ऋषय ऊचुः
कथं मङ्कणकः सिद्धः कस्माज्जातो महानृषिः ।
नृत्यमानस्तु देवेन किमर्थं स निवारितः ॥१॥
लोमहर्षण उवाच
कश्यपस्य सुतो जज्ञे मानसो मङ्कणो मुनिः ।
स्त्रानं कर्तुं व्यवसितो गृहीत्वा वल्कलं द्विजः ॥२॥
तत्र गता ह्यप्सरसो रम्भाद्याः प्रियदर्शनाः ।
स्त्रायन्ति रुचिराः स्त्रिग्धास्तेन सार्धमनिन्दिताः ॥३॥
ततो मुनेस्तदा क्षोभाद्रेतः स्कन्नं यदम्भसि ।
तद्रेतः स तु जग्राह कलशे वै महातपाः ॥४॥
सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।
तत्रर्षयः सप्त जाता विदुर्यान् मरुतां गणान् ॥५॥
वायुवेगो वायुबलो वायुहा वायुमण्डलः ।
वायुज्वालो वायुरेतो वायुचक्रश्च वीर्यवान् ॥६॥
एते ह्यपत्यास्तस्यर्षेर्धारयन्ति चराचरम् ।
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति मे श्रुतम् ॥७॥
क्षतः किल करे विप्रास्तस्य शाकरसोऽस्त्रवत् ।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥८॥
ततः सर्वं प्रनृत्तं च स्थावरं जङ्गमं च यत् ।
प्रनृत्त च जगद दृष्ट्वा तेजसा तस्य मोहितम् ॥९॥
ब्रह्मादिभिः सुरैस्तत्र ऋषिभिश्च तपोधनैः ।
विज्ञप्तो वै महादेवो मुनेरर्थे द्विजोत्तमाः ॥१०॥
नायं नृत्येद यथा देव तथा त्वं कर्तुमर्हसि ।
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि ॥११॥
सुराणां हितकामार्थ महादेवोऽभ्यभाषत ।
हर्षस्थानं किमर्थं च तवेदं मुनिसत्तम ।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥१२॥
ऋषिरुवाच
किं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्त्रुतम् ।
यं दृष्ट्वाऽहं प्रनृतो वै हर्षेण महताऽन्वितः ॥१३॥
तं प्रहस्याब्रवीद देवो मुनिं रागेण मोहितम् ।
अहं न विस्मयं विप्र गच्छामीह प्रपश्यताम् ॥!४॥
एवमुक्त्वा मुनिश्रेष्ठं देवदेवो महाद्युतिः ।
अङ्गुल्यग्रेण विप्रेन्द्राः स्वाङ्गुष्ठं ताडयद भवः ॥१५॥
ततो भस्म क्षतात् तस्मान्निर्गतं हिमसन्निभम् ।
तद दृष्ट्वा व्रीडितो विप्रः पादयोः पतितोऽब्रवीत् ॥१६॥
नान्यं देवादहं मन्ये शूलपाणेर्महात्मनः ।
चराचरस्य जगतो वरस्त्वमसि शूलधृक् ॥१७॥
त्वदाश्रयाश्च दृश्यन्ते सुरा ब्रह्मादयोऽनघ ।
पूर्वस्त्वमसि देवानां कर्त्ता कारयिता महत् ॥१८॥
त्वत्प्रसादात् सुराः सर्वे मोदन्ते ह्यकुतोभयाः ।
एवं स्तुत्वा महादेवमृषिः स प्रणतोऽब्रवीत् ॥१९॥
भगवंस्त्वत्प्रसादाद्धि तपो मे न क्षयं व्रजेत् ।
ततो देवः प्रसन्नात्मा तमृषिं वाक्यमब्रवीत् ॥२०॥
ईश्वर उवाच
तपस्ते वर्धतां विप्र मत्प्रसादात् सहस्त्रधा ।
आश्रमे चेह वत्स्यामि त्वया सार्द्धमहं सदा ॥२१॥
सप्तसारस्वते स्त्रात्वा यो मामर्चिष्यते नरः ।
न तस्य दुर्लभं किंचिदिह लोके परत्र च ॥२२॥
सारस्वतं च तं लोकं गमिष्यति न संशयः ।
शिवस्य च प्रसादेन प्राप्नोति परमं पदम् ॥२३॥