ब्रह्मोवाच
यदर्थमिह संप्राप्ता भवन्तः सर्व एव हि ।
चिन्तयाम्यहमप्यग्रे तदर्थं च महाबलाः ॥१॥
भविष्यन्ति च वः सर्वं काङ्क्षितं यत् सुरोत्तमाः ।
बलेर्दानवमुख्यस्य योऽस्य जेता भविष्यति ॥२॥
न केवलं सुरादीनां गतिर्मम स विश्वकृत् ।
त्रैलोक्यस्यापि नेता च देवानामपि स प्रभुः ॥३॥
यः प्रभुः सर्वलोकानां विश्वेराश्च सनातनः ।
पूर्वजोऽयं सदाप्याहुरादिदे वं सनातनम् ॥४॥
तं देवापि महात्मानं न विदुः कोऽप्यसाविति ।
देवानस्मान् श्रुतिं विश्वं स वेत्ति पुरुषोत्तमः ॥५॥
तस्यैव तु प्रसादेन प्रवक्ष्ये परमां गतिम् ।
यत्र योगं समास्थाय तपश्चरति दुश्चरम् ॥६॥
क्षीरोदस्योत्तरे कूले उदीच्यां दिशि विश्वकृत् ।
अमृतं नाम परमं स्थानमाहुर्मनीषिणः ॥७॥
भवन्तस्तत्र वै गत्वा तपसा शंसितव्रताः ।
अमृतं स्थानमासाद्य तपश्चरत दुश्चरम् ॥८॥
ततः श्रोष्यथ संघुष्टां स्त्रिग्धगम्भीरनिः स्वनाम् ।
उष्णान्ते तोयदस्येव तोयपूर्णस्य निः स्वनम् ॥९॥
रक्तां पुष्टाक्षरां रम्यामभयां सर्वदा शिवाम् ।
वाणीं परमसंस्कारां वदतां ब्रह्मवादिनाम् ॥१०॥
दिव्यां सत्यकरीं सत्यां सर्वकल्मषनाशिनीम् ।
सर्वदेवाधिदेवस्य ततोऽसौ भावितात्मनः ॥११॥
तस्य व्रतसमाप्त्यां तु योगव्रतविसर्जने ।
अमोघं तस्य देवस्य विश्वतेजो महात्मनः ॥१२॥
कस्य किं वो वरं देवा ददामि वरदः स्थितः ।
स्वागतं वः सुरश्रेष्ठा मत्समीपमुपागताः ॥१३॥
ततोऽदितिः कश्यपश्च गृह्णीयातां वरं तदा ।
प्रणम्य शिरसा पादौ तस्मै देवाय धीमते ॥१४॥
भगवानेव नः पुत्रो भवत्विति प्रसीद नः ।
उक्तश्च परया वाचा तथाऽस्त्विति स वक्ष्यति ॥१५॥
देवा ब्रुवन्ति ते सर्वे कश्यपोऽदितिरेव च ।
तथास्त्विति सुराः सर्वे प्रणम्य शिरसा प्रभुम् ।
श्वेतद्वीपं समुद्दिश्य गताः सौम्यदिशं प्रति ॥१६॥
तेऽचिरेणैव संप्राप्ताः क्षीरोदं सरितां पतिम् ।
यथोद्दिष्टं भगवता ब्रह्मणा सत्यवादिना ॥१७॥
ते क्रान्ताः सागरान् सर्वान् पर्वतांश्च सकाननान् ।
नदीश्च विविधा दिव्याः पृथिव्यां ते सुरोत्तमाः ॥१८॥
अपश्यन्त तमो घोरं सर्वसत्त्वविवर्जितम् ।
अभास्करममर्यादं तमसा सर्वतो वृतम् ॥१९॥
अमृतं स्थानमासाद्य कश्यपेन महात्मना ।
दीक्षिताः कामदं दिव्यं व्रतं वर्षसहस्त्रकम् ॥२०॥
प्रसादार्थं सुरेशाय तस्मै योगाय धीमते ।
नारायणाय देवाय सहस्त्राक्षाय भूतये ॥२१॥
ब्रह्मचर्चेण मौनेन स्थाने वीरासनेन च ।
क्रमेण च सुराः सर्वे तप उग्रं समास्थिताः ॥२२॥
कश्यपस्तत्र भगवान् प्रसादार्थं महात्मनः ।
उदीरयत वेदोक्तं यमाहुः परमं स्तवम् ॥२३॥