लोमहर्षण उवाच
इति दैत्यपतिः श्रुत्वा वचनं रौद्रमाप्रियम् ।
प्रसादयामास गुरुं प्रणिपत्य पुनः पुनः ॥१॥
बलिरुवाच
प्रसीद तात मा कोपं कुरु मोहहते मयि ।
बलावलेपमूढेन मयैतद्वाक्यमीरितम् ॥२॥
मोहापहतविज्ञानः पापोऽहं दितिजोत्तम ।
यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ॥३॥
राज्यभ्रंशं यशोभ्रंशं प्राप्स्यामीति ततस्त्वहम् ।
विषण्णोऽसि यथा तात तथैवाविनये कृते ॥४॥
त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम् ।
संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ॥५॥
प्रसीद तात मा कोपं कर्तुमर्हसि दैत्यप ।
त्वत्कोपपरिदग्धोऽहं परितप्ये दिवानिशम् ॥६॥
प्रह्लाद उवाच
वत्स कोपेन मे मोहो जनितस्तेन ते मया ।
शापो दत्तो विवेकश्च मोहेनापहतो मम ॥७॥
यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर ।
तत्कथं सर्वगं जानन् हरिं कच्चिच्छपाम्यहम् ॥८॥
यो यः शापो मया दत्तो भवतोऽसुरपुंगव ।
भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीद वै ॥९॥
अद्यप्रभृति देवेशे भगवत्यच्युते हरौ ।
भवेथा भक्तिमानीशे स ते त्राता भविष्यति ॥१०॥
शापं प्राप्य च मे वीर देवेशः संस्मृतस्त्वया ।
तथा तथा वदिष्यामि श्रेयस्त्वं प्राप्स्यसे यथा ॥११॥
लोमहर्षण उवाच
अदितिर्वरमासाद्य सर्वकामसमृद्धिदम् ।
क्रमेण ह्युदरे देवो वृद्धिं प्राप्तो महायशाः ॥१२॥
ततो मासेऽथ दशमे काले प्रसव आगते ।
अजायत स गोविन्दो भगवान् वामनाकृतिः ॥१३॥
अवतीर्णे जगन्नाथे तस्मिन् सर्वामरेश्वरे ।
देवाश्च मुमुचुर्दुःखं देवमाताऽदितिस्तथा ॥१४॥
ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः ।
धर्मे च सर्वभूतानां तदा मतिरजायत ॥१५॥
नोद्वेगश्चाप्यभूद देहे मनुजानां द्विजोत्तमाः ।
तदा हि सर्वभूतानां धर्मे मतिरजायत ॥१६॥
तं जातमात्रं भगवान् ब्रह्मा लोकपितामहः ।
जातकर्मादिकां कृत्वा क्रियां तुष्टाव च प्रभुम् ॥१७॥
ब्रह्मोवाच
जयाधीश जयाजेय जय विश्वगुरो हरे ।
जन्ममृत्युजरातीत जयानन्त जयाच्युत ॥१८॥
जयाजित जयाशेष जयाव्यक्तस्थिते जय ।
परमार्थार्थ सर्वज्ञ ज्ञानज्ञेयार्थनिः सृत ॥१९॥
जयाशेष जगत्साक्षिञ्जगत्कर्त्तुर्जगदगुरो ।
जगतोऽजगदन्तेश स्थितौ पालयते जय ॥२०॥
जयाखिल जयाशेष जय सर्वहदिस्थित ।
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ॥२१॥
मुमुक्षुभिरनिर्देश्य नित्यहष्ट जयेश्वर ।
योगिभिर्मुक्तिकामैस्तु दमादिगुणभूषण ॥२२॥
जयातिसूक्ष्म दुर्ज्ञेय जय स्थूल जगन्मय ।
जय सूक्ष्मातिसूक्ष्म त्वं जयानिन्द्रिय सेन्द्रिय ॥२३॥
जय स्वमायायोगस्थ शेषभोग जयाक्षर ।
जयैकदंष्टप्रान्तेन समुद्धतवसुंधर ॥२४॥
नृकेसरिन् सुरारातिवक्षः स्थलविदारण ।
साम्प्रतं जय विश्वात्मन् मायावामन केशव ॥२५॥
निजमायापरिच्छिन्न जगद्धातर्जनार्दन ।
जयाचिन्त्य जयानेकस्वरुपैकविध प्रभो ॥२६॥
वर्द्धस्व वर्धितानेकविकारप्रकृते हरे ।
त्वय्येषा जगतामीशे संस्थिता धर्मपद्धतिः ॥२७॥
न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे ।
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ॥२८॥
त्वं मायापटसंवीतो जगत्यत्र जगत्पते ।
कस्त्वां वेत्स्यति सर्वेश त्वत्प्रसादं विना नरः ॥२९॥
त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो ।
स वे केवलं देवं वेत्ति त्वां नेतरो जनः ॥३०॥
तदीश्वरेश्वरेशान विभो वर्द्धस्व भावन ।
प्रभवायास्य विश्वस्य विश्वात्मन् पृथुलोचन ॥३१॥
लोमहर्षण उवाच
एवं स्तुतो हषीकेशः स तदा वामनाकृतिः ।
प्रहस्य भावगम्भीरमुवाचरुढसम्पदम् ॥३२॥
स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च ।
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ॥३३॥
भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि मया श्रुतम् ।
यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ॥३४॥
सोऽहं तथा करिष्यामि यथेन्द्रो जगतः पतिः ।
भविष्यति सहस्त्राक्षः सत्यमेतद ब्रवीमि वः ॥३५॥
ततः कृष्णाजिनं ब्रह्मा हषीकेशाय दत्तवान् ।
यज्ञोपवीतं भगवान् ददौ तस्य बृहस्पतिः ॥३६॥
आषाढमददाद दण्डं मरीचिर्ब्रह्मणः सुतः ।
कमण्डलुं वसिष्ठश्च कौशं चीरमथाङ्गिराः ।
आसनं चैव पुलहः पुलस्त्यः पीतवाससी ॥३७॥
उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः ।
शास्त्राण्यशेषाणि तथा सांख्ययोगोक्तयश्च याः ॥३८॥
स वामनो जटी दण्डी छत्री धृतकमण्डलुः ।
सर्वदेवमयो देवो बलेरध्वरमभ्यगात् ॥३९॥
यत्र यत्र पदं विप्रा भूभागे वामनो ददौ ।
ददाति भूमिर्विवरं तत्र तत्राभीपीडता ॥४०॥
स वामनो जडगतिर्मुदु गच्छन् सपर्वताम् ।
साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम् ॥४१॥
बृहस्पतिस्तु शनकैर्मार्गं दर्शयते शुभम् ।
तथा क्रीडाविनोदार्थमतिजाड्यगतोऽभवत् ॥४२॥
ततः शेषो महानागो निःसृत्यासौ रसातलात् ।
साहाय्यं कल्पयामास देवदेवस्य चक्रिणः ॥४३॥
तदद्यापि च विख्यातमहेर्विलमनुत्तमम् ।
तस्य संदर्शनादेव नागेभ्यो न भयं भवेत् ॥४४॥