पुलस्त्य उवाच
संनिवृत्ते ततो बाणे दानवाः सत्वरं पुनः ।
निवृत्ता देवतानां च सशस्त्रा युद्धलालसाः ॥१॥
विष्णुरप्यमितौजास्तं ज्ञात्वाऽजेयं बलेः सुतम् ।
प्राहामन्त्र्य सुरान् सर्वान् युध्यध्वं विगतज्वराः ॥२॥
विष्णुनाऽथ समादिष्टा देवाः शक्रपुरोगमाः ।
युयुधुर्दानवैः सार्धं विष्णुस्त्वन्तधीयत ॥३॥
माधवं गतमाज्ञाय शुक्रो बलिमुवाच ह ।
गोविन्देन सुरास्त्यक्तास्त्वं जयस्वाधुना बले ॥४॥
स पुरोहितवाक्येन प्रीतो याते जनार्दने ।
गदामादाय तेजस्वी देवसैन्यमाभिद्रुतः ॥५॥
बाणो बाहुसहस्त्रेण गृह्य प्रहरणान्यथ ।
देवसैन्यमभिद्रुत्य निजघान सहस्त्रशः ॥६॥
मयोऽपि मायामास्थाय तैस्तै रुपान्तरैर्मुने ।
योधयामास बलवान् सुराणां च वरुथिनीम् ॥७॥
विद्युज्जिह्वः पारिभद्रो वृषपर्वा शतेक्षणः ।
विपाको विक्षरः सैन्यं तेऽपि देवानुपाद्रवन् ॥८॥
ते हन्यमाना दितिजैर्देवाः शक्रपुरोगमाः ।
गते जनार्दने देवे प्रायशो विमुखाऽभवन् ॥९॥
तान् प्रभग्नान् सुरगणान् बलिबाणपुरोगमाह ।
पृष्ठतश्चाद्रवन् सर्वे त्रैलोक्यविजिगीषवः ॥१०॥
सम्बाध्यमाना दैतेयैर्देवाः सेन्द्रा भयातुराः ।
त्रिविष्टपं परित्यज्य ब्रह्मलोकमुपागताः ॥११॥
ब्रह्मलोकं गतेष्वित्थं सेन्द्रेष्वपि सुरेषु वै ।
स्वर्गभोक्ता बलिर्जातः सपुत्रभ्रातृबान्धवः ॥१२॥
शक्रोऽभूद भगवान् ब्रह्मन् बलिबाणो यमोऽभवत् ।
वरुणोऽभून्मयः सोमो राहुर्ह्वादो हुताशनः ॥१३॥
स्वर्भानुरभवत् सूर्यः शुक्रश्चासीद बृहस्पतिः ।
येऽन्येऽप्यधिकृता देवास्तेषु जाताः सुरारयः ॥१४॥
पञ्चमस्य कलेरादौ द्वापरान्ते सुदारुणः ।
देवासुरोऽभूत् संग्रामो यत्र शक्रोऽप्यभूद बलिः ॥१५॥
पातालाः सप्त तस्यासन् वशे लोकत्रयं तथा ।
भूर्भुवः स्वरिति ख्यातं दशलोकाधिपो बलिः ॥१६॥
स्वर्गे स्वयं निवसति भुञ्जन् भोगान् सुदुर्लभान् ।
तत्रोपासन्त गन्धर्वा विश्वावसुपुरोगमाः ॥१७॥
तिलोत्तमाद्याप्सरसो नृत्यन्ति सुरतापस ।
वादयन्ति च वाद्यानि यक्षविद्याधरादयः ॥१८॥
विविधानपि भोगांश्च भुञ्जन् दैत्येश्वरो बलिः ।
सस्मार मनसा ब्रह्मन् प्रह्लादं स्वपितामहम् ॥१९॥
संस्मृतो नप्तृणा चासौ महाभागवतोऽसुरः ।
समभ्यागात् त्वरायुक्तः पातालात् स्वर्गमव्ययम् ॥२०॥
तमागतं समीक्ष्यैव त्यक्त्वा सिंहासनं बलिः ।
कृताञ्जलिपुटो भूत्वा ववन्दे चरणावुभौ ॥२१॥
पादयोः पतितं वीरं प्रह्लादस्त्वरितो बलिम् ।
समुत्थाप्य परिष्वज्य विवेश परमासने ॥२२॥
तं बलिः प्राह भोस्तात त्वत्प्रसादात् सुरा मया ।
निर्जिताः शक्रराज्यं च हतं वीर्यबलान्मया ॥२३॥
तदिदं तात मद्वीर्यविनिर्जितसुरोत्तमम् ।
त्रैलोक्यराज्यं भुङ्क्ष्व त्वं मयि भृत्ये पुरः स्थिते ॥२४॥
एतावता पुण्ययुतः स्यामहं तात यत् स्वयम् ।
त्वदङ्घ्रिपूजाभिरतस्त्वदुच्छिष्टान्नभोजनः ॥२५॥
न सा पालयतो राज्यं धृतिर्भवति सत्तम ।
या धृतिर्गुरुशुश्रूषां कुर्वतो जायते विभो ॥२६॥
ततस्तदुक्तं बलिना वाक्यं श्रुत्वा द्विजोत्तम ।
प्रल्हादः प्राह वचनं धर्मकामार्थसाधनम् ॥२७॥
मया कृतं राज्यमकण्टकं पुरा प्रशासिता भूः सुहदोऽनुपूजिताः ।
दत्तं यथेष्टं जनितास्तथात्मजाः स्थितो बले सम्प्रति योगसाधकः ॥२८॥
गृहीतं पुत्र विधिवन्मया भूयोऽर्पित तव ।
एवं भव गुरुणाम त्वं सदा शुश्रूषणे रतः ॥२९॥
इत्येवमुक्त्वा वचनं करे त्वादाय दक्षिणे ।
शाक्रे सिंहासने ब्रह्मन् बलिं तूर्णं न्यवेशयत् ॥३०॥
सोपविष्टो महेन्द्रस्य सर्वरत्नमये शुभे ।
सिंहासने दैत्यपतिः शुशुभे मघवानिव ॥३१॥
तत्रोपविष्टश्चैवासौ कृताञ्जलिपुटो नतः ।
प्रह्लादं प्राह वचनं मेघगम्भीरया गिरा ॥३२॥
यन्मया तात कर्तव्यं त्रैलोक्यं परिरक्षता ।
धर्मार्थकाममोक्षेब्यस्तदादिशतु मे भवान् ॥३३॥
तद्वाक्यसमकालं च शुक्रः प्रह्लादमब्रवीत् ।
यद्युक्तं तन्महाबाहो वदस्वाद्योत्तरं वचः ॥३४॥
वचनं बलिशुक्राभ्यां श्रुत्वा भागवतोऽसुरः ।
प्राह धर्मार्थसंयुक्तं प्रह्लादो वाक्यमुत्तमम् ॥३५॥
यदायत्यां क्षमं राजन् यद्धितं भुवनस्य च ।
अविरोधेन धर्मस्य अर्थस्योपार्जनं च यत् ॥३६॥
सर्वसत्त्वानुगमनं कामवर्गफलं च यत् ।
परत्रेह च यच्छ्रेयः पुत्र तत्कर्म आचर ॥३७॥
यथा श्लाघ्यं प्रयास्यद्य यथा कीर्तिर्भवेत्तव ।
यथा नायशसो योगस्तथा कुरु महामते ॥३८॥
एतदर्थं श्रियं दीप्तां काङ्क्षन्ते पुरुषोत्तमाः ।
येनैतानि गृहेऽस्माकं निवसन्ति सुनिर्वृताः ॥३९॥
कुलजो व्यसने मग्नः सखा चार्थबहिः कृतः ।
वृद्धो ज्ञातिर्गुणी विप्रः कीर्तिश्च यशसा सह ॥४०॥
तस्माद यथैते निवसन्ति पुत्र राज्यस्थितस्येह कुलोद्गताद्याः ।
तथा यतस्वामतलसत्त्वचेष्ट यथा यशस्वी भविताऽसि लोके ॥४१॥
भूम्यां सदा ब्राह्मणभूषितायां क्षत्रान्वितायाम दृढवापिताताम् ।
शुश्रूषणासक्तसमुद्भवायामृद्धिं प्रयान्तीह नराधिपेन्द्राः ॥४२॥
तस्माद् द्विजाग्र्याः श्रुतिशास्त्रयुक्ता नराधिपांस्ते प्रतियाजयन्तुः ।
दिव्यैर्यजन्तु क्रतुभिर्द्विजेन्द्रा यज्ञाग्निधूमेन नृपस्य शान्तिः ॥४३॥
तपोऽध्ययनसम्पन्ना याजनाध्यापने रताः ।
सन्तु विप्रा बले पूज्यास्त्वत्तोऽनुज्ञामवाप्य हि ॥४४॥
स्वाध्याययज्ञनिरता दातारः शस्त्रजीविनः ।
क्षत्रियाः सन्तु दैत्येन्द्र प्रजापालनधर्मिणः ॥४५॥
यज्ञाध्ययनसम्पन्ना दातारः कृषिकारिणः ।
पाशुपाल्यं प्रकुर्वन्तु वैश्या विपणिजीविनः ॥४६॥
ब्राह्मणक्षत्रियविशां सदा शुश्रूषणे रताः ।
शूद्राः सन्त्वसुरश्रेष्ठ तवाज्ञाकारिणः सदा ॥४७॥
यदा वर्णाः स्वधर्मस्था भवन्ति दितिजेश्वर ।
धर्मवृद्धिस्तदा स्याद्वै धर्मवृद्धौ नृपोदयः ॥४८॥
तस्माद वर्णाः स्वधर्मस्थास्त्वया कार्याः सदा बले ।
तदवृद्धौ भवतो वृद्धिस्तद्धानौ हानिरुच्यते ॥४९॥
इत्थं वचः श्राव्य महासुरेन्द्रो बलिं महात्मा स बभूव तूष्णीम् ।
ततो यदाज्ञापयसे करिष्ये इत्थं बलिः प्राह वचो महर्षे ॥५०॥