पुलस्त्य उवाच
समागतान सुरान दृष्ट्वा नन्दिराख्यातवान् विभोः ।
अथोत्थाय हरिं भक्त्या परिष्वज्य न्यपीडयत् ॥१॥
ब्रह्माणं शिरसा नत्वा समाभाष्य शतक्रतुम् ।
आलोक्यान्यान् सुरगणान् संभावयत् स शङ्क्तरः ॥२॥
गणाश्च जय देवेति वीरभद्रपुरोगमाः ।
शैवाः पाशुपताद्याश्च विविशुर्मन्दराचलम् ॥३॥
ततस्तस्मान्महाशैलं कैलासं सह दैवतैः ।
जगाम भगवान् शर्वः कर्तुं वैवाहिकं विधिम् ॥४॥
ततस्तस्मिन् महाशैले देवमाताऽदितिः शुभा ।
सुरभिः सुरसा चान्याश्चक्रुर्मण्डनमाकुलाः ॥५॥
महास्थिशेखरी चारुरोचनातिलको हरः ।
सिंहाजिनी चालिनीलभुजङ्गकृतकुण्डलः ॥६॥
महाहिरत्नवलयो हारकेयूरनूपुरः ।
समुन्नतजटाभारो वृषभस्थो विराजते ॥७॥
तस्याग्रतो गणाः स्वैः स्वैरारुढा यान्ति वाहनैः ।
देवाश्च पृष्ठतो जग्मुर्हुताशनपुरोगमाः ॥८॥
वैनतेयं समारुढः सह लक्ष्म्या जनार्दनः ।
प्रयाति देवपार्श्वस्थो हंसेन च पितामहः ॥९॥
गजाधिरुढो देवेन्द्रश्छत्रं शुक्लपटं विभुः ।
धारयामास विततं शच्या सह सहस्त्रदृक् ॥१०॥
यमुना सरितां श्रेष्ठा बालव्यजनमुत्तमम् ।
श्वेतं प्रगृह्य हस्तेन कच्छपे संस्थिता ययौ ॥११॥
हंसकुन्देन्दुसंकाशं बालव्यजनमुत्तमम् ।
सरस्वती सरिच्छ्रेष्ठा गजारुढा समादधे ॥१२॥
ऋतवः षट् समादाय कुसुमं गन्धसंयुतम् ।
पञ्चवर्ण्म महेशानं जग्मुस्ते कामचारिणः ॥१३॥
मत्तमैरावतनिभं गजमारुह्य वेगवान् ।
अनुलेपनमादाय ययौ तत्र पृथूदकः ॥१४॥
गन्धर्वास्तुम्बुरुमुखा गायन्तो मधुरस्वरम् ।
अनुजग्मुर्महादेवं वादयन्तश्च किन्नराः ॥१५॥
नृत्यन्त्योऽप्सरसश्चैव स्तुवन्तो मुनयश्च तम् ।
गन्धर्वा यान्ति देवेशं त्रिनेत्रं शूलपाणिनम् ॥१६॥
एकादश तथा कोट्यो रुद्राणां तत्र वै ययुः ।
द्वादशैवादितेयानामष्टौ कोट्यो वसूनपि ॥१७॥
सप्तषष्टिस्तथा कोटयो गणानामृषिसत्तम ।
चतुर्विशत् तथा जग्मुऋषीणामूर्ध्वरेतसाम् ॥१८॥
असंख्यातानि यूथानि यक्षकिन्नररक्षसाम् ।
अनुजग्मुर्महेशानं विवाहाय समाकुलाः ॥१९॥
ततः क्षणेन देवेशः क्षमाधराधिपतेस्तलम् ।
संप्राप्तास्त्वागमन् शैलाः कुञ्चरस्थाः समन्ततः ॥२०॥
ततो ननाम भगवांस्त्रिनेत्रः स्थावराधिपम् ।
शैलाः प्रणेमुरीशानं ततोऽसौ मुदितोऽभवत् ॥२१॥
समं सुरैः पार्षदैश्च विवेश वृषकेतनः ।
नन्दिना दर्शिते मार्गे शैलराजपुरं महत् ॥२२॥
जीमूतकेतुरायात इत्येवं नगरस्त्रियः ।
निजं कर्म परित्यज्य दर्शनव्यापृताभवन् ॥२३॥
माल्यार्द्धमन्या चादाय करेणैकेन भामिनी ।
केशपाशं द्वितीयेन शङ्कराभिमुखी गता ॥२४॥
अन्याऽलक्तकरागाढ्यं पादं कृत्वाकुलेक्षणा ।
अनलक्तकमेकं हि हरं द्रष्टुमुपागता ॥२५॥
एकेनाक्ष्णाञ्जितेनैव श्रुत्वा भीममुपागतम् ।
साञ्जनां च प्रगृह्यान्या शलाकां सुष्ठु धावति ॥२६॥
अन्या सरसनं वासः पाणिनादाय सुन्दरी ।
उन्मत्तेवागमन्नग्ना हरदर्शनलालसा ॥२७॥
अन्यातिक्रान्तमीशानं श्रुत्वा स्तनभरालसा ।
अनिन्दत रुषा बाला यौवनं स्वं कृशोदरी ॥२८॥
इत्थं स नगरस्त्रीणां क्षोभं संजनयन हरः ।
जगाम वृषभारुढो दिव्यं श्वशुरमन्दिरम् ॥२९॥
ततः प्रविष्टं प्रसमीक्ष्य शम्भुं शैलेन्द्रवेश्मन्यबला ब्रुवन्ति ।
स्थाने तपो दुश्चरमम्बिकायाश्चीर्णं महानेष सुरस्तु शम्भुः ॥३०॥
स एष येनाङ्गमनङ्गतां कृतं कन्दर्पनाम्नः कुसुमायुधस्य ।
क्रतोः क्षयी दक्षविनाशकर्ता भगाक्षिहा शूलधरः पिनाकी ॥३१॥
नमो नमः शङ्कर शूलपाणे मृगारिचर्माम्बर कालशत्रो ।
महाहिहाराङ्कितकुण्डलाय नमो नमः पार्वतिवल्लभाय ॥३२॥
इत्थं संस्तूयमानः सुरपतिविधृतेनातपत्रेण शम्भुः सिद्धैर्वन्द्यः सयक्षैरहिकृतवलयी चारुभस्मोपालिप्तः ।
अग्रस्थेनाग्रजेन प्रमुदितमनसा विष्णुना चानुगेन वैवाहीं मङ्गलाढ्यां हुतवहमुदितामारुरोहाथ वेदीम् ॥३३॥
आयाते त्रिपुरान्तके सहचरैः सार्धं च सप्तर्षिभिर्व्यग्रोऽभूदगिरिराजवेश्मनि जनः काल्याः समालङ्कृतौ ।
व्याकुलं समुपागताश्च गिरयः पूजादिना देवताः प्रायो व्याकुलिता भवन्ति सुहदः कन्याविवाहोत्सुकाः ॥३४॥
प्रसाध्य देवीं गिरिजां ततः स्त्रियो दुकूलशुक्लाभिवृताङ्गयष्टिकाम् ।
भ्रात्रा सुनाभेन तदोत्सवे कृते सा शङ्कराभ्याशमथोपपादिता ॥३५॥
ततः शुभे हर्म्यतले हिरण्मये स्थिताः सुराः शङ्करकालिचेष्टितम् ।
पश्यन्ति देवोऽपि समं कृशाङ्ग्या लोकानुजुष्टं पदमाससाद ॥३६॥
यत्र क्रीडा विचित्राः सुकुसुमतरवो वारिणो विन्दुपातैर्गन्धाढ्यैर्गन्धचूर्णैः प्रविरलमवनौ गुण्डितौ गुण्डिकायाम् ।
मुक्तादामैः प्रकामं हरगिरितनया क्रीडनार्थ तदाऽघ्नत पश्चात सिन्दूरपुञ्चैविरतविततैश्चक्रतुः क्ष्मा सुरक्ताम् ॥३७॥
एवं क्रीडां हरः कृत्वा समं च गिरिकन्यया ।
आगच्छद दक्षिणां वेदिमृषिभिः सेवितां दृढाम् ॥३८॥
अथाजगाम हिमवान् शुक्लाम्बरधरः शुचिः ।
पवित्रपाणीरादाय मधुपर्कमथोज्ज्वलम् ॥३९॥
उपविष्टास्त्रिनेत्रस्तु शाक्रीं दिशमपश्यत ।
सप्तर्षिकांश्च शैलेन्द्रः सूपविष्टोऽवलोकयन् ॥४०॥
सुखासीनस्य शर्वस्य कताञ्जलिपुटो गिरिः ।
प्रोवाच वचनं श्रीमान् धर्मसाधनमात्मनः ॥४१॥
हिमवानुवाच
मत्पुत्रीं भगवन् कालीं पौत्रीं च पुलहाग्रजे ।
पितृणामपि दौहित्रीं प्रतीच्छेमां मयोद्यताम् ॥४२॥
पुलस्त्य उवाच
इत्येवमुक्त्वा शैलेन्द्रो हस्तं हस्तेन योजयन् ।
प्रादात् प्रतीच्छ भगवन् इदमुच्चैरुदीरयन् ॥४३॥
हर उवाच
न मेऽस्ति माता न पिता तथैव न ज्ञातयो वाऽपि च बान्धवाश्च ।
निराश्रयोऽहं गिरिश्रृङ्गवासी सुतां प्रतीच्छामि तवाद्रिराज ॥४४॥
इत्येवमुक्त्वा वरदोऽवपीडयत् करं करेणाद्रिकुमारिकायाः ।
सा चापि संस्पर्शमवाप्य शम्भोः परां मुदं लब्धवती सुरर्षे ॥४५॥
तथाधिरुढो वरदोऽथ वेदिं सहाद्रिपुत्र्या मधुपर्कमश्नन् ।
दत्त्वा च लाजान् कमलस्य शुक्लांस्ततो विरिञ्चो गिरिजामुवाच ॥४६॥
समदृष्टिः स्थिरा भूत्वा कुरुष्वाग्नेः प्रदक्षिणम् ॥४७॥
ततोऽम्बिका हरमुखे दृष्टे शैत्यमुपागता ।
यथार्करश्मिसंतप्ता प्राप्य वृष्टिमिवावनिः ॥४८॥
भूयः प्राह विभोर्वक्त्रमीक्षस्वेति पितामहः ।
लज्जया साऽपि दृष्टेति शनैर्ब्रह्माणमब्रवीत् ॥४९॥
समं गिरिजया तेन हुताशस्त्रिः प्रदक्षिणम् ।
कृतो लाजाश्च हविषा समं क्षिप्ता हुताशने ॥५०॥
ततो हराङ्घिमालिन्या गृहीतो दायकारणात् ।
किं याचसि च दास्यामि मुञ्चस्वेति हरोऽब्रवीत् ॥५१॥
मालिनी शङ्करं प्राह मत्सख्या देहि शङ्कर ।
सौभाग्यं निजगोत्रीयं ततो मोक्षमवाप्स्यासि ॥५२॥
अथोवाच महादेवो दत्तं मालिनि मुञ्च माम् ।
सौभाग्यं निजगोत्रीयं योऽस्यास्तं श्रृणु वच्मि ते ॥५३॥
योऽसौ पीताम्बरधरः शङ्खधृङ्मधुसूदनः ।
एतदीयो हि सौभाग्यो दत्तोऽस्मदगोत्रमेव हि ॥५४॥
इत्येवमुक्ते वचने प्रमुमोच वृषध्वजम् ।
मालिनी निजगोत्रस्य शुभचारित्रमालिनी ॥५५॥
यदा हरो हि मालिन्या गृहीतश्चरणे शुभे ।
तदा कालीमुखं ब्रह्मा ददर्श शशिनोऽधिकम् ॥५६॥
तद दृष्ट्वा क्षोभमगमच्छुक्रच्युतिमवाप च ।
तच्छुक्रं बालुकायां च खिलीचक्रे ससाध्वसः ॥५७॥
ततोऽब्रवीद्धरो ब्रह्मन् न द्विजान् हन्तुमर्हसि ।
अमी महर्षयो धन्या बालखिल्याः पितामह ॥५८॥
ततो महेशवाक्यान्ते समुत्तस्थुस्तपस्विनः ।
अष्टाशीतिसहस्त्राणि बालखिल्या इति स्मृताः ॥५९॥
ततो विवाहे निर्वृते प्रविष्टः कौतुकं हरः ।
रेमे सहोमया रात्रिं प्रभाते पुनरुत्थितः ॥६०॥
ततोऽद्रिपुत्रीं समवाप्य शम्भुः सुरैः समं भूतगणैश्च हष्टः ।
सम्पूजितः पर्वतपार्थिवेन स मन्दरं शीघ्रमुपाजगाम ॥६१॥
ततः सुरान् ब्रह्महरीन्द्रमुख्यान् प्रणम्य सम्पूज्य यथाविभागम् ।
विसर्ज्य भूतैः सहितो महीध्रमध्यावसन्मन्दरमष्टमूर्तिः ॥६२॥