नारद उवाच
नेत्रहीनः कथं राज्ये प्रह्लादेनान्धको मुने ।
अभिषिक्तो जानताऽपि राजधर्मं सनातनम् ॥१॥
पुलस्त्य उवाच
लब्धचक्षुरसौ भूयो हिरण्याक्षेऽपि जीवति ।
ततोऽभिषिक्तो दैत्येन प्रह्लादेन निजे पदे ॥२॥
नारद उवाच
राज्येऽन्धकोऽभीषिक्तस्तु किमाचरत सुव्रत ।
देवादिभिः सह कथं समास्ते तद् वदस्व मे ॥३॥
पुलस्त्य उवाच
राज्येऽभिषिक्तोदैत्येन्द्रो हिरण्याक्षसुतोऽन्धकः ।
तपसाराध्य देवेशं शूलपाणिं त्रिलोचनम् ॥४॥
अजेयत्वमवध्यत्वं सुरसिद्धर्षिपन्नगैः ।
अदाह्यत्वं हुताशेन अक्लेद्यत्वं जलेन च ॥५॥
एवं स वरलब्धस्तु दैत्यो राज्यमपालयत् ।
शुक्रं पुरोहितं कृत्वा समध्यास्ते ततोऽन्धकः ॥६॥
ततश्चक्रे समुद्योगं देवानामन्धकोऽसुरः ।
आक्रम्य वसुधां सर्वां मनुजेन्द्रान् पराजयत् ॥७॥
पराजित्य महीपालान् सहायार्थे नियोज्य च ।
तैः समं मेरुशिखरं जगामाद्भुतदर्शनम् ॥८॥
शक्रोऽपि सुरसैन्यानि समुद्योज्य महागजम् ।
समारुह्यामरावत्यां गुप्तिं कृत्वा विनिर्ययौ ॥९॥
शक्रस्यानु तथैवान्ये लोकपाला महौजसः ।
आरुह्य वाहनं स्वं स्वं सायुधा निर्ययुर्बहिः ॥१०॥
देवसेनाऽपि च समं शक्रेणाद्भुतकर्मणा ।
निर्जगामातिवेगेन गजवाजिरथादिभिः ॥११॥
अग्रतो द्वादशादित्याः पृष्ठतश्च त्रिलोचनाः ।
मध्येऽष्टौ वसवो विश्वे साध्याश्विमरुतां गणाः ।
यक्षविद्याधराद्याश्च स्वं स्वं वाहनमास्थिताः ॥१२॥
नारद उवाच
रुद्रादीनां वदस्वेह वाहनानि च सर्वशः ।
एकैकस्यापि धर्मज्ञ परं कौतूहलं मम ॥१३॥
पुलस्त्य उवाच
श्रृणुष्व कथयिष्यामि सर्वेषामपि नारद ।
वाहनानि समासेन एकैकस्यानुपूर्वशः ॥१४॥
रुद्रहस्ततलोत्पन्नो महावीर्यो महाजवः ।
श्वेतवर्णो गजपतिर्देवराजस्य वाहनम् ॥१५॥
रुद्रोरुसंभवो भीमः कृष्णवर्णो मनोजवः ।
पौण्ड्रको नाम महिषो धर्मराजस्य नारद ॥१६॥
रुद्रकर्णमलोद्भूतः श्यामो जलाधिसंज्ञकः ।
शिशुमारो दिव्यगतिः वाहनं वरुणस्य च ॥१७॥
रौद्रः शकटचक्राक्षः शैलाकारो नरोत्तमः ।
अम्बिकापादसंभूतो वाहनं धनदस्य तु ॥१८॥
एकादशानां रुद्राणां वाहनानि महामुने ।
गन्धर्वाश्च महावीयां भुजगेन्द्राश्च दारुणाः ।
श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च ॥१९॥
रथं चन्द्रमसश्चार्द्धसहस्त्रं हंसवाहनम् ।
हरयो रथवाहाश्च आदित्या मुनिसत्तम ॥२०॥
कुञ्जरस्थाश्च वसवो यक्षाश्च नरवाहनाः ।
किन्नरा भुजगारुढा हयारुढौ तथाश्विनौ ॥२१॥
सारङ्गाधिष्ठिता ब्रह्मन् मरुतो घोरदर्शनाः ।
शुकारुढाश्च कवयो गन्धर्वाश्च पदातिनः ॥२२॥
आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः ।
संनह्य निर्ययुर्हष्टा युद्धाय सुमहौजसः ॥२३॥
नारद उवाच
गदितात्नि सुरादीनां वाहनानि त्वया मुने ।
दैत्यानां वाहनान्येव यथावद वक्तुमर्हसि ॥२४॥
पुलस्त्य उवाच
श्रृणुष्व दानवादीनां वाहनानि द्विजोत्तम ।
कथयिष्यामि तत्त्वेन यथावच्छ्रोतुमर्हसि ॥२५॥
अन्धकस्य रथो दिव्यो युक्तः परमवाजिभिः ।
कृष्णवर्णैः सहस्त्रारस्त्रिनल्वपरिमाणवान् ॥२६॥
प्रह्लादस्य रथो दिव्यश्चन्द्रवर्णैर्हयोत्तमैः ।
उह्यमानस्तथाऽष्टाभिः श्वेतरुक्ममयः शुभः ॥२७॥
विरोचनस्य च गजः कुजम्भस्य तुरंगमः ।
जम्भस्य तु रथो दिव्यो हयैः काञ्चनसन्निभैः ॥२८॥
शङ्कुकर्णस्य तुरगो हयग्रीवस्य कुञ्जरः ।
रथो मयस्य विख्यातो दुन्दुभेश्च महोरगः ।
शम्बरस्य विमानोऽभूदयः शङ्कोर्मृगाधिपः ॥२९॥
बलवृत्रौ च बलिनौ गदामुसलधारिणौ ।
पदभ्यां दैवतसैन्यानि अभिद्रवितुमुद्यतौ ॥३०॥
ततो रणोऽभूत तुमुलः संकुलोऽतिभयंकरः ।
रजसा संवृतो लोको पिङ्गवर्णेन नारद ॥३१॥
नाज्ञासीच्च पिता पुत्रं न पुत्रः पितरं तथा ।
स्वानेवान्ये निजघ्नुर्वै परानन्ये च सुव्रत ॥३२॥
अभिद्रुतो महावेगो रथोपरि रथस्तदा ।
गजो मत्तगजेन्द्रं च सादी सादिनमभ्यगात् ॥३३॥
पदातिरपि संक्रुद्धः पदातिनमथोल्बणम् ।
परस्परं तु प्रत्यघ्नन्नन्योजयकाङ्क्षिणः ॥३४॥
ततस्तु संकुले तस्मिन् युद्धे दैवासुरे मुने ।
प्रावर्तत नदी घोरा शमयन्ती रणाद्रजः ॥३५॥
शोणितोदा रथावत्ता योधसंघट्टवाहिनी ।
गजकुम्भमहाकूर्मा शरमीना दुरत्यया ॥३६॥
तीक्ष्णाग्रप्रासमकरा महसिग्राहवाहिनी ।
अन्त्रशैवालसंकीर्णा पताकाफेनमालिनी ॥३७॥
गृध्रकङ्कमहाहंसा श्येनचक्राह्वमण्डिता ।
वनवायसकादम्बा गोमायुश्वापदाकुला ॥३८॥
पिशाचमुनिसंकीर्णा दुस्तरा प्राकृतैर्जनैः ।
रथप्लवैः संतरन्तः शूरास्तां प्रजगाहिरे ॥३९॥
आगुल्फादवमज्जन्तः सूदयन्तः परस्परम् ।
समुत्तरन्तो वेगेन योधा जयधनेप्सवः ॥४०॥
ततस्तु रौद्रे सुरदैत्यसादने महाहवे भीरुभयंकरेऽथ ।
रक्षांसि यक्षाश्च सुसंप्रहष्टाः पिशाचयूथास्त्वाभिरेमिरे च ॥४१॥
पिबन्त्यसृग्गाढतरं भटानामालिङ्ग्य मांसानि च भक्षयन्ति ।
वसां विलुम्पन्ति च विस्फुरन्ति गर्जन्त्यथान्योन्यमथो वयांसि ॥४२॥
मुञ्चन्ति फेत्काररवाञ्शिवाश्च क्रन्दन्ति योधा भुवि वेदनार्त्ताः ।
शस्त्रप्रतप्ता निपतन्ति चान्ये युद्धं श्मशानप्रतिमं बभूव ॥४३॥
तस्मिञ्शिवाघोररवे प्रवृत्ते सुरासुराणां सुभयंकरे ह ।
युद्धं बभौ प्राणपणोपविद्धं द्वन्द्वेऽतिशस्त्राक्षगतो दुरोदरः ॥४४॥
हिरण्यचक्षुस्तनयो रणेऽन्धको रथे स्थितो वाजिसहस्त्रयोजिते ।
मत्तेभपृष्ठस्थितमुग्रतेजसं समेयिवान् देवपतिं शतक्रतुम् ॥४५॥
यमं प्रतीच्छद बलवान् दितीशः ।
प्रह्लादनामा तुरगाष्टयुक्तं रथं समास्थाय समुद्यतास्त्रः ॥४६॥
विरोचनश्चापि जलेश्वरं त्वगाज्जम्भस्त्वथागाद धनदं बलाढ्यम् ।
वायुं समभ्येत्य च शम्बरोऽथ मयो हुताशं युयुधे मुनीन्द्र ॥४७॥
अन्ये हयग्रीवमुखा महाबला दितेस्तनूजा दनुपुङ्गवाश्च ।
हुताशार्कवसूरगेश्वरान् द्वन्द्वं समासाद्य महाबलान्विताः ॥४८॥
गर्जन्त्यथान्योन्यमुपेत्य युद्धे चापानि कर्षन्त्यतिवेगिताश्च ।
मुञ्चन्ति नाराचगणान् सहस्त्रश आगच्छ हे तिष्ठसि किं ब्रुवन्तः ॥४९॥
शरैस्तु तीक्ष्णैरतितापयन्तः शस्त्रैरमोघैरभिताडयन्तः ।
मन्दाकिनीवेगनिभां वहन्तीं प्रवर्तयन्तो भयदां नदीं च ॥५०॥
त्रैलोक्यमाकांक्षिभिरुग्रवेगैः सुरासुरैर्नारद संप्रयुद्धे ।
पिशाचरक्षोगणपुष्टिवर्धनीमुत्तर्तुमिच्छद्भिरसृग्नदी बभौ ॥५१॥
वाद्यान्ति तूर्याणि सुरासुराणां पश्यन्ति खस्था मुनिसिद्धसंघाः ।
नयन्ति तानप्सरसां गणाग्र्या हता रणे येऽभिमुखास्तु शूराः ॥५२॥