देवदेव उवाच
तस्यां तपत्यां नरसत्तमेन जातः सुतः पार्थिवलक्षणस्तु ।
स जातकर्मादिभिरेव संस्कृतो विवर्द्धताज्येन हुतो यथाऽग्निः ॥१॥
कृतोऽस्य चूडाकरणश्च देवा विप्रेण मित्रावरुणात्मजेन ।
नवाब्दिकस्य व्रतबन्धनं च वेदे च शास्त्रे विधिपारगोऽभूत् ॥२॥
ततश्चतुः षडभिरपीह वर्षैः सर्वज्ञतामभ्यगमत् ततोऽसौ ।
ख्यातः पृथिव्यां पुरुषोत्तमोऽसौ नाम्ना कुरुः संवरणस्य पुत्रः ॥३॥
ततो नरपतिर्दृष्ट्वा धार्मिकं तनयं शुभम् ।
दारक्रियार्थमकरोद यत्नं शुभकुले ततः ॥४॥
सौदामिनीं सुदाम्नस्तु सुतां रुपाधिकां नृपः ।
कुरोरर्थाय वृतवान् स प्रादात् कुरवेऽपि ताम् ॥५॥
स तां नृपसुतां लब्ध्वा धर्मार्थावविरोधयन् ।
रेमे तन्व्या सह तया पौलोम्या मघवानिव ॥६॥
ततो नरपतिः पुत्रं राज्यभारक्षमं बली ।
विदित्वा यौवराज्याय विधानेनाभ्यषेचयत् ॥७॥
ततो राज्येऽभिषिक्तस्तु कुरुः पित्रा निजे पदे ।
पालयामास स महीं पुत्रवच्च स्वयं प्रजाः ॥८॥
स एव क्षेत्रपालोऽभूत् पशुपालः स एव हि ।
स सर्वपालकश्चासीत् प्रजापालो महाबलः ॥९॥
ततोऽस्य बुद्धिरुत्पन्ना कीर्तिर्लोके गरीयसी ।
यावत्कीर्तिः सुसंस्था हि तावद्वासः सुरैः सह ॥१०॥
स त्वेवं नृपतिश्रेष्ठो याथातथ्यमवेक्ष्य च ।
विचचार महीं सर्वां कीर्त्यर्थं तु नराधिपः ॥११॥
ततो द्वैतवनं नाम पुण्यं लोकेश्वरो बली ।
तदासाद्य सुसंतुष्टो विवेशाभ्यन्तरं ततः ॥१२॥
तत्र देवीं ददर्शाथ पुण्यां पापविमोचनीम् ।
प्लक्षजां ब्रह्मणः पुत्रीं हरिजिह्वां सरस्वतीम् ॥१३॥
सुदर्शनस्य जननीं हदं कृत्वा सुविस्तरम् ।
स्थितां भगवतीं कूले तीर्थकोटिभिराप्लुताम् ॥१४॥
तस्यास्तज्जलमीक्षयिव स्त्रात्वा प्रीतोऽभवन्नृपः ।
समाजगाम च पुनर्ब्रह्य्मणो वेदिमुत्तराम् ॥१५॥
समन्तपञ्चकं नाम धर्मस्थानमनुत्तमम् ।
आसमन्ताद् योजनानि पञ्च पञ्च च सर्वतः ॥१६॥
देवा ऊचुः
कियन्त्यो वेदयः सन्ति ब्रह्मणः पुरुषोत्तम ।
येनोत्तरतया वेदिर्गदिता सर्वपञ्चका ॥१७॥
देवदेव उवाच
वेदयो लोकनाथस्य पञ्च धर्मस्य सेतवः ।
यासु यष्टं सुरेशेन लोकनाथेन शम्भुना ॥१८॥
प्रयागो मध्यमा वेदिः पूर्वा वेदिर्गयाशिरः ।
विरजा दक्षिणा वेदिरनन्तफलदायिनी ॥१९॥
प्रतीची पुष्करा वेदिस्त्रिभिः कुण्डैरलंकृता ।
समन्तपञ्चका चोक्ता वेदिरेवोत्तराऽव्यया ॥२०॥
तममन्यत राजर्षिरिदं क्षेत्रं महाफलम् ।
करिष्यामि कृषिष्यामि सर्वान् कामान् यथेप्सितान् ॥२१॥
इति संचिन्त्य मनसा त्यक्त्वा स्यन्दनमुत्तमम् ।
चक्रे कीर्त्यर्थमतुलं संस्थानं पार्थिवर्षभः ॥२२॥
कृत्वा सीरं स सौवर्णं गृह्य रुद्रवृषं प्रभुः ।
पौण्ड्रकं याम्यमहिषं स्वयं कर्षितुमुद्यतः ॥२३॥
तं कर्षन्तं नरवरं समभ्येत्य शतक्रतुः ।
प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः ॥२४॥
राजाब्रवीत् सुरवरं तपः सत्यं क्षमां दयाम् ।
कृषामि शौचं दानं च योगं च ब्रह्मचारिताम् ॥२५॥
तस्योवाच हरिर्देवः कस्माद्वीजो नरेश्वर ।
लब्धोऽष्टाङ्गेति सहसा अवहस्य गतस्ततः ॥२६॥
गतेऽपि शक्रे राजर्षिरहन्यानि सीरधृक् ।
कृषतेऽन्यान् समन्ताच्च सप्तक्रोशान् महीपतिः ॥२७॥
ततोऽमहब्रुवं गत्वा कुरो किमिदमित्यथ ।
तदाऽष्टाङ्गं महाधर्मं समाख्यातं नृपेण हि ॥२८॥
ततो मयाऽस्य गदितं नृप बीजं क्व तिष्ठति ।
स चाह मम देहस्थं बीजं क्व तिष्ठति ।
देह्यहं वापयिष्यामि सीरं कृषतु वै भवान् ॥२९॥
ततो नृपतिना बाहुर्दक्षिणः प्रसृतः कृतः ।
प्रसृतं तं भुजं दृष्ट्वा मया चक्रेण वेगतः ॥३०॥
सहस्त्रधा ततश्छिद्य दत्तो युष्माकमेव हि ।
ततः सव्यो भुजो राज्ञा दत्तश्छिन्नोऽप्यसौ मया ॥३१॥
तथैवोरुयुगं प्रादान्मया छिन्नौ च तावुभौ ।
ततः स मे शिरः प्रादात् तेन प्रीतोऽस्मि तस्य च ।
वरदोऽस्मीत्यथेत्युक्त कुरुर्वरमयाचत ॥३२॥
कुरुरुवाच
यावदेन्मया कृष्टं धर्मक्षेत्रं तदस्तु च ।
स्त्रातानां च मृतानां च महापुण्यफलं त्विह ॥३३॥
उपवासं च दानं च स्त्रानं जप्यं च माधव ।
होमयज्ञादिकं चान्युच्छुभं वाप्यशुभं विभो ॥३४॥
त्वत्प्रसादाद्धषीकेश शङ्खचक्रगदाधार ।
अक्षयं प्रवरे क्षेत्रे भवत्वत्र महाफलम् ॥३५॥
तथा भवान् सुरैः सार्धं समं देवेन शूलिना ।
वस त्वं पुण्डरीकाक्ष मन्नामव्यञ्जकेऽच्युत ।
इत्येवमुक्तस्तेनाहं राज्ञा बाढमुवाच तम् ॥३६॥
तथा च त्वं दिव्यवपुर्भव भूयो महीपते ।
तथाऽन्तकाले मामेव लयमेष्यसि सुव्रत ॥३७॥
कीर्तिश्च शाश्वती तुभ्यं भविष्यति न संशयः ।
तत्रैव याजका यज्ञान् यजिष्यन्ति सहस्त्रशः ॥३८॥
तस्य क्षेत्रस्य रक्षार्थं ददौ स पुरुषोत्तमः ।
यक्षं च चन्द्रनामानं वासुकिं चापि पन्नगम् ॥३९॥
विद्याधरं शङ्कुकर्णं सुकेशिं राक्षसेश्वरम् ।
अजावनं च नृपतिं महादेवं च पावकम् ॥४०॥
एतानि सर्वतोऽभ्येत्य रक्षन्ति कुरुजाङ्गलम् ।
अमीषां बलिनोऽन्ये च भृत्याश्चैवानुयायिनः ॥४१॥
अष्टौ सहस्त्राणि धनुर्धराणां ये वारयन्तीह सुदुष्कृतान् वै ।
स्त्रातुं न यच्छन्ति महोग्ररुपास्त्वन्यस्य भूताः सचराचराणाम् ॥४२॥
तस्यैव मध्ये बहुपुण्य उक्तः पृथूदकः पापहरः शिवश्च ।
पुण्या नदी प्राङ्मुखतां प्रयाता यत्रौघयुक्तस्य शुभा जलाढ्या ॥४३॥
पूर्वं प्रजेयं प्रपितामहेन सृष्टा समं भूतगणैः समस्तैः ।
मही जलं वह्निसमीरमेव खं त्वेवमादौ विबभौ पृथूदकः ॥४४॥
तथा च सर्वाणि महार्णवानि तीर्थानि नद्यः स्त्रवणाः सरांसि ।
संनिर्मितानीह महाभुजेन तच्चैक्यमागात् सलिलं महीषु ॥४५॥
देवदेव उवाच
सरस्वतीदृषद्वत्योरन्तरे कुरुजाङ्गले ।
मुनिप्रवरमासीनं पुराणं लोमहर्षणम् ।
अपृच्छन्त द्विजवराः प्रभावं सरसस्तदा ॥४६॥
प्रमाणं सरसो ब्रूहि तीर्थानां च विशेषतः ।
देवतानां च माहात्म्यमुत्पत्तिं वामनस्य च ॥४७॥
एतच्छुत्वा वचस्तेषां रोमहर्षसमन्वितः ।
प्रणिपत्य पुराणर्षिरिदं वचनमब्रवीत् ॥४८॥
लोमहर्षण उवाच
ब्रह्माणमग्र्यं कमलासनस्थं विष्णुं तथा लक्ष्मिसमन्वितं च ।
रुद्रं च देवं प्रणिपत्य मूर्ध्ना तीर्थें महद ब्रह्मसरः प्रवक्ष्ये ॥४९॥
रन्तुकादौजसं यावत् पावनाच्च चतुर्मुखम् ।
सरः संनिहितं प्रोक्तं ब्रह्मणा पूर्वमेव तु ॥५०॥
कलिद्वारपरयोर्मध्ये व्यासेन च महात्मना ।
सरः प्रमाणं यत्प्रोक्तं तच्छृणुध्वं द्विजोत्तमाः ॥५१॥
विश्वेश्वरादस्थिपुरं तथा कन्या जरदगवी ।
यावदोघवती प्रोक्ता तावत्संनिहितं सरः ॥५२॥
मया श्रुतं प्रमाणं यत पठ्यमानं तु वामने ।
तच्छृणुध्वं द्विजश्रेष्ठाः पुण्यं वृद्धिकरं महत् ॥५३॥
विश्वेश्वराद देववरो नृपावनात् सरस्वती ।
सरः संनिहितं ज्ञेयं समन्तादर्धयोजनम् ॥५४॥
एतदाश्रित्य देवाश्च ऋषयश्च समागताः ।
सेवन्ते मुक्तिकामार्थं स्वर्गार्थं चापरे स्थिताः ॥५५॥
ब्रह्मणा सेवितमिदं सृष्टिकामेन योगिना ।
विष्णुना स्थितिकामेन हरिरुपेण सेवितम् ॥५६॥
रुद्रेण च सरोमध्यं प्रविष्टेन महात्मना ।
सेव्य तीर्थं महातेजाः स्थाणुत्वं प्राप्तवान् हरः ॥५७॥
आद्यैषा ब्रह्मणो वेदिस्ततो रामहदः स्मृतः ।
कुरुणा च यतः कृष्टं कुरुक्षेत्रं ततः स्मृतम् ॥५८॥
तरन्तुकारन्तुकयोर्यदन्तरं यदन्तरं र महदाच्चतुर्मुखम् ।
एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते ॥५९॥