वेतरुपाम तां कथयन्ति सरस्वतीम् ॥२६॥
स्तुवन्ति ब्रह्मणा सार्धं मखे मन्त्रादिभिः सदा ।
क्षत्रिया रक्तवर्णां ता जयश्रीमिति शंसिरे ॥२७॥
सा चेन्द्रेणासुरश्रेष्ठ मनुना च यशस्विनी ।
वैश्यास्ताम पीतवसनां कनकार्ङ्गीं सदैव हि ॥२८॥
स्तुवन्ति लक्ष्मीमित्येवं प्रजापालास्तथैव हि ।
शूद्रास्तां नीलवर्णाङ्गीं स्तुवन्ति च सुभक्तितः ॥२९॥
श्रिया देवीति नाम्ना ताम समं दैत्यैश्च राक्षसैः ।
एवं विभक्तास्ता नार्यस्तेन देवेन चक्रिणा ॥३०॥
एतासां च स्वरुपस्थास्तिष्ठन्ति निधयोऽव्ययाः ।
इतिहासपुराणानि वेदाः साङ्गास्तथोक्तयः ॥३१॥
चतुः षष्टिकलाः श्वेता महापद्मो निधिः स्थितः ।
मुक्तासुवर्णरजतं रथाश्वगजभूषणम् ॥३२॥
शस्त्रास्त्रादिकवस्त्राणि रक्ता पद्मो निधिः स्मृतः ।
गोमहिष्यः खरोष्ट्रं च सुवर्णाम्बरभूमयः ॥३३॥
ओषध्यः पशवः पीता महानीलो निधिः स्थितः ।
सर्वासामपि जातीनां जातिरेका प्रतिष्ठिता ॥३४॥
अन्येषामपि संहर्त्री नीला शङ्खो निधिः स्थितः ।
एतासु संस्थितानां च यानि रुपाणि दानव ।
भवन्ति पुरुषाणां वै तान् निबोध वदामि ते ॥३५॥
सत्यशौचाभिसंयुक्ता मखदानोत्सवे रताः ।
भवन्ति दानवपते महापद्माश्रिता नराः ॥३६॥
यज्विनः सुभगा दृप्ता मानिनो बहुदक्षिणाः ।
सर्वसामान्यसुखिनो नराः पद्माश्रिताः स्मृताः ॥३७॥
सत्यानृतसमायुक्ता दानाहरणदक्षिणाः ।
न्यायान्यायव्ययोपेता महानीलाश्रिता नराः ॥३८॥
नास्तिकाः शौचरहिताः कृपणा भोगवर्जिताः ।
स्तेयानृतकथायुक्ता नराः शङ्खश्रिता बले ॥३९॥
इत्येवं कथितस्तुभ्यं तेषां दानव निर्णयः ॥४०॥
अहं सा रागिणी नाम जयश्रीस्त्वामुपागता ।
ममास्ति दानवपते प्रतिज्ञा साधुसम्मता ॥४१॥
समाश्रयामि शौर्याढ्यं न च क्लीबं कथंचन ।
न चास्ति भवतस्तुल्यो त्रैलोक्येऽपि बलाधिकः ॥४२॥
त्वया बलविभूत्या हि प्रीतिर्मे जनिता ध्रुवा ।
यत्त्वया युधि विक्रम्य देवराजो विनिर्जितः ॥४३॥
अतो मम पुरा प्रीतिर्जाता दानव शाश्वती ।
दृष्ट्वा ते परमं सत्त्वं सर्वेभ्योऽपि बलाधिकम् ॥४४॥
शौण्डीर्यमानिनं वीरं ततोऽहं स्वयमागता ।
नाश्चर्यं दानवश्रेष्ठ हिरण्यकशिपोः कुले ॥४५॥
प्रसूतस्यासुरेन्द्रस्य तव कर्म यदीदृशम् ।
विशेषितस्त्वया राजन् दैतेयः प्रपितामहः ॥४६॥
विजितं विक्रमाद येन त्रैलोक्यं वै परैर्हतम् ।
इत्येवमुक्त्वा वचनं दानवेन्द्रं तदा बलिम् ॥४७॥
जयश्रीश्चन्द्रवदना प्रविष्टाऽद्योतयच्छुभा ।
तस्यां चाथ प्रविष्टायां विधवा इव योषितः ॥४८॥
समाश्रयन्ति बलिनं ह्रीश्रीधीधृतिकीर्त्तयः ।
प्रभा मतिः क्षमा भूतिर्विद्या नीतिर्दया तथा ॥४९॥
श्रुतिः स्मृतिर्धृतिः कीर्तिमूर्तिः शान्तिः क्रियान्विताः ।
पुष्टिस्तुष्टी रुचिस्त्वन्या तथा सत्त्वाश्रिता गुणाः ।
ताः सर्वा बलिमाश्रित्य व्यश्राम्यन्त यथासुखम् ॥५०॥
एवं गुणोऽभूद दनुपुङ्गवोऽसौ बलिर्महात्मा शुभबुद्धिरात्मवान् ॥५१॥
त्रिविष्टपं शासति दानवेन्द्रे नासीत् क्षुधार्तो मलिनो न दीनः ।
सदोज्ज्वलो धर्मरतोऽथ दान्तः कामोपभोक्ता मनुजोऽपि जातः ॥५२॥