सनत्कुमार उवाच
अथैनमब्रवीद देवस्त्रैलोक्याधिपतिर्भवः ।
आश्वासनकरं चास्य वाक्यविद वाक्यमुत्तमम् ॥१॥
अहो तुष्टोऽस्मि ते राजन् स्तवेनानेन सुव्रत ।
बहुनाऽत्र किमुक्तेन मत्समीपे वसिष्यसि ॥२॥
उषित्वा सुचिरं कालं मम गात्रोद्भवः पुनः ।
असुरो ह्यन्धको नाम भविष्यसि सुरान्तकृत् ॥३॥
हिरण्याक्षगृहे जन्म प्राप्य वृद्धिं गमिष्यसि ।
पूर्वाधर्मेण घोरेण वेदनिन्दाकृतेन च ॥४॥
साभिलाषो जगन्मातुर्भविष्यसि यदा तदा ।
देहं शूलेन हत्वाहं पावयिष्यामि समार्बुदम् ॥५॥
तत्राप्यकल्मषो भूत्वा स्तुत्वा मां भक्तितः पुनः ।
ख्याओ गणाधिपो भूत्वा नाम्ना भृङ्गिरिटिः स्मृतः ॥६॥
मत्सन्निधाने स्थित्वा त्वं ततः सिद्धिं गमिष्यसि ।
वेनप्रोक्तं स्तवमिमं कीर्त्तयेद यः श्रृणोति च ॥७॥
नाशुभं प्राप्नुयात् किंचिद दीर्घमायुरवाप्नुयात् ।
यथा सर्वेषु देवेषु विशिष्टो भगवाञ्शिवः ॥८॥
तथा स्तवो वरिष्ठोऽयं स्तवानां वेननिर्मित्तः ।
यशो राज्यसुखैश्चर्यधनमानाय कीर्त्तितः ॥९॥
श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ।
व्याधितो दुःखितो दीनश्चौरराजभयान्वितः ॥१०॥
राजकार्यविमुक्तो वा मुच्यते महतो भयात् ।
अननैव तु देहेन गणानां श्रेष्ठतां व्रजेत् ॥११॥
तेजसा यशसा चैव युक्तो भवति निर्मलः ।
न राक्षसाः पिशाचा वा न भूता न विनायकाः ॥१२॥
विघ्नं कुर्युर्गृहे तत्र यत्रायं पठ्यते स्तवैः ।
श्रृणुयाद या स्तवं नारी अनुज्ञां प्राप्य भर्तृतः ॥१३॥
मातृपक्षे पितुः पक्षे पूज्या भवति देववत् ।
श्रृणुयाद यः स्तवं दिव्यं कीर्तयेद वा समाहितः ॥१४॥
तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्ति नित्यशः ।
मनसा चिन्तितं यच्च यच्च वाचाऽनुकीर्तितम् ॥१५॥
सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ।
मनसा कर्मणा वाचा कृतमेनो विनश्यति ।
वरं वरय भद्रं ते यत्त्वया मनसेप्सितम् ॥१६॥
वेन उवाच
अस्य लिङ्गस्य माहात्म्यात् तथा लिङ्गस्य दर्शनात् ।
मुक्तोऽहं पातकैः सर्वैस्तव दर्शनतः किल ॥१७॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ।
देवस्वभक्षणाज्जातं श्वयोनौ तव सेवकम् ॥१८॥
एतस्यापि प्रसादं त्वं कर्तुमर्हसि शंकर ।
एतस्यापि भयान्मध्ये सरसोऽहं निमज्जितः ॥१९॥
देवैर्निवारितः पूर्वं तीर्थेऽस्मिन स्त्रानकारणात् ।
अयं कृतोपकारश्च एतदर्थे वृणोम्यहम् ॥२०॥
तस्यैतद वचनं श्रुत्वा तुष्टः प्रोवाच शंकरः ।
एषोऽपि पापनिर्मुक्तो भविष्यति न संशयः ॥२१॥
प्रसादान्मे महाबाहो शिवलोकं गमिष्यति ।
तथा स्तवमिमं श्रुत्वा मुच्यते सर्वपातकैः ॥२२॥
कुरुक्षेत्रस्य माहात्म्यं सरसोऽस्य महीपते ।
मम लिङ्गस्य चोत्पत्तिं श्रुत्वा पापैः प्रमुच्यते ॥२३॥
सनत्कुमार उवाच
इत्येवमुक्त्वा भगवान् सर्वलोकनमस्कृतः ।
पश्यतां सर्वलोकानां तत्रैवान्तरधीयत ॥२४॥
स च श्वा तत्क्षणादेव स्मृत्वा जन्म पुरातनम् ।
दिव्यमूर्तिधरो भूत्वा तं राजानमुपस्थितः ॥२५॥
कृत्वा स्त्रानं ततो वैन्यः पितृदर्शनलालसः ।
स्थाणुतीर्थे कुटी शून्यां दृष्ट्वा शोकसमन्वितः ॥२६॥
दृष्ट्वा वेनोऽब्रवीद् वाक्यं हर्षेण महताऽन्वितः ।
सत्पुत्रेण त्वया वत्स त्रातोऽहं नरकार्णवात् ॥२७॥
त्वयाभिषिञ्चितो नित्यं तीर्थस्य पुलिने स्थितः ।
अस्य साधोः प्रसादेन स्थाणोर्देवस्य दर्शनात् ॥२८॥
मुक्तपापश्च स्वर्लोकं यास्ये यत्र शिवः स्थितः ।
इत्येवमुक्त्वा राजानं प्रतिष्ठाप्य महेश्वरम् ॥२९॥
स्थाणुतीर्थे ययौ सिद्धिं तेन पुत्रेण तारितः ।
स च श्वा परमां सिद्धिं स्थणुतीर्थप्रभावतः ॥३०॥
विमुक्तः कलुषैः सर्वैर्जगाम भवमन्दिरम् ।
राजा पितृऋणैर्मुक्तः परिपाल्य वसुन्धराम् ॥३१॥
पुत्रानुत्पाद्य धर्मेण कृत्वा यज्ञं निरर्गलम् ।
दत्त्वा कामांश्च विप्रेभ्यो भुक्त्वा भोगान् पृथग्विधान् ॥३२॥
सुहदोऽथ ऋणैर्मुक्त्वा कामैः संतर्प्य च स्त्रियः ।
अभिषिच्य सुतं राज्ये कुरुक्षेत्रं ययौ नृपः ॥३३॥
तत्र तप्त्वा तपो घोरं पूजयित्वा च शङ्करम् ।
आत्मेच्छया तनुं त्यक्त्वा प्रयातः परमं पदम् ॥३४॥
एतत्प्रभावं तीर्थस्य स्थाणोर्यः श्रृणुयान्नरः ।
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥३५॥