लोमहर्षण उवाच
पवनस्य हदे स्त्रात्वा दृष्ट्वा देवं महेश्वरम् ।
विमुक्तः कलुषैः सर्वैः शैवं पदमवाप्नुयात् ॥१॥
पुत्रशोकेन पवनो यस्मिंल्लीनो बभूव ह ।
ततः सब्रह्मकैर्देवैः प्रसाद्य प्रकटीकृतः ॥२॥
अतो गच्छेत अमृतं स्थानं तच्छूलपाणिनः ।
यत्र देवैः सगन्धर्वेः हनुमान् प्रकटीकृतः ॥३॥
तत्र तीर्थे नरः स्त्रात्वा अमृतत्वमवाप्नुयात् ।
कुलोत्तारणमासाद्य तीर्थसेवी द्विजोत्तमः ॥४॥
कुलानि तारयेत सर्वान् मातामहपितामहान् ।
शालिहोत्रस्य राजर्षेस्तीर्थं त्रैलोक्यविश्रुतम् ॥५॥
तत्र स्त्रात्वा विमुक्तस्तु कलुषैर्देहसंभवैः ।
श्रीकुञ्जं तु सरस्वत्यां तीर्थं त्रैलोक्यविश्रुतम् ॥६॥
तत्र स्त्रात्वा नरो भक्त्या अग्निष्टोमफलं लभेत् ।
ततो नैमिषकुञ्जं तु समासाद्य नरः शुचिः ॥७॥
नैमिषस्य च स्त्रानेन यत् पुण्यं तत् समाप्नुयात् ।
तत्र तीर्थं महाख्यातं वेदवत्या निषेवितम् ॥८॥
रावणेन गृहीतायाः केशेषु द्विजसत्तमाः ।
तद्वधाय च सा प्राणान् मुमुचे शोककर्शिता ॥९॥
ततो जाता गृहे राज्ञो जनकस्य महात्मनः ।
सीता नामेति विख्याता रामपत्नी पतिव्रता ॥१०॥
सा हता रावणेनेह विनाशायात्मनः स्वयम् ।
रामेण रावणं हत्वा अभिषिच्य विभीषणम् ॥११॥
समानीता गृहं सीता कीर्तिरात्मवता यथा ।
तस्यास्तीर्थे नर; स्त्रात्वा कन्यायज्ञफलं लभेत् ॥१२॥
विमुक्तः कलुषैः सर्वैः प्राप्नोति परमं पदम् ।
ततो गच्छेत सुमहद ब्रह्मणः स्थानमुत्तमम् ॥१३॥
यत्र वर्णावरः स्त्रात्वा ब्राह्मण्यं लभते नरः ।
ब्राह्मणश्च विशुद्धात्मा परं पदमवाप्नुयात् ॥१४॥
ततो गच्छेत सोमस्य तीर्थं त्रैलोक्यदुर्लभम् ।
यत्र सोमस्तपस्तप्त्वा द्विजराज्यमवाप्नुयात् ॥१५॥
तत्र स्त्रात्वाऽर्चयित्वा च स्वपितृन दैवतानि च ।
निर्मलः स्वर्गमायाति कार्तिक्यां चन्द्रमा यथा ॥१६॥
सप्तसारस्वतं तीर्थं त्रैलोक्यस्यापि दुर्लभम् ।
यत्र सप्त सरस्वत्य एकीभूता वहन्ति च ॥१७॥
सुप्रभा काञ्चनाक्षी च विशालोआ मानसहदा ।
सरस्वत्योघनामा च सुरेणुर्विमलोदका ॥१८॥
पितामहस्य यजतः पुष्करेषु स्थितस्य ह ।
अब्रुवन् ऋषयः सर्वे नाऽयं यज्ञो महाफलः ॥१९॥
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ।
तच्छुत्वा भगवान् प्रीतः सस्माराथ सरस्वतीम् ॥२०॥
पितामहेन यजता आहूता पुष्करेषु वै ।
सुप्रभा नाम सा देवी तत्र ख्याता सरस्वती ॥२१॥
तां दृष्ट्वा मुनयः प्रीता वेगयुक्तां सरस्वतीम् ।
पितामहं मानयन्तीं ते तु तां बहु मेनिरे ॥२२॥
एवमेषा सरिच्छ्रेष्ठा पुष्करस्था सरस्वती ।
समानीता कुरुक्षेत्रे मङ्कणेन महात्मना ॥२३॥
नैमिषे मुनयः स्थित्वा शौनकाद्यास्तपोधनाः ।
ते पृच्छन्ति महात्मानं पौराणं लोमहर्षणम् ॥२४॥
कथं यज्ञफलोऽस्माकं वर्ततां सत्पथे भवेत् ।
ततोऽब्रवीन्महाभागः प्रणम्य शिरसा ऋषीन् ॥२५॥
सरस्वती स्थिता यत्र तत्र यज्ञफलों महत् ।
एतच्छुत्वा तु मुनयो नानास्वाध्यायवेदिनः ॥२६॥
समागम्य ततः सर्वे सस्मरुस्ते सरस्वतीम् ।
सा तु ध्याता ततस्तत्र ऋषिभिः सत्रयाजिभिः ॥२७॥
समागता प्लावनार्थं यज्ञे तेषां महात्मनाम् ।
नैमिषे काञ्चनाक्षी तु स्मृता मङ्कणकेन सा ॥२८॥
समागता कुरुक्षेत्रं पुण्यतोया सरस्वती ।
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ॥२९॥
आहूता च सरिच्छ्रेष्ठा गययज्ञे सरस्वती ।
विशालां नाम तां प्राहुऋषयः संशितव्रताः ॥३०॥
सरित् सा हि समाहूता मङ्कणेन महात्मना ।
कुरुक्षेत्रं समायाता प्रविष्टा च महानदी ॥३१॥
उत्तरे कोशलाभागे पुण्ये देवर्षिसेविते ।
उद्दालकेन मुनिना तत्र ध्याता सरस्वती ॥३२॥
आजगाम सरिच्छ्रेष्ठा तं देशं मुनिकारणात् ।
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ॥३३॥
मनोहरेति विख्याता सर्वपापक्षयावहा ।
आहूता सा कुरुक्षेत्रे मङ्कणेन महात्मना ।
ऋषेः संमननार्थाय प्रविष्टा तीर्थमुत्तमम् ॥३४॥
सुवेणुरिति विख्याता केदारे या सरस्वती ।
सर्वपापक्षया ज्ञेया ऋषिसिद्धनिषेविता ॥३५॥
सापि तेनेह मुनिना आराध्य परमेश्वरम् ।
ऋषीणामुपकारार्थं कुरुक्षेत्रं प्रवेशिता ॥३६॥
दक्षेण यजता सापि गङ्गाद्वारे सरस्वती ।
विमलोदा भगवती दक्षेण प्रकटीकृता ॥३७॥
समाहूता ययौ तत्र मङ्कनेन महात्मना ।
कुरुक्षेत्रे तु कुरुणा यजिता च सरस्वती ॥३८॥
सरोमध्ये समानीता मार्कण्डेयेन धीमता ।
अभिष्ट्वय महाभागां पुण्यतोयां सरस्वतीम् ॥३९॥
यत्र मङ्कणकः सिद्धः सप्तसारस्वते स्थितः ।
नृत्यमानश्च देवेन शंकरेण निवारितः ॥४०॥