पुलस्त्य उवाच
द्वितीयं पापशमनं स्तवं वक्ष्यामि ते मुने ।
येन सम्यगधीतेन पापं नाशं तु गच्छति ॥१॥
मत्स्यं नमस्ये देवेशं कूर्मं गोविन्दमेव च ।
हयशीर्षं नमस्येऽहं भवं विष्णुं त्रिविक्रमम् ॥२॥
नमस्ये माधवेशानौ हषीकेशकुमारिणौ ।
नारायणं नमस्येऽहं नमस्ये गरुडासनम् ॥३॥
ऊर्ध्वकेशं नृसिंहं च रुपधारं कुरुध्वजम् ।
कामपालमखण्डं च नमस्ये ब्राह्मणप्रियम् ॥४॥
अजितं विश्वकर्माणं पुण्डरीकं द्विजप्रियम् ।
हंसं शम्भुं नमस्ये च ब्रह्माणं सप्रजापतिम् ॥५॥
नमस्ये शूलबाहुं च देवं चक्रधरं तथा ।
शिवं विष्णुं सुवर्णाक्षं गोपतिं पीतवाससम् ॥६॥
नमस्ये च गदापाणिं नमस्ये च कुशेशयम् ।
अर्धनारीश्वरं देवं नमस्ये पापनाशनम् ॥७॥
गोपालं च सवैकुण्ठं नमस्ये चापराजितम् ।
नमस्ये विश्वरुपं च सौगन्धिं सर्वदाशिवम् ॥८॥
पाञ्चालिकं हयग्रीवं स्वयम्भुवममरेश्वरम् ।
नमस्ये पुष्कराक्षं च पयोगन्धिं च केशवम् ॥९॥
अविमुक्तं च लोलं च ज्येष्ठेशं मध्यमं तथा ।
उपशान्तं नमस्येऽहं मार्कण्डेयं सजम्बुकम् ॥१०॥
नमस्ये पद्मकिरणं नमस्ये वडवामुखम् ।
कार्तिकेयं नमस्येऽहं बाह्लीकं शिखिनं तथा ॥११॥
नमस्ये स्थाणुमनघं नमस्ये वनमालिनम् ।
नमस्ये लाङ्गलीशं च नमस्येऽहं श्रियः पतिम् ॥१२॥
नमस्ये च त्रिनयनं नमस्ये हव्यवाहनम् ।
नमस्ये च त्रिसौवर्णं नमस्ये धरणीधरम् ॥१३॥
त्रिणाचिकेतं ब्रह्मेशं नमस्ये शशिभूषणम् ।
कपर्दिनं नमस्ये च सर्वामयविनाशनम् ॥१४॥
नमस्ये शशिनं सूर्यं ध्रुवं रौद्रं महौजसम् ।
पद्मनाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम् ॥१५॥
नमस्ये भीमहंसौ च नमस्ये हाटकेश्वरम् ।
सदाहंसं नमस्ये च नमस्ये प्राणतर्पणम् ॥१६॥
नमस्ये रुक्मकवचं महायोगिनमीश्वरम् ।
नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम् ॥१७॥
नमस्ये च चतुर्बाहुं नमस्ये वसुधाधिपम् ।
वनस्पतिं पशुपतिं नमस्ये प्रभुमव्ययम् ॥१८॥
श्रीकण्ठं वासुदेवं नीलकण्ठं सदण्डिनम् ।
नमस्ये सर्वमनघं गौरीशं नकुलीश्वरम् ॥१९॥
मनोहरं कृष्णकेशं नमस्ये चक्रपाणिनम् ।
यशोधरं महाबाहुं नमस्ये च कुशप्रियम् ॥२०॥
भूधरं छादितगदं सुनेत्रं शूलशड्खिनम् ।
भद्राक्षं वीरभद्रं च नमस्ये शड्कुकर्णिकम् ॥२१॥
वृषध्वजं महेशं च विश्वामित्रं शशिप्रभम् ।
उपेन्द्रं चैव गोविन्दं नमस्ये पड्कजप्रियम् ॥२२॥
सहस्त्रशिरसं देवं नमस्ये कुन्दमालिनम् ।
कालाग्निं रुद्रदेवेशं नमस्ये कृत्तिवाससम् ॥२३॥
नमस्ये छागलेशं च नमस्ये पड्कजासनम् ।
सहस्त्राक्षं कोकनदं नमस्ये हरिशड्करम् ॥२४॥
अगस्त्यं गरुडं विष्णुं कपिलं ब्रह्मवाङ्मयम् ।
सनातनं च ब्रह्माणं नमस्ये ब्रह्मतत्परम् ॥२५॥
अप्रतर्क्यं चतुर्बाहुं सहस्त्रांशुं तपोमयम् ।
नमस्ये धर्मराजानं देवं गरुडवाहनम् ॥२६॥
सर्वभूतगतं शान्तं निर्मलं सर्वलक्षणम् ।
महायोगिनमव्यक्तं नमस्ये पापनाशनम् ॥२७॥
निरञ्जनं निराकारं निर्गुणं निर्मलं पदम् ।
नमस्ये पापहन्तारं शरण्यं शरणं व्रजे ॥२८॥
एतत् पवित्रं परमं पुराणं प्रोक्तं त्वगस्त्येन महर्षिणा च ।
धन्यं यशस्यं बहुपापनाशनं संकीर्तनात् स्मरणात् संश्रवाच्च ॥२९॥