पुलस्त्य उवाच
कश्यपस्य दनुर्नाम भार्यासीद द्विजसत्तम ।
तस्याः पुत्रत्रयं चासीत् सहस्त्राक्षाद् बलाधिकम् ॥१॥
ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरोऽसुरः ।
तृतीयो नमुचिर्नाम महाबलसमन्वितः ॥२॥
योऽसौ नमुचिरित्येवं ख्यातो दनुसुतोऽसुरः ।
तं हन्तुमिच्छति हरिः प्रगृह्य कुलिशं करे ॥३॥
त्रिदिवेशं समायान्तं नमुचिस्तद्भयादथ ।
प्रविवेश रथं भानोस्ततो नाशकदच्युतः ॥४॥
शक्रस्तेनाथ समयं चक्रे सह महात्मना ।
अवध्यत्वं वरं प्रादाच्छस्त्रैरस्त्रैश्च नारद ॥५॥
ततोऽवध्यत्वमाज्ञाय शस्त्रादस्त्राच्च नारद ।
संत्यज्य भास्कररथं पातालमुपयादथ ॥६॥
स निमज्जन्नपि जले सामुद्रं फेनमुत्तमम् ।
ददृशे दानवपतिस्तं प्रगृह्येदमब्रवीत् ॥७॥
यदुक्तं देवपतिना वासवेन वचोऽस्तु तत् ।
अयं स्पृशतु मां फेनः कराभ्यां गृह्य दानवः ॥८॥
मुखनासाक्षिकर्णादीन् सम्ममार्ज्ज यथेच्छया ।
तस्मिञ्छक्रोऽसृजद् वज्रमन्तर्हितमपीश्वरः ॥९॥
तेनासौ भग्ननासास्यः पपात च ममार च ।
समये च तथा नष्टे ब्रह्महत्याऽस्पृशद्धरिम् ॥१०॥
स वै तीर्थं समासाद्य स्त्रातः पापादमुच्यत ।
ततोऽस्य भ्रातरौ वीरौ क्रुद्धौ शुम्भनिशुम्भकौ ॥११॥
उद्योगं सुमहत्कृत्वा सुरान् बाधितुमागतौ ।
सुरास्तेऽपि सहस्त्राक्षं पुरस्कृत्य विनिर्ययुः ॥१२॥
जितास्त्वाक्रम्य दैत्याभ्यां सबलाः सपदानुगाः ।
शक्रस्याहत्य च गजं याम्यं च महिषं बलात् ॥१३॥
वरुणस्य मणिच्छत्रं गदां वै मारुतस्य च ।
निधयः पद्मशङ्खाद्या हतास्त्वाक्रम्य दानवैः ॥१४॥
तैलोक्यं वशगं चास्ते ताभ्यां नरद सर्वतः ।
तदाजग्मुर्मही पृष्ठं ददृशुस्ते महासुरम् ॥१५॥