लोमहर्षण उवाच
मानुषस्य तु पूर्वेण क्रोशमात्रे द्विजोत्तमाः ।
आपगा नाम विख्याता नदी द्विजनिषेविता ॥१॥
श्यामाकं पयसा सिद्धमाज्येन च परिप्लुतम् ।
ये प्रयच्छन्ति विप्रेभ्यस्तेषां पापं न विद्यते ॥२॥
ये तु श्राद्धं करिष्यन्ति प्राप्य तामापगां नदीम् ।
ते सर्वकामसंयुक्ता भविष्यन्ति न संशयः ॥३॥
शंसन्ति सर्वे पितरः स्मरन्ति च पितामहाः ।
अस्माकं च कुले पुत्रः पौत्रो वापि भविष्यति ॥४॥
य आपगां नदीं गत्वा तिलैः संतर्पयिष्यति ।
तेन तृप्ता भविष्यामो यावत्कल्पशतं गतम् ॥५॥
नभस्ये मासि सम्प्राप्ते कृष्णपक्षे विशेषतः ।
चतुर्दश्यां तु मध्याह्ने पिण्डदो मुक्तिमाप्नुयात् ॥६॥
ततो गच्छेत विप्रेन्द्रा ब्रह्मणः स्थानमुत्तमम् ।
ब्रह्मोदुम्बरमित्येवं सर्वलोकेषु विश्रुतम् ॥७॥
तत्र ब्रह्मर्षिकुण्डेषु स्त्रातस्य द्विजसत्तमाः ।
सप्तर्षीणां प्रसादेन सप्तसोमफलं भवेत् ॥८॥
भरद्वाजो गौतमश्च जगदग्निश्च कश्यपः ।
विश्वामित्रो वसिष्ठश्च अत्रिश्च भगवानृषिः ॥९॥
एतैः समेत्य तत्कुण्डं कल्पितं भुवि दुर्लभम् ।
ब्रह्मणा सेवितं यस्माद् ब्रह्मोदुम्बरमुच्यते ॥१०॥
तस्मिस्तीर्थवरे स्त्रातो ब्रह्मणोऽव्यक्तजन्मनः ।
ब्रह्मलोकमवाप्नोति नात्र कार्या विचारणा ॥११॥
देवान् पितृन् समुद्दिश्य यो विप्रं भोजयिष्यति ।
पितरस्तस्य सुखिता दास्यन्ति भुवि दुर्लभम् ॥१२॥
सप्तर्षीश्च समुद्दिश्य पृथक् स्त्रानं समाचरेत् ।
ऋणीणां च प्रसादेन सप्तलोकाधिपो भवेत् ॥१३॥
कपिस्थलेति विख्यातं सर्वपातकनाशनम् ।
यस्मिन् स्थितः स्वयं देवो वृद्धकेदारसंज्ञितः ॥१४॥
तत्र स्त्रात्वऽर्चयित्वा च रुद्रं दिण्डिसमन्वितम् ।
अन्तर्धानमवाप्नोति शिवलोके स मोदते ॥१५॥
यस्तत्र तर्पणं कृत्वा पिबते चुलकत्रयम् ।
दिण्डिदेवं नमस्कृत्य केदारस्य फलं लभेत् ॥१६॥
यस्तत्र कुरुते श्राद्धं शिवमुद्दिश्य मानवः ।
चैत्रशुक्लचतुर्दश्यां प्राप्नोति परमं पदम् ॥१७॥
कलस्यां तु ततो गच्छेद यत्र देवी स्वयं स्थिता ।
दुर्गा कात्यायनी भद्रा निद्रा माया सनातनी ॥१८॥
कलस्यां च नरः स्त्रात्वा दृष्ट्वा दुर्गां तटे स्थिताम् ।
संसारगहनं दुर्गं निस्तरेन्नात्र संशयः ॥१९॥
ततो गच्छेत सरकं त्रैलोक्यस्यापि दुर्लभम् ।
कृष्णपक्षे चतुर्दश्यां दृष्ट्वा देवं महेश्वरम् ॥२०॥
लभते सर्वकामांश्च शिवलोकं स गच्छति ।
तिस्त्रः कोट्यस्तु तीर्थानां सरके द्विजसत्तमाः ॥२१॥
रुद्रकोटिस्तथा कूपे सरोमध्ये व्यवस्थिता ।
तस्मिन् सरे च यः स्त्रात्वा रुद्रकोटिं स्मरेन्नरः ॥२२॥
पूजिता रुद्रकोटिश्च भविष्यति न संशयः ।
रुद्राणां च प्रसादेन सर्वदोषविवर्जितः ॥२३॥
ऐन्द्रज्ञानेन संयुक्तः परं पदमवाप्नुयात् ।
इडास्पदं च तत्रैव तीर्थं पापभयापहम् ॥२४॥
अस्मिन् मुक्तिमवाप्नोति दर्शनादेव मानवः ।
तत्र स्त्रात्वाऽर्चयित्वा च पितृदेवगणानपि ॥२५॥
न दुर्गतिमवाप्नोति मनसा चिन्तितं लभेत ।
केदारं च महातीर्थं सर्वकल्मषनाशनम् ॥२६॥
तत्र स्त्रात्वा तु पुरुषः सर्वदानफलं लभेत् ।
किंरुपं च महातीर्थं तत्रैव भुवि दुर्लभम् ।
तस्मिन् स्त्रातस्तु पुरुषः सर्वयज्ञफलं लभेत् ॥२७॥
सरकस्य तु पूर्वेण तीर्थं त्रैलोक्यविश्रुतम् ।
अन्यजन्म सुविख्यातं सर्वपापप्रणाशनम् ॥२८॥
नारसिंहं वपुः कृत्वा हत्वा दानवमूर्जितम् ।
तिर्यग्योनौ स्थितो विष्णुः सिंहेषु रतिमाप्नुवन् ॥२९॥
ततो देवाः सगन्धर्वा आराध्य वरदं शिवम् ।
ऊचुः प्रणतसर्वाङ्गा विष्णुदेहस्य लम्भने ॥३०॥
ततो देवो महात्माऽसौ शारभं रुपमास्थितः ।
युद्धं च कारयामास दिव्यं वर्षसहस्त्रकम् ।
युध्यमानौ तु तौ देवौ पतितों सरमध्यतः ॥३१॥
तस्मिन् सरस्तटे विप्रो देवर्षिर्नारदः स्थितः ।
अश्वत्थवृक्षमाश्रित्य ध्यानस्थस्तौ ददर्श ह ॥३२॥
विष्णुश्चतुर्भुजो जज्ञे लिङ्गाकारः शिवः स्थितः ।
तौ दृष्ट्वा तत्र पुरुषौ तुष्टाव भक्तिभावितः ॥३३॥
नमः शिवाय देवाय विष्णवे प्रभविष्णवे ।
हरये च उमाभर्त्रे स्थितिकालभृते नमः ॥३४॥
हराय बहुरुपाय विश्वरुपाय विष्णवे ।
त्र्यम्बकाय सुसिद्धाय कृष्णाय ज्ञानहेतवे ॥३५॥
धन्योऽहं सुकृती नित्यं यद दृष्टौ पुरुषोत्तमौ ।
ममाश्रममिदं पुण्यं युवाभ्यां विमलीकृतम् ॥३६॥
य इहागत्य स्त्रात्वा च पितृन् संतर्पयिष्यति ।
तस्य श्रद्धान्वितस्येह ज्ञानमैन्द्रं भविष्यति ॥३७॥
अश्वत्थस्य तु यन्मूलं सदा तत्र वसाम्यहम् ।
अश्वत्थवन्दनं कृत्वा यकं रौद्रं न पश्यति ॥३८॥
ततो गच्छेत विप्रेन्द्रा नागस्य हदमुत्तमम् ।
पौण्डरीके नरः स्त्रात्वा पुण्डरीकफलं लभेत् ॥३९॥
दशम्यां शुक्लपक्षस्य चैत्रस्य तु विशेषतः ।
स्त्रानं जपं तथा श्राद्धं मुक्तिमार्गप्रदायकम् ॥४०॥
ततस्त्रिविष्टपं गच्छेत् तीर्थं देवनिषेवितम् ।
तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥४१॥
तत्र स्त्रात्वाऽर्चयित्वा च शूलपाणिं वृषध्वजम् ।
सर्वपापविशुद्धात्मा गच्छत्येव परां गतिम् ॥४२॥
ततो गच्छेत विप्रेन्द्रा रसावर्त्तमनुत्तमम् ।
तत्र स्त्रात्वा भक्तियुक्तः सिद्धिमाप्नोत्यनुत्तमाम् ॥४३॥
चैत्रशुक्लचतुर्दश्यां तीर्थे स्त्रात्वा ह्यलेपके ।
पूजयित्वा शिवं तत्र पापलेपो न विद्यते ॥४४॥
ततो गच्छेत विप्रेन्द्राः फलकीवनमुत्तमम् ।
यत्र देवाः सगन्धर्वाः साध्याश्चऋषयः स्थिताः ।
तपश्चरन्ति विपुलं दिव्यं वर्षसहस्त्रकम् ॥४५॥
दृषद्वयां नरः स्त्रात्वा तर्पयित्वा च देवताः ।
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥४६॥
सोमक्षये च सम्प्राप्ते सोमस्य च दिने तथा ।
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं श्रृणु ॥४७॥
गयायां च यथा श्राद्धं पितृन प्रीणाति नित्यशः ।
तथा श्राद्धं च कर्तव्यं फलकीवनमाश्रितैः ॥४८॥
मनसा स्मरते यस्तु फलकीवनमुत्तमम् ।
तस्यापि पितरस्तृप्तिं प्रयास्यन्ति न संशयः ॥४९॥
तत्रापि तीर्थं सुमहत् सर्वदेवैरलंकृतम् ।
तस्मिन् स्नातस्तु पुरुषो गोसहस्त्रफलं लभेत् ॥५०॥
पाणिखाते नरः स्त्रात्वा पितृन् संतर्प्य मानवः ।
अवाप्नुयाद राजसूयं सांख्यं योगं च विन्दति ॥५१॥
ततो गच्छेत सुमहत्तीर्थ मिश्रकमुत्तमम् ।
तत्र तीर्थानि मुनिना मिश्रितानि महात्मना ॥५२॥
व्यासेन मुनिशार्दूला दधीच्यर्थं महात्मना ।
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥५३॥
ततो व्यासवनं गच्छेन्नियतो नियताशनः ।
मनोजवे नरः स्त्रात्वा दृष्ट्वा देवमणिं शिवम् ॥५४॥
मनसा चिन्तितं सर्वं सिध्यते नात्र संशयः ।
गत्वा मधुवटीं चैव देव्यास्तीर्थं नरः शुचिः ॥५५॥
तत्र स्नात्वाऽर्चयेद देवान् पितृंश्च प्रयतो नरः ।
स देव्या समनुज्ञातो यथा सिद्धिं लभेन्नरः ॥५६॥
कौशिक्याः संगमे यस्तु दृषद्वत्यां नरोत्तमः ।
स्त्रायीत नियताहारः सर्वपापैः प्रमुच्यते ॥५७॥
ततो व्यासस्थली नाम यत्र व्यासेन धीमता ।
पुत्रशोकाभिभूतेन देहत्यागाय निश्चयः ॥५८॥
कृतो देवैश्च विप्रेन्द्राः पुनरुत्थापितस्तदा ।
अभिगम्य स्थलीं तस्य पुत्रशोकं न विन्दति ॥५९॥
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ।
गच्छेत परमां सिद्धिं ऋणैर्मुक्तिमवाप्नुयात् ॥६०॥
अहं च सुदिनं चैव द्वे तीर्थे भुवि दुर्लभे ।
तयोः स्त्रात्वा विशुद्धात्मा सूर्यलोकमवाप्नुयात् ॥६१॥
कृतजप्यं ततो गच्छेत् त्रिषु लोकेषु विश्रुतम् ।
तत्राभिषेकं कुर्वीत गङ्गायां प्रयतः स्थितः ॥६२॥
अर्चयित्वा महादेवमश्वमेधफलं लभेत् ।
कोटितीर्थं च तत्रैव दृष्ट्वा कोटीश्वरं प्रभुम् ॥६३॥
तत्र स्नात्वा श्रद्दधानः कोटियज्ञफलं लभेत् ।
ततो वामनकं गच्छेत् त्रिषु लोकेषु विश्रुतम् ॥६४॥
यत्र वामनरुपेण विष्णुना प्रभविष्णुना ।
बलेरपहतं राज्यमिन्द्राय प्रतिपादितम् ॥६५॥
तत्र विष्णुपदे स्त्रात्वा अर्चयित्वा च वामनम् ।
सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ॥६६॥
ज्येष्ठाश्रमं च तत्रैव सर्वपातकनाशनम् ।
तं तु दृष्ट्वा नरो मुक्तिं संप्रयाति न संशयः ॥६७॥
ज्येष्ठे मासि सिते पक्षे एकादश्यामुपोषितः ।
द्वादश्यां च नरः स्त्रात्वा ज्येष्ठत्वं लभते नृषु ॥६८॥
तत्र प्रतिष्ठिता विप्रा विष्णुना प्रभविष्णुना ।
दीक्षाप्रतिष्ठासंयुक्ता विष्णुप्रीणनतत्पराः ॥६९॥
तेभ्यो दत्तानि श्राद्धानि दानानि विविधानि च ।
अक्षयाणि भविष्यन्ति यावन्मन्वन्तरस्थितिः ॥७०॥
तत्रैव कोटितीर्थं च त्रिषु लोकेषु विश्रुतम् ।
तस्मिंस्तीर्थे नरः स्त्रात्वा कोटियज्ञफलं लभेत् ॥७१॥
कोटीश्वरं नरो दृष्ट्वा तस्मिंस्तीर्थे महेश्वरम् ।
महादेवप्रसादेन गाणपत्यमवाप्नुयात् ॥७२॥
तत्रैव सुमहत तीर्थं सूर्यस्य च महात्मनः ।
तस्मिन् स्त्रात्वा भक्तियुक्तः सूर्यलोके महीयते ॥७३॥
ततो गच्छेत विप्रेन्द्रास्तीर्थं कल्मषनाशनम् ।
कुलोत्तारणनामानं विष्णुना कल्पितं पुरा ॥७४॥
वर्णानामाश्रमाणां च तारणाय सुनिर्मलम् ।
ब्रह्मचर्यात्परं मोक्षं य इच्छन्ति सुनिर्मलम् ।
तेऽपि तत्तीर्थमासाद्य पश्यन्ति परमं पदम् ॥७५॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
कुलानि तारयेत् स्त्रातः सप्त सप्त च सप्त च ॥७६॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये तत्परायणाः ।
स्त्राता भक्तियुताः सर्वे पश्यन्ति परमं पदम् ॥७७॥
दूरस्थोऽपि स्मरेद यस्तु कुरुक्षेत्रं सवामनम् ।
सोऽपि मुक्तिमवाप्नोति किं पुनर्निवसन्नरः ॥७८॥