लोमहर्षण उवाच
ततस्त्वौशनसं तीर्थं गच्छेत्तु श्रद्धयान्वितः ।
उशना यत्र संसिद्धो ग्रहत्वं च समाप्तवान् ॥१॥
तस्मिन् स्त्रात्वा विमुक्तस्तु पातकैर्जन्मसम्भवैः ।
ततो याति परं ब्रह्म यस्मान्नावर्तते पुनः ॥२॥
रहोदरो नाम मुनिर्यत्र मुक्तो बभूव ह ।
महता शिरसा ग्रस्तस्तीर्थमाहात्म्यदर्शनात ॥३॥
ऋषय ऊचुः
कथं रहोदरो ग्रस्तः कथं मोक्षमवाप्तवान् ।
तीर्थस्य तस्य माहात्म्यमिच्छामः श्रोतुमादरात् ॥४॥
लोमहर्षण उवाच
पुरा वै दण्डकारण्ये राघवेण महात्मना ।
वसता द्विजशार्दूला राक्षसास्तत्र हिंसिताः ॥५॥
तत्रैकस्य शिरश्छिन्नं राक्षसस्य दुरात्मनः ।
क्षुरेण शिरधारेण तत् पपात महावने ॥६॥
रहोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया ।
वने विचरतस्तत्र अस्थि भित्त्वा विवेश ह ॥७॥
स तेन लग्नेन तदा द्विजातिर्न शशाक ह ।
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥८॥
स पूतिना विस्त्रवता वेदनार्त्तो महामुनिः ।
जगाम सर्वतीर्थानि पृथिव्यां यानि कानि च ॥९॥
ततः स कथयामास ऋषीणां भावितात्मनाम् ।
तेऽब्रुवन् ऋषयो विप्रं प्रयाह्यौशनसं प्रति ॥१०॥
तेषां तद्वचनं श्रुत्वा जगाम स रहोदरः ।
ततस्त्वौशनसे तीर्थे तस्योपस्पृशतस्तदा ॥११॥
तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले द्विजाः ।
ततः स विरजो भूत्वा पूतात्मा वीतकल्मषः ॥१२॥
आजगामाश्रमं प्रीतः कथयामास चाखिलम् ।
ते श्रुत्वा ऋषयः सर्वे तीर्थमाहात्म्यमुत्तमम् ।
कपालमोचनमिति नाम चक्रुः समागताः ॥१३॥
तत्रापि सुमहत्तीर्थं विश्वामित्रस्य विश्रुतम् ।
ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महामुनिः ॥१४॥
तस्मिंस्तीर्थवरे स्त्रात्वा ब्राह्मण्यं लभते ध्रुवम् ।
ब्राह्मणस्तु विशुद्धात्मा परं पदमवाप्नुयात् ॥१५॥
ततः पृथूदकं गच्छेन्नियतो नियताशनः ।
तत्र सिद्धस्तु ब्रह्मर्षी रुषङ्गुर्नाम नामतः ॥१६॥
जातिस्मरो रुषङ्गुस्तु गङ्गाद्वारे सदा स्थितः ।
अन्तकालं ततो दृष्ट्वा पुत्रान् वचनमब्रवीत् ।
इह श्रेयो न पश्यामि नयध्वं मां पृथूदकम् ॥१७॥
विज्ञाय तस्य तद्भावं रुषङ्गोस्ते तपोधनाः ।
तं वै तीर्थे उपानिन्युः सरस्वत्यास्तपोधनम् ॥१८॥
स तैः पुत्रैः समानीतः सरस्वत्यां समाप्लुतः ।
स्मृत्वा तीर्थगुणान् सर्वान् प्राहेदमृषिसत्तमः ॥१९॥
सरस्वत्युत्तरे तीर्थे यस्त्यजेदात्मनस्तनुम् ।
पृथूदके जप्यपरो नूनं चामरतां व्रजेत् ॥२०॥
तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्मिता ।
पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः ॥२१॥
चातुर्वर्ण्यस्य सृष्ट्यर्थमात्मज्ञानपरोऽभवत् ।
तस्याभिध्यायतः सृष्टिं ब्रह्मणो व्यक्तजन्मनः ॥२२॥
मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियास्तथा ।
ऊरुभ्यां वैश्यजातीयाः पदभ्यां शूद्रास्ततोऽभवन् ॥२३॥
चातुर्वर्ण्यं ततो दृष्ट्वा आश्रमस्थं ततस्ततः ।
एवं प्रतिष्ठितं तीर्थं ब्रह्मयोनीति संज्ञितम् ॥२४॥
तत्र स्त्रात्वा मुक्तिकामः पुनर्योनिं न पश्यति ।
तत्रैव तीर्थं विख्यातमवकीर्णेति नामतः ॥२५॥
यस्मिंस्तीर्थे वको दाल्भ्यो धृतराष्ट्रममर्षणम् ।
जुहाव वाहनैः सार्धं तत्राबुध्यत् ततो नृपः ॥२६॥
ऋषय ऊचुः
कथं पतिष्ठितं तीर्थमवकीर्णेति नामतः ।
धृतराष्ट्रेण राज्ञा च स किमर्थं प्रसादितः ॥२७॥
लोमहर्षण उवाच
ऋषयो नैमिषेया ये दक्षिणार्थं ययुः पुरा ।
तत्रैव च वको दाल्भ्यो धृतराष्ट्रमयाचत ॥२८॥
तेनापि तत्र निन्दार्थमुक्तं पश्वनृतं तु यत् ।
ततः क्रोधेन महता मांसमुत्कृत्य तत्र ह ॥२९॥
पृथूदके महातीर्थे अवकीर्णैति नामतः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेस्ततः ॥३०॥
हूयमाने तदा राष्ट्रे प्रवृत्ते यज्ञकर्मणि ।
अक्षीयत ततो राष्ट्रं नृपतेर्दुष्कृतेन वै ॥३१॥
ततः स चिन्तयामास ब्राह्मणस्य विचेष्टितम् ।
पुरोहितेन संयुक्तो रत्नान्यादाय सर्वशः ॥३२॥
प्रसादनार्थं विप्रस्य ह्यवकीर्णं ययौ तदा ।
प्रसादितः स राज्ञा च तुष्टः प्रोवाच तं नृपम् ॥३३॥
ब्राह्मणा नावमन्तव्याः पुरुषेण विजानता ।
अवज्ञातो ब्राह्मणस्तु हन्यात् त्रिपुरुषं कुलम् ॥३४॥
एवमुक्त्वा स नृपतिं राज्येन यशसा पुनः ।
उत्थापयामास ततस्तस्य राज्ञे हिते स्थितः ॥३५॥
तस्मिंस्तीर्थे तु यः स्त्राति श्रद्दधानो जितेन्द्रियः ।
स प्राप्नोति नरो नित्यं मनसा चिन्तितं फलम् ॥३६॥
तत्र तीर्थं सुविख्यातं यायातं नाम नामतः ।
यस्येह यजमानस्य मधु सुस्त्राव वै नदी ॥३७॥
तस्मिन् स्त्रातो नरो भक्त्या मुच्यते सर्वकिल्बिषैः ।
फलं प्राप्नोति यज्ञस्य अश्वमेधस्य मानवः ॥३८॥
मधुस्त्रवं च तत्रैव तीर्थं पुण्यतमं द्विजाः ।
तस्मिन् स्त्रात्वा नरो भक्त्या मधुना तर्पयेत् पितृन् ॥३९॥
तत्रापि सुमहत्तीर्थं वसिष्ठोद्वाहसंज्ञितम् ।
तत्र स्त्रातो भक्तियुक्तो वासिष्ठं लोकमाप्नुयात् ॥४०॥