ऋषय ऊचुः
अहिंसा सत्यमस्तेयं दानं क्षान्तिर्दमः शमः ।
अकार्पण्यं च शौचं च तपश्च रजनीचर ॥१॥
दशाङ्गो राक्षसश्रेष्ठ धर्मोऽसौ सार्ववर्णिकः ।
ब्राह्मणस्यापि विहिता चातुराश्रम्यकल्पना ॥२॥
सुकेशिरुवाच
विप्राणां चातुराश्रम्यं विस्तरान्मे तपोधनाः ।
आचक्षध्वं न मे तृप्तिः श्रृण्वतः प्रतिपद्यते ॥३॥
ऋषय ऊचुः
कृतोपनयनः सम्यग् ब्रह्मचारी गुरौ वसेत् ।
तत्र धर्मोऽस्य यस्तं च कथ्यमानं निशामय ॥४॥
स्वाध्यायोऽथाग्निशुश्रूष स्नानं भिक्षाटनं तथा ।
गुरोर्निवेद्य तच्चाद्यमनुज्ञातेन सर्वदा ॥५॥
गुरोः कर्माणि सोद्योगः सम्यक्प्रीत्युपपादनम् ।
तेनाहूतः पठेच्चैव तत्परो नान्यमानसः ॥६॥
एकं द्वौ सकलान् वापि वेदान् प्राप्य गुरोर्मुखात् ।
अनुज्ञातो वरं दत्त्वा गुरवे दक्षिणां ततः ॥७॥
गार्हस्थ्याश्रमकामस्तु गार्हस्थ्याश्रममावसेत् ।
वानप्रस्थाश्रमं वाऽपि चतुर्थं स्वेच्छयात्मनः ॥८॥
तत्रैव वा गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् ।
गुरोरभावे तत्पुत्रे तच्छिष्ये तत्सुतं विना ॥९॥
शुश्रूषन् निरभिमानो ब्रह्मचर्याश्रमं वसेत् ।
एवं जयति मृत्युं स द्विजः शालकटङ्कट ॥१०॥
उपावृत्तस्ततस्तस्माद् गृहस्थाश्रमकाम्यया ।
असमानर्षिकुलजां कन्यामुद्वहेद निशाचर ॥११॥
स्वकर्मणा धनं लब्ध्वा पितृदेवातिथीनपि ।
सम्यक् संप्रीणयेद भक्त्या सदाचाररतो द्विजः ॥१२॥
सुकेशिरुवाच
सदाचारो निगदितो युष्माभिर्मम सुव्रताः ।
लक्षणं श्रोतुमिच्छामि कथयध्वं तमद्य मे ॥१३॥
ऋषय ऊचुः
सदाचारो निगदितस्तव योऽस्माभिरादरात् ।
लक्षणं तस्य वक्ष्यामस्तच्छृणुष्व निशाचर ॥१४॥
गृहस्थेन सदा कार्यमाचारपरिपालनम् ।
न ह्याचारविहीनस्य भद्रमत्र परत्र च ॥१५॥
यज्ञदानतपांसीह पुरुषस्य न भूतये ।
भवन्ति यः समुल्लङ्ह्य सदाचारं प्रवर्तते ॥१६॥
दुराचारो हि पुरुषो नेह नामुत्र नन्दते ।
कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम् ॥१७॥
तस्य स्वरुपं वक्ष्यामः सदाचारस्य राक्षस ।
श्रृणुष्वैकिमनास्तच्च यदि श्रेयोऽभिवाञ्छसि ॥१८॥
धर्मोऽस्य मूलों धनमस्य शाखा पुष्पं च कामः फलमस्य मोक्षः ।
असौ सदाचारतरुः सुकेशिन संसेवितो येन स पुण्यभोक्ता ॥१९॥
ब्राह्ये मुहूर्ते प्रथमं विबुध्येदनुस्मरेद देववरान् महर्षीन् ।
प्राभातिकं मङ्गलमेव वाच्यं यदुक्तवान् देवपतिस्त्रिनेत्रः ॥२०॥
सुकेशिरुवाच
किं तदुक्तं सुप्रभातं शंकरेण महात्मना ।
प्रभाते यत् पठन्मर्त्यो मुच्यते पापबन्धनात् ॥२१॥
ऋषय ऊचुः
श्रूयतां राक्षसश्रेष्ठ सुप्रभातं हरोदितम् ।
श्रुत्वा स्मृत्वा पठित्वा च सर्वपापैः प्रमुच्यते ॥२२॥
ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः सह भानुजेन कुर्वन्तु सर्वे मम सुप्रभातम् ॥२३॥
भृगुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहः सगौतमः ।
रैभ्यो मरीचिश्चच्यवनो ऋषुश्च कुर्वन्तु सर्वे मम सुप्रभातम् ॥२४॥
सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गली च ।
सप्त स्वराः सप्त रसातलाश्च कुर्वन्तु सर्वे मम सुप्रभातम् ॥२५॥
पृथ्वी सगन्धा सरसास्तथापः स्पर्शश्च वायुर्ज्वलनः सतेजाः ।
नभः सशब्दं महता सहैव यच्छन्तु सर्वे मम सुप्रभातम् ॥२६॥
सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपराश्च सप्त ।
भूरादि कृत्वा भुवनानि सप्त ददन्तु सर्वे मम सुप्रभातम् ॥२७॥
इत्त्थं प्रभाते परमं पवित्रं पठेत् स्मरेद्वा श्रृणुयाच्च भक्त्या ।
दुःस्वप्ननाशोऽनघ सुप्रभातं भवेच्च सत्यं भगवत्प्रसादात् ॥२८॥
ततः समुत्थाय विचिन्तयेत धर्मं तथार्थं च विहाय शय्याम् ।
उत्थाय पश्चाद्धरितित्युदीर्य गच्छेत् तदोत्सर्गविधिं हि कर्तुम् ॥२९॥
न देवगोब्रा ह्मणवह्निमार्गे न राजमार्गे न चतुष्पथे च ।
कुर्यादथोत्सर्गमपीह गोष्ठे पूर्वापरां चैव समाश्रितो गाम् ॥३०॥
ततस्तु शौचार्थमुपाहरेन्मृदं गुदे त्रयं पाणितले च सप्त ।
तथोभयोः पञ्च चतुस्तथैकां लिङ्गे तथैकां मृदमाहरेत ॥३१॥
नान्तर्जलाद्राक्षस मूषिकस्थलाच्छौचावशिष्टा शरणात् तथान्या ।
वल्मीकमृच्चापि हि शौचनाय ग्राह्या सदाचारविदा नरेण ॥३२॥
उदडमुखः प्राड्मुखो वापि विद्वान् प्रक्षाल्य पादौ भुवि संनिविष्टः ।
समाचमेददभिरफेनिलाभिरादौ परिमृज्य मुखं द्विरद्भिः ॥३३॥
ततः स्पृशेत्खानि शिरः करेण संध्यामुपासीत ततः क्रमेण ।
केशांस्तु संशोध्य च दन्तधावनं कृत्वा तथा दर्पणदर्शनं च ॥३४॥
कृत्वा शिरः स्नानमथाङ्गिकं वा संपूज्य तोयेन पितृन् सदेवान् ।
होमंख च कृत्वालभनं शुभानां कृत्वा बहिर्निर्गमनं प्रशस्तम् ॥३५॥
दूर्वादधिसर्पिरथोदकुम्भं धेनुं सवत्सां वृषभं सुवर्णम् ।
मृद्गोमयं स स्तिकमक्षतानि लाजामधु ब्राह्मणकन्यकां च ॥३६॥
श्वेतानि पुष्पाण्यथ शोभनानि हुताशनं चन्दनमर्कबिम्बम् ।
अश्वत्थवृक्षं च समालभेत ततस्तु कुर्यान्निजजातिधर्मम् ॥३७॥
देशानुशिष्टं कुलधर्ममग्र्यं स्वगोत्रधर्मं न हि संत्यजेत ।
तेनार्थासिद्धिं समुपाचरेत नासत्प्रलापं न च सत्यहीनम् ॥३८॥
न निष्ठुरं नागमशास्त्रहीनं वाक्यं वदेत्साधुजनेन येन ।
निन्द्यो भवेन्नैव च धर्मभेदी सङ्गं न चासत्सु नरेषु कुर्यात् ॥३९॥
संध्यासु वर्ज्यं सुरतं दिवा च सर्वासु योनीषु पराबलासु ।
आगारशून्येषु महीतलेषु रजस्वलास्वेव जलेषु वीर ॥४०॥
वृथाऽटनं वृथा दानं वृथा च पशुमारणम् ।
न कर्त्तव्यं गृहस्थेन वृथा दारपरिग्रहम् ॥४१॥
वृथाऽटनान्नित्यहानिर्वृथादानाद्धनक्षयः ।
वृथा पशुघ्नः प्राप्नोति पातकं नरकप्रदम् ॥४२॥
संतत्या हानिश्लाघ्या वर्णसंकरतो भयम् ।
भेतव्यं च भवेल्लोके वृथादारपरिग्रहात् ॥४३॥
परस्वे परदारे च न कार्या बुद्धिरुत्तमैः ।
परस्वं नरकायैव परदाराश्च मृत्यवे ॥४४॥
नेक्षेत् परस्त्रियं नग्नां न सम्भाषेत तस्करान् ।
उदक्यादर्शनं स्पर्शं संभाषं च विवर्जयेत् ॥४५॥
नैकासने तथा स्थेयं सोदर्या परजायया ।
तथैव स्यान्न मातुश्च तथा स्वदुहितुस्त्वपि ॥४६॥
न च स्नायीत वै नग्नो न शयीत कदाचन ।
दिग्वाससोऽपि न तथा परिभ्रमणमिष्यते ।
भिन्नासनभाजनादीन् दूरतः परिवर्जयेत् ॥४७॥
नन्दासु नाभ्यङ्गमुपाचरेत क्षौरं च रिक्तासु जयासु मांसम् ।
पूर्णासु योषित्परिवर्जयेत भद्रासु सर्वाणि समाचरेत ॥४८॥
नाभ्यङ्गमर्के न च भूमिपुत्रे क्षौरं च शुक्रे रविजे च मांसम् ।
बुधेषु योषिन्न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात् ॥४९॥
चित्रासु हस्ते श्रवणे न तैलं क्षौरं विशाखास्वभिजित्सु वर्ज्यम् ।
मूले मृगे भाद्रपदासु मांसं योषिन्मघाकृत्तिकयोत्तरासु ॥५०॥
सदैव वर्ज्यं शयनमुदक्शिरास्तथा प्रतीच्यां रजनीचरेश ।
भुञ्जीत नैवेह च दक्षिणामुखो न च प्रतीच्यामभिभोजनीयम् ॥५१॥
देवालयं चैत्यतरुं चतुष्पथं विद्याधिकं चापि गुरुं प्रदक्षिणम् ।
माल्यान्नपानं वसनानि यत्नतो नान्यैर्धृतांश्चापि हि धारयेद बुधः ॥५२॥
स्नायाच्छिरः स्नानतया च नित्यं न कारणं चैव विना निशासु ।
ग्रहोपरागे स्वजनापयाते मुक्त्वा च जन्मर्क्षगते शशाङ्के ॥५३॥
नाभ्यङ्गितं कायमुपस्पृशेच्च स्नातो न केशान् विधुनीत चापि ।
गात्राणि चैवाम्बरपाणिना च स्नातो विमृज्याद रजनीचरेश ॥५४॥
वसेच्च देशेषु सुराजकेष्जु सुसंहितेष्वेव जनेषु नित्यम् ।
अक्रोधना न्यायपरा अमत्सराः कृषीवला ह्योषधयश्च यत्र ॥५५॥
श्वापस्तु वैद्यो धनिकश्च यत्र सच्छ्रोत्रियस्तत्र वसेत नित्यम् ॥५६॥
न तेषु देशेषु वसेत बुद्धिमान् सदा नृपो दण्डरुचिस्त्वशक्तः ।
जनोऽपि नित्योत्सवबद्धवैरः सदा जिगीषुश्च निशाचरेन्द्र ॥५७॥
ऋषय ऊचुः
यच्च वर्ज्यं महाबाहो सदा धर्मस्थितैर्नरैः ।
यद भोज्यं च समुद्दिष्टं कथयिष्यामहे वयम् ॥५८॥
भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसंभृतम् ।
अस्नेहा व्रीहयः श्लक्ष्णा विकाराः पयसस्तथा ॥५९॥
तद्वद द्विदलकादीनि भोज्यानि मनुरब्रवीत् ॥६०॥
मणिरत्नप्रवालानां तद्वन्मुक्ताफलस्य च ।
शैलदारुमयानां च तृणमूलौषधान्यपि ॥६१॥
शूर्पधान्याजिनानां च संहतानां च वाससाम् ।
वल्कलानामशेषाणामम्बुना शुद्धिरिष्यते ॥६२॥
सस्नेहामथोष्णेन तिलकल्केन वारिणा ।
कार्पासिकानां वस्त्राणां शुद्धिः स्यात्सह भस्मना ॥६३॥
नागदन्तास्थिश्रृङ्गाणां तक्षणाच्छुद्धिरिष्यते ।
पुनः पाकेन भाण्डानां मृण्मयानां च मेध्यता ॥६४॥
शुचि भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा ।
रथ्यागतमविज्ञातं दासवर्गेण यत्कृतम् ॥६५॥
वाक्प्रशस्तं चिरातीतमनेकान्तरितं लघु ।
चेष्टितं बालवृद्धानां बालस्य च मुखं शुचि ॥६६॥
कर्मान्ताङ्गाशालासु स्तनंधयसुताः स्त्रियः ।
वाग्विप्रुषो द्विजेन्द्राणां संतप्ताश्चाम्बुबिन्दवः ॥६७॥
भूमिर्विशुध्यते खातदाहमार्जनगोक्रमैः ।
लेपादुल्लेखनात् सेकाद वेश्मसंमार्जनार्चनात् ॥६८॥
केशकीटावपन्नेऽन्ने गोघ्राते मक्षिकान्विते ।
मृदम्बुभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये ॥६९॥
औदुम्बराणां चाल्मेन क्षारेण त्रपुसीसयोः ।
भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावो द्रवस्य च ॥७०॥
अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ।
अन्येषामपि द्रव्याणां शुद्धिर्गन्धापहारतः ॥७१॥
मातुः प्रस्त्रवणे वत्सः शकुनिः फलपातने ।
गर्दभो भारवाहित्वे श्वा मृगग्रहणे शुचिः ॥७२॥
रथ्याकर्दमतोयानि नावः पथि तृणानि च ।
मारुतेनैव शुद्ध्यन्ति पक्वेष्टकचितानि च ॥७३॥
श्रृतं द्रोणाढकस्यान्नममेध्याभिप्लुतं भवेत् ।
अग्रमुदधृत्य संत्याज्यं शेषस्य प्रोक्षणं स्मृतम् ॥७४॥
उपवासं त्रिरात्रं वा दूषितान्नस्य भोजने ।
अज्ञाते ज्ञातपूर्वे च नैव शुद्धिर्विधीयते ॥७५॥
उदक्याश्वाननग्नांश्च सूतिकान्त्यावसायिनः ।
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥७६॥
सस्नेहमस्थि संस्पृश्य सवासाः स्नानमाचरेत् ।
आचम्यैव तु निः स्नेहं गामालभ्यार्कमीक्ष्य च ॥७७॥
न लङ्घ्येत्पुरीषासृकष्ठीवनोर्द्वर्त्तनानि च ।
गृहादुच्छिष्टविण्मूत्रे पादाम्भांसि क्षिपेद बहिः ॥७८॥
पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिणि ।
स्नायीत देवखातेषु सरोह्नदसरित्सु च ॥७९॥
नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत् कदाचन ।
नालपेज्जनविद्विष्टं वीरहीनां तथा स्त्रियम् ॥८०॥
देवतापितृसच्छास्त्रयज्ञवेददिनिन्दकैः ।
कृत्वा तु स्पर्शमालापं शुद्ध्यते कर्मावलोकनात् ॥८१॥
अभोज्याः सूतिकाषण्ढमार्जाराखुश्वकुक्कुटाः ।
पतितापविद्धनग्नाश्चाण्डालाधमाश्च ये ॥८२॥
सुकेशिरुवाच
भवद्भिः कीर्तिताऽभोज्या य एते सूतिकादयः ।
अमीषां श्रोतुमिच्छासि तत्त्वतो लक्षणानि हि ॥८३॥
ऋषय ऊचुः
ब्राह्मणी ब्राह्मणस्यैव याऽवरोधत्वमागता ।
तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ॥८४॥
न जुहोत्युचिते काले न स्नाति न ददाति च ।
पितृदेवार्चनाद्धीनः स षण्ढः परिगीयते ॥८५॥
दम्भार्थं जपते यश्च तप्यते यजते तथा ।
न परत्रार्थमुद्युक्तो स मार्जारः प्रकीर्तितः ॥८६॥
विभवे सति नैवात्ति न ददाति जुहोति च ।
तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण शुद्ध्यति ॥८७॥
यः परेषां हि मर्माणि निकृन्तन्निव भाषते ।
नित्यं परगुणद्वेषो स श्वान इति कथ्यते ॥८८॥
सभागतानां यः सभ्यः पक्षपातं समाश्रयेत् ।
तमाहुः कुक्कुटं देवास्तस्याप्यन्नं विगर्हितम् ॥८९॥
स्वधर्मं यः समुत्सृज्य परधर्मं समाश्रयेत् ।
अनापदि स विद्वद्भिः पतितः परिकीर्त्यते ॥९०॥
देवत्यागी पितृत्यागी गुरुभक्त्यरतस्तथा ।
गोब्राह्नणस्त्रीवधकृदपविद्धः स कीर्त्यते ॥९१॥
येषां कुले न वेदोऽस्ति न शास्त्रं नैव च व्रतम् ।
ते नग्नाः कीर्तिताः सदभिस्तेषामन्नं विगर्हितम् ॥९२॥
आशार्तानामदाता च दातुश्च प्रतिषेधकः ।
शरणागतं यस्त्यजति स चाण्डालोऽधमो नरः ॥९३॥
यो बान्धवैः परित्यक्तः साधुभिर्ब्राह्मणैरपि ।
कुण्डाशीयश्च तस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥९४॥
यो नित्यकर्मणो हानिं कुर्यान्नैमित्तिकस्य च ।
भुक्त्वान्नं तस्य शुद्ध्येत त्रिरात्रोपोषितो नरः ॥९५॥
गणकस्य निषादस्य गणिकाभिषजोस्तथा ।
कदर्यस्यापि शुद्ध्येत त्रिरात्रोपोषितो नरः ॥९६॥
नित्यस्य कर्मणो हानिः केवलं मृतजन्मसु ।
न तु नैमित्तिकोच्छेदः कर्तव्यो हि कथंचन ॥९७॥
जाते पुत्रे पितुः स्नानं सचैलस्य विधीयते ।
मृते च सर्वबन्धूनामित्याह भगवान् भृगुः ॥९८॥
प्रेताय सलिलं देयं बहिर्दग्ध्वा तु गौत्रजैः ।
प्रथमेऽह्नि चतुर्थे वा सप्तमे वाऽस्थिसंचयम् ॥९९॥
ऊर्ध्वं संचयनात्तेषामङ्गस्पर्शो विधीयते ।
सौदकैस्तु क्रिया कार्या संशुद्धैस्तु सपिण्डजैः ॥१००॥
विषोद्वन्धनशस्त्राम्बुवह्निपातमृतेषु च ।
बाले प्रव्राजि संन्यासे देशान्तरमृते तथा ॥१०१॥
सद्यः शौचं भवेद्वीर तच्चाप्युक्तं चतुर्विधम् ।
गर्भस्त्रावे तदेवोक्तं पूर्णकालेन चेतरे ॥१०२॥
ब्राह्मणानामहोरात्रं क्षत्रियाणां दिनत्रयम् ।
षड्रात्रं चैव वैश्यानां शूद्राणां द्वादशाह्निकम् ॥१०३॥
दशद्वादशमासार्द्धमाससंख्यैर्दिनैश्च तैः ।
स्वाः स्वाः कर्मक्रियाः कुर्यु सर्वे वर्णायथाक्रमम् ॥१०४॥
प्रेतमुद्दिश्य कर्त्तव्यमेकोद्दिष्टं विधानतः ।
सपिण्डीकरणं कार्यं प्रेते आवत्सरान्तरे ॥१०५॥
ततः पितृत्वमापन्ने दर्शपूर्णादिभिः शुभैः ।
प्रीणनं तस्य कर्त्तव्यं यथा श्रुतिनिदर्शनात् ॥१०६॥
पितुरर्थं समुद्दिश्य भूमिदानादिकं स्वयम् ।
कुर्यात्तेनास्य किंचिद यच्चास्य दयितं गृहे ।
तत्तद गुणवते देयं तदेवाक्षयमिच्छता ॥१०८॥
अध्येतवा त्रयी नित्यं भाव्यं च विदुषा सद ।
धर्मतो धनमाहार्यं यष्टव्यं चापि शक्तितः ॥१०९॥
यच्चापि कुर्वतो नात्मा जुगुम्सामेति राक्षस ।
तत कर्त्तव्यमशङ्केन यन्न गोप्यं महाजने ॥११०॥
एवमाचरतो लोके पुरुषस्य गृहे सतः ।
धर्मार्थकामसंप्राप्तिं परत्रेह च शोभनम् ॥१११॥
एष तूद्देशतः प्रोक्तो गृहस्थाश्रम उत्तमः ।
वानप्रस्थाश्रमं धर्मं प्रवक्ष्यामोऽवधार्यताम् ॥११२॥
अपत्यसंततिं दृष्ट्वा प्राज्ञो देहस्य चानतिम् ।
वानप्रस्थाश्रमं गच्छेदात्मनः शुद्धिकारणम् ॥११३॥
तत्रारण्योपभोगैश्च तपोभिश्चात्मकर्षणम् ।
भूमौ शय्या ब्रह्मचर्य पितृदेवातिथिक्रिया ॥११४॥
होमस्त्रिषवणं स्नानं जटावल्कलधारणम् ।
वन्यस्नेहनिषेवित्वं वानप्रस्थविधिस्त्वयुम् ॥११५॥
सर्वसङ्गपरित्यागो ब्रह्मचर्यममानिता ।
जितेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम् ॥११६॥
अनारम्भस्तथाहारो भैक्षान्नं नातिकोपिता ।
आत्मज्ञानावबोधेच्छा तथा चात्मावबोधनम् ॥११७॥
चतुर्थे त्वाश्रमे धर्मा अस्माभिस्ते प्रकीर्तिताः ।
वर्णधर्माणि चान्यानि निशामय निशाचर ॥११८॥
गार्हस्थं ब्रह्मचर्यं च वानप्रस्थं श्रयाश्रमाः ।
क्षत्रियस्यापि कथिता ये चाचारा द्विजस्य हि ॥११९॥
वैखानसत्वं गार्हस्थ्यमाश्रमद्वितयं विशः ।
गार्हस्थ्यमुत्तमं त्वेकं शूद्रस्य क्षणदाचर ॥१२०॥
स्वानि वर्णाश्रमोक्तानि धर्माणीह न हापयेत् ।
यो हापयति तस्यासौ परिकुप्यति भास्करः ॥१२१॥
कुपितः कुलनाशाय ईश्वरो रोगवृद्धये ।
भानुर्वै यतते तस्य नरस्य क्षणदाचर ॥१२२॥
तस्मात् स्वधर्मं न हि संत्यजेत न हापयेच्चापि हि नात्मवंशम् ।
यः संत्यजेच्चापि निजं हि धर्मं तस्मै प्रकुप्येत दिवाकरस्तु ॥१२३॥
पुलस्त्य उवाच
इत्येवमुक्तो मुनिभिः सुकेशी प्रणम्य तान् ब्रह्मनिधीन् महर्षीन् ।
जगाम चोत्पत्य पुरं स्वकीयं मुहुर्मुहुर्धर्ममवेक्षमाणः ॥१२४॥