पुलस्त्य उवाच
एवं कपाली संजातो देवर्षे भगवान् हरः ।
अनेन कारणेनासौ दक्षेण न निमन्त्रितः ॥१॥
कपालिजायेति सतीं विज्ञायाथ प्रजापतिः ।
यज्ञे चार्हापि दुहिता दक्षेण न निमन्त्रिता ॥२॥
एतस्मिन्नन्तरे देवीं द्रष्टुं गौतमनन्दिनी ।
जया जगाम शैलेन्द्रं मन्दरं चारुकन्दरम् ॥३॥
तामागतां सती दृष्ट्वा जयामेकामुवाच ह ।
किमर्थं विजया नागाज्जयन्ती चापराजिता ॥४॥
सा देव्या वचनं श्रुत्वा उवाच परमेश्वरीम् ।
गता निमन्त्रिताः सर्वा मखे मातामहस्य ताः ॥५॥
समं पित्रा गौतमेन मात्रा चैवाप्यहल्यया ।
अहं समागता द्रष्टुं त्वां तत्र गमनोत्सुका ॥६॥
किं त्वं न व्रजसे तत्र तथा देवो महेश्वरः ।
नामान्त्रिताऽसि तातेन उताहोस्विद व्रजिष्यसि ॥७॥
गतास्तु ऋषयः सर्वे ऋषिपल्यः सुरास्तथा ।
मातृष्वसः शशाङ्कश्च सपत्नीको गतः क्रतुम् ॥८॥
चतुर्दशेषु लोकेषु जन्तवो ये चराचरः ।
निमन्त्रिताः क्रतौ सर्वे किं नासि त्वं निमन्त्रिता ॥९॥
पुलस्त्य उवाच
जयायास्तद्वचः श्रुत्वा वज्रपातसमं सती ।
मन्युनाऽभीप्लुता ब्रह्मन् पञ्चत्वमगमत् ततः ॥१०॥
जया मृतां सतीं दृष्ट्वा कोधशोकपरिप्लुता ।
मुञ्चती वारि नेत्राभ्यां सस्वरं विललाप ह ॥११॥
आक्रन्दितध्वनिं श्रुत्वा शूलपाणीस्त्रिलोचनः ।
आः किमेतदितीत्युक्त्वा जयाभ्याशमुपागतः ॥१२॥
आगतो ददृशे देवीं लतामिव वनस्पतेः ।
कृत्तां परशुना भूमौ श्लथाङ्गीं पतितां सतीम् ॥१३॥
देवीं निपतितां दृष्ट्वा जयां पप्रच्छ शंकरः ।
किमियं पतिता भूमौ निकृत्तेव लता सती ॥१४॥
सा शंकरवचः श्रुत्वा जया वचनमब्रवीत् ।
श्रुत्वा मखस्था दक्षस्य भगिन्यः पतिभिः सह ॥१५॥
आदित्याद्यास्त्रिलोकेश समं शक्रादिभिः सुरैः ।
मातृष्वसा विपन्नेयमन्तर्दुःखेन दह्यती ॥१६॥
पुलस्त्य उवाच
एतच्छुत्वा वचो रौद्रं रुद्रः क्रोधाप्लुतो बभौ ।
क्रुद्धस्य सर्वगात्रेभ्यो निश्चेरुः सहसार्चिषः ॥१७॥
ततः क्रोधात् त्रिनेत्रस्य गात्ररोमोद्भवा मुने ।
गणाः सिंहमुखा जाता वीरभद्रपुरोगमाः ॥१८॥
गणैः परिवृतस्तस्मान्मन्दराद्धिमसाह्वयम् ।
गतः कनखलं तस्माद् यत्र दक्षोऽयजत् क्रतुम् ॥१९॥
ततो गणानामधिपो वीरभद्रो महाबलः ।
दिशि प्रतीच्युत्तरायां तस्थौ शूलधरो मुने ॥२०॥
जया क्रोधाद् गदां गृह्य पूर्वदक्षिणतः स्थिता ।
मध्ये त्रिशूलधृक् शर्वस्तस्थौ क्रोधान्महामुने ॥२१॥
मृगारिवदनं दृष्ट्वा देवाः शक्रपुरोगमाः ।
ऋषयो यक्षगन्धर्वाः किमिदं त्वित्यचिन्तयन् ॥२२॥
ततस्तु धनुरादय शरांश्चाशीविषोपमान् ।
द्वारपालस्तदा धर्मो वीरभद्रमुपाद्रवत् ॥२३॥
तमापतन्तं सहसा धर्मं दृष्ट्वा गणेश्वरः ।
करेणैकेन जग्राह त्रिशूलं वह्निसन्निभम् ॥२४॥
कार्मुकं च द्वितीयेन तृतीयेनाथ मार्गणान् ।
चतुर्थेन गदां गृह्य धर्ममभ्यद्रवद् गणः ॥२५॥
ततश्चतुर्भुजं दृष्ट्वा धर्मराजो गणेश्वरम् ।
तस्थावष्टभुजो भूत्वा नानायुधधरोऽव्ययः ॥२६॥
खङ्गचर्मगदाप्रासपरश्वधवराङ्कुशैः ।
चापमार्गणभृत्तस्थौ हन्तुकामो गणेश्वरम् ॥२७॥
गणेश्वरोऽपि संक्रुद्धो हन्तुं धर्मं सनातनम् ।
ववर्ष मार्गणांस्तीक्ष्णान् यथा प्रावृषि तोयदः ॥२८॥
तावन्योन्यं महात्मानौ शरचापधरौ मुने ।
रुधिरारुणसिक्ताङ्गौ किंशुकाविव रेजतुः ॥२९॥
ततो वरास्त्रैर्गणनायकेन जितः स धर्मः तरसा प्रसह्य ।
पराङ्मुखोऽभूद्विमना मुनीन्द्र स वीरभद्रः प्रविवेश यज्ञम् ॥३०॥
यज्ञवाटं प्रविष्टं तं वीरभद्रं गणेश्वरम् ।
दृष्ट्वा तु सहसा देवा उत्तस्थुः सायुधा मुने ॥३१॥
वसवोऽष्टौ महाभागा ग्रहा नव सुदारुणाः ।
इन्द्राद्या द्वादशादित्या रुद्रास्त्वेकादशैव हि ॥३२॥
विश्वेदेवाश्च साध्याश्च सिद्धगन्धर्वपन्नगाः ।
यक्षाः किंपुरुषाश्चैव खगाश्चक्रधरास्तथा ॥३३॥
राजा वैवस्वताद् वंशाद् धर्मकीर्तिस्तु विश्रुतः ।
सोमवंशोद्भश्चोग्रो भोजकीर्तिर्महाभुजः ॥३४॥
दितिजा दानवाश्चान्ये येऽन्ये तत्र समागताः ।
ते सर्वेऽभ्यद्रवन् रौद्रं वीरभद्रमुदायुधाः ॥३५॥
तानापतत एवाशु चापबाणधरो गणः ।
अभिदुद्राव वेगेन सर्वानेव शरोत्करैः ॥३६॥
ते शस्त्रवर्षमतुलं गणेशाय समुत्सृजन् ।
गणेशोऽपि वरास्त्रैस्तान् प्रचिच्छेद बिभेद च ॥३७॥
शरैः शस्त्रैश्च सततं वध्यमाना महात्मना ।
वीरभद्रेण देवाद्या अवहारमकुर्वत ॥३८॥
ततो विवेश गणपो यज्ञमध्यं सुविस्तृतम् ।
जुह्वाना ऋषयो यत्र हर्वीषि प्रवितन्वते ॥३९॥
ततो महर्षयो दृष्ट्वा मृगेन्द्रवदनं गणम् ।
भीता होत्रं परित्यज्य जग्मुः शरणमच्युतम् ॥४०॥
तानार्तांश्चक्रभृद दृष्ट्वा महर्षीस्त्रस्तमानसान् ।
न भेतव्यमितीत्युक्त्वा समुत्तस्थौ वरायुधः ॥४१॥
समानम्य ततः शार्ङ्गं शरानग्निशिखोपमान् ।
मुमोच वीरभद्राय कायावरणदारणान् ॥४२॥
ते तस्य कायमासाद्य अमोघा वै हरेः शराः ।
निपेतुर्भुवि भग्नाशा नास्तिकादिव याचकाः ॥४३॥
शरांस्त्वमोघान्मोघत्वमापन्नान्वीक्ष्य केशवः ।
दिव्यैरस्त्रैर्वीरभद्रं प्रच्छादयितुमुद्यतः ॥४४॥
तानस्त्रान् वासुदेवेन प्रक्षिप्तान् गणनायकः ।
वारयामास शूलेन गदया मार्गर्णैस्तथा ॥४५॥
दृष्ट्वा विपन्नान्यस्त्राणि गदां चिक्षेप माधवः ।
त्रिशूलेन समाहत्य पातयामास भूतले ॥४६॥
मुशलं वीरभद्राय प्रचिक्षेप हलायुधः ।
लाङ्गलं च गणेशोऽपि गदया प्रत्यवारयत् ॥४७॥
मुशलं सगदं दृष्ट्वा लाङ्गलं च निवारितम् ।
वीरभद्राय चिक्षेप चक्रं क्रोधात् खगध्वजः ॥४८॥
तमापतन्तं शतसूर्यकल्पं सुदर्शनं वीक्ष्य गणेश्वरस्तु ।
शूलं परित्यज्य जग्राह चक्रं यथा मधुं मीनवपुः सुरेन्द्रः ॥४९॥
चक्रे निर्गीर्णे गणनायकेन क्रोधातिरक्तोऽसितचारुनेत्रः ।
मुरारिरभ्येत्य गणाधिपेन्द्रमुत्क्षिप्य वेगाद भुवि निष्पिपेष ॥५०॥
हरिबाहूरुवेगेन विनिष्पिष्टस्य भूतले ।
सहितं रुधिरोदगारैर्मुखाच्चक्रं विनिर्गतम् ॥५१॥
ततो निः सृतमालोक्य चक्रं कैटभनाशनः ।
समादाय हषीकेशो वीरभद्रं मुमोच ह ॥५२॥
हषीकेशेन मुक्तस्तु वीरभद्रो जटाधरम् ।
गत्वा निवेदयामास वासुदेवात्पराजयम् ॥५३॥
ततो जटाधरो दृष्ट्वा गणेशं शोणिताप्लुतम् ।
निः श्वसन्तं यथा नागं क्रोधं चक्रे तदाव्ययः ॥५४॥
ततः क्रोधाभीभूतेन वीरभद्रोऽथ शंभुना ।
पूर्वोद्दिष्टे तदा स्थाने सायुधस्तु निवेशितः ॥५५॥
वीरभद्रमथादिश्य भद्रकालीं च शंकरः ।
विवेश क्रोधताम्राक्षो यज्ञवाटं त्रिशूलभृत् ॥५६॥
ततस्तु देवप्रवरे जटाधरे त्रिशूलपाणौ त्रिपुरान्तकारिणि ।
दक्षस्य यज्ञं विशति क्षयंकरे जातो ऋषीणां प्रवरो हि साध्वसः ॥५७॥