सनत्कुमार उवाच
अथोवाच महादेवो देवान् ब्रह्मपुरोगमान् ।
ऋषीणां चैव प्रत्यक्षं तीर्थमाहात्म्यमुत्तमम् ॥१॥
एतत् सांनिहितं प्रोक्तं सरः पुण्यतमं महत् ।
मयोपसेवितं यस्मात् तस्मान्मुक्तिप्रदायकम् ॥२॥
इह ये पुरुषाः केचिद ब्राह्मणाः क्षत्रिया विशः ।
लिङ्गस्य दर्शनादेव पश्यन्ति परमं पदम् ॥३॥
अहन्यहनि तीर्थानि आसमुद्रसरांसि च ।
स्थाणुतीर्थं समेष्यन्ति मध्यं प्राप्ते दिवाकरे ॥४॥
स्तोत्रेणानेन च नरो यो मां स्तोष्यति भक्तितः ।
तस्याहं सुलभो नित्यं भविष्यामि न संशयः ॥५॥
इत्युक्त्वा भगवान् रुद्रो ह्यन्तर्धानं गतः प्रभुः ।
देवाश्च ऋषयः सर्वे स्वानि स्थानानि भोजिरे ॥६॥
ततो निरन्तरं स्वर्गं मानुषैर्मिश्रितं कृतम् ।
स्थाणुलिङ्गस्य माहात्म्यं दर्शनात् स्वर्गमाप्नुयात् ॥७॥
ततो देवाः सर्वं एव ब्रह्माणां शरणं ययुः ।
तानुवाच तदा ब्रह्मा ब किमर्थहि चागताः ॥८॥
ततो देवाः सर्व एव इदं वचनमब्रुवन् ।
मानुषेभ्यो भयं तीव्रं रक्षास्मा कं पितमह ॥९॥
तानुवाच तदा ब्रह्मा सुरांस्त्रदशनायकः ।
पाशुना पूर्यतां शीघ्रं सरः शके हितं कुरु ॥१०॥
ततो ववर्श भगवान् पांशुना पाकशासनः ।
सप्ताहं पूरयामास सरिओ एवैस्तदा वृतः ॥११॥
तं दृष्ट्वा पांशुवर्षं देवदेवितो महेश्वरः ।
करेण धारयामास लिङ्गं तीर्थवंत्म जटा ॥१२॥
तस्मात् पुण्यतरं तीथमार्थ यत्रोदकं स्थितम् ।
तस्मिन् स्त्रातः सर्वतीर्थैः स्त्रा तो भवित मानवः ॥१३॥
यस्तत्र कुरुते श्राद्धं वटलिङ्गस्य चान्तरे ।
तस्य प्रीताश्च पितरो दास्यन्ति भुवि दुर्लोभम् ॥१४॥
पूरितं च ततो दृष्ट्वा ऋषयः सर्व एव ते
पांशुना सर्वगात्राणि स्पृशन्ति श्रद्धया युताः ॥१५॥
तेऽपि निर्धूतपापस्ते पांशुना मुनयो गताः ।
पूज्यमानाः सुरगणैः प्रयाता ब्राह्मणः पदम् ॥१६॥
ये तु सिद्धा महात्मानस्ते लिङ्गं पूजयन्ति च ।
व्रजन्ति परमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥१७॥
एवं ज्ञात्वा तदा ब्रह्मा लिङ्गं शैलमयं तदा ।
आद्यलिङ्गं तदा स्थाप्य तस्योपरि दधार तत् ॥१८॥
ततः कालेन महता तेजसा तस्य रञ्जितम् ।
तस्यापि स्पर्शनात् सिद्धः परं पदमवाप्नुयात् ॥१९॥
ततो देवैः पुनर्ब्रह्मा विज्ञप्तो द्विजसत्तम ।
एते यान्ति परां सिद्धिं लिङ्गस्य दर्शनान्नराः ॥२०॥
तच्छुत्वा भगवान् ब्रह्मा देवानां हितकाम्यया ।
उपर्युपरि लिङ्गानि सप्त तत्र चकार ह ॥२१॥
ततो ये मुक्तिकामाश्च सिद्धाः शमपरायणाः ।
सेव्यं पांशुं प्रयत्नेन प्रयाताः परमं पदम् ॥२२॥
पांशवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः ।
महादुष्कृतकर्माणं प्रयान्ति परमं पदम् ॥२३॥
अज्ञानाञ्ज्ञानतो वापि स्त्रियो वा पुरुषस्य वा ।
नश्यते दुष्कृतं सर्वं स्थाणुतीर्थप्रभावतः ॥२४॥
लिङ्गस्य दर्शनान्मुक्तिः स्पर्शनाच्च वटस्य च ।
तत्संनिधौ जले स्त्रात्वा प्राप्नोत्यभिमतं फलम् ॥२५॥
पितृणां तर्पनं यस्तु जले तस्मिन् करिष्यति ।
बिन्दौ बिन्दौ तु तोयस्य अनन्तफलभाग्भवेत् ॥२६॥
यस्तु कृष्णातिलैः सार्द्धं लिङ्गस्य पश्चिमे स्थितः ।
तर्पयेच्छ्रद्धया युक्तः स प्रीणाति युगत्रयम् ॥२७॥
यावन्मन्वन्तरं प्रोक्त्म यावल्लिङ्गस्य संस्थितिः ।
तावत्प्रीताश्च पितरः पिबन्ति जलमुत्तमम् ॥२८॥
कृते युगे सान्निहत्यं त्रेतायां वायुसंज्ञितम् ।
कलिद्वापरयोर्मध्ये कूपं रुद्रहदं स्मृतम् ॥२९॥
चैत्रस्य कृष्णपक्षे च चतुर्दश्यां नरोत्तमः ।
स्त्रात्वा रुद्रहदे तीर्थे परं पदमवाप्नुयात् ॥३०॥
यस्तु वटे स्थितो रात्रिं ध्यायते परमेश्वरम् ।
स्थाणोर्वटप्रसादेन मनसा चिन्तितं फलम् ॥३१॥