सनत्कुमार उवाच
स्थाणोर्वटस्योत्तरतः शुक्रतीर्थं प्रकीर्तितम् ।
स्थाणोर्वटस्य पूर्वेण सोमतीर्थं द्विजोत्तम ॥१॥
स्थाणोर्वटं दक्षिणतो दक्षतीर्थमुदाहतम् ।
स्थाणोर्वटात् पश्चिमतः स्कन्दतीर्थं प्रतिष्ठितम् ॥२॥
एतानि पुण्यतीर्थानि मध्ये स्थाणुरिति स्मृतः ।
तस्य दर्शनमात्रेण प्राप्नोति परमं पदम् ॥३॥
अष्टम्यां च चतुर्दश्यां यस्त्वेतानि परिक्रमेत् ।
पदे पदे यज्ञफलं स प्राप्नोति न संशयः ॥४॥
एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तदा ।
मरुदभिर्वह्निभिश्चैव सेवितानि प्रयत्नतः ॥५॥
अन्ये ये प्राणिनः केचित प्रविष्टाः स्थाणुमुत्तमम् ।
सर्वपापविनिर्मुक्ताः प्रयान्ति परमां गतिम् ॥६॥
अस्ति तत्संनिधौ लिङ्गं देवदेवस्य शूलिनः ।
उमा च लिङ्गरुपेण हरपार्श्वं न मुञ्चति ॥७॥
तस्य दर्शनमात्रेण सिद्धिं प्राप्नोति मानवः ।
वटस्य उत्तरे पार्श्वे तक्षकेण महात्मना ॥८॥
प्रतिष्ठितं महालिङ्गं सर्वकामप्रदायकम् ।
वटस्य पूर्वदिग्भागे विश्वकर्मकृतं महत् ॥९॥
लिङ्गं प्रत्यङ्मुखं दृष्ट्वा सिद्धिमाप्नोति मानवः ।
तत्रैव लिङ्गरुपेण स्थिता देवी सरस्वती ॥१०॥
प्रणम्य तां प्रयत्नेन बुद्धिं मेधां च विन्दति ।
वटपार्श्वे स्थितं लिङ्गं ब्रह्मणा तत् प्रतिष्ठितम् ॥११॥
दृष्ट्वा वटेश्वरं देवं प्रयाति परमं पदम् ।
ततः स्थाणुवटं दृष्ट्या कृत्वा चापि प्रदक्षिणम् ॥१२॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।
स्थाणोः पश्चिमदिग्भागे नकुलीशो गणः स्मृतः ॥१३॥
तमभ्यर्च्य प्रयत्नेन सर्वपापैः प्रमुच्यते ।
तस्य दक्षिणदिग्भागे तीर्थं रुद्रकरं स्मृतम् ॥१४॥
तस्मिन् स्त्रातः सर्वतीर्थे स्त्रातो भवति मानवः ।
तस्य चोत्तरदिग्भागे रावणेन महात्मना ॥१५॥
प्रतिष्ठितं महालिङ्गं गोकर्णं नाम नामतः ।
आषाढमासे या कृष्णा भविष्यति चतुर्दशी ।
तस्यां योऽर्चति गोकर्णं तस्य पुण्यफलं श्रृणु ॥१६॥
कामतोऽकामतो वापि यत् पापं तेन संचितम् ।
तस्माद् विमुच्यते पापात् पूजयित्वा हरं शुचिः ॥१७॥
कौमारब्रह्मचर्येण यत्पुण्यं प्राप्यते नरैः ।
तत्पुण्यं सकलं तस्य अष्टम्यां योऽर्चयेच्छिवम् ॥१८॥
यदीच्छेत् परमं रुपं सौभाग्यं धनसंपदः ।
कुमारेश्वरमाहात्म्यात् सिद्ध्यते नात्र संशयः ॥१९॥
तस्य चोत्तरदिग्भागे लिङ्गं पूज्य विभीषणः ।
अजरश्चामरश्चैव कल्पयित्वा बभूव ह ॥२०॥
आषाढस्य तु मासस्य शुक्ला या चाष्टमी भवेत् ।
तस्यां पूज्य सोपवासो ह्यम्कृतत्वमवाप्नुयात् ॥२१॥
खरेण पूजितं लिङ्गं तस्मिन् स्थाने द्विजोत्तम ।
तं पूजयित्वा यत्नेन सर्वकामानवाप्नुयात् ॥२२॥
चैत्रमासे सिते पक्षे यो नरस्तत्र पूजयेत् ।
तस्य तौ वरदौ देवौ प्रयच्छेतेऽभिवाञ्छितम् ॥२४॥
स्थाणोर्वटस्य पूर्वेण हस्तिपादेश्वरः शिवः ।
तं दृष्ट्वा मुच्यते पापैरन्यजन्मनि संभवैः ॥२५॥
तस्य दक्षिणतो लिङ्गं हारीतस्य ऋषेः स्थितम् ।
यत् प्रणम्य प्रयत्नेन सिद्धं प्राप्नोति मानवः ॥२६॥
तस्य दक्षिणपार्श्वे तु वापीतस्य महात्मनः ।
लिङ्गं त्रैलोक्यविख्यातं सर्वपापहरं शिवम् ॥२७॥
कङ्कालरुपिणा चापि रुद्रेण सुमहात्मना ।
प्रतिष्ठितं महालिङ्गं सर्वपापप्रणाशनम् ॥२८॥
भुक्तिदं मुक्तिदं प्रोक्तं सर्वकिल्बिषनाशनम् ।
लिङ्गस्य दर्शनाच्चैव अग्निष्टोमफलं लभेत् ॥२९॥
तस्य पश्चिमदिग्भागे लिङ्गं सिद्धप्रतिष्ठितम् ।
सिद्धेश्वरं तु विख्यातं सर्वसिद्धिप्रदायकम् ॥३०॥
तस्य दक्षिणदिग्भागे मृकण्डेन महात्मना ।
तत्र प्रतिष्ठितं लिङ्गं दर्शनात् सिद्धिदायकम् ॥३१॥
तस्य पूर्वे च दिग्भागे आदित्येन महात्मना ।
प्रतिष्ठितं लिङ्गवरं सर्वकिल्बिषनाशनम् ॥३२॥
चित्राङ्गदस्तु गन्धर्वो रम्भा चाप्सरसां वरा ।
परस्परं सानुरागौ स्थाणुदर्शनकाङ्क्षिणौ ॥३३॥
दृष्ट्वा स्थाणुं पूजयित्वा सानुरागौ परस्परम् ।
आराध्य वरदं देवं प्रतिष्ठाप्य महेश्वरम् ॥३४॥
चित्राङ्गदेश्वरं दृष्टा तथा रम्भेश्वरं द्विज ।
सुभगो दर्शनीयश्च कुले जन्म समाप्नुयात् ॥३५॥
तस्य दक्षिणतो लिङ्गं वज्रिणा स्थापितं पुरा ।
तस्य प्रसादात् प्राप्नोति मनसा चिन्तितं फलम् ॥३६॥
पराशरेण मुनिना तथैवाराध्य शंकरम् ।
प्राप्तं कवित्वं परमं दर्शनाच्छंकरस्य च ॥३७॥
वेदव्यासेन मुनिना आराध्य परमेश्वरम् ।
सर्वज्ञत्वं ब्रह्मज्ञानं प्राप्तं देवप्रसादतः ॥३८॥
स्थाणोः पश्चिमदिग्भागे वायुना जगदायुना ।
प्रतिष्ठितं महालिङ्गं दर्शनात् पापनाशनम् ॥३९॥
तस्यापि दक्षिणे भागे लिङ्गं हिमवतेश्वरम् ।
प्रतिष्ठितं पुण्यकृतां दर्शनात् सिद्धिकारकम् ॥४०॥
तस्यापि पश्चिमे भागे कार्तवीर्येण स्थापितम् ।
लिङ्गं पापहरं सद्यो दर्शनात् पुण्यमाप्नुयात् ॥४१॥
तस्याप्युत्तरदिग्भागे सुपार्श्वे स्थापितं पुनः ।
आराध्य हनुमांश्चाप सिद्धिं देवप्रसादतः ॥४२॥
तस्यैव पूर्वदिग्भागे विष्णुना प्रभविष्णुना ।
आराध्य वरदं देवं चक्रं लब्धं सुदर्शनम् ॥४३॥
तस्यापि पूर्वदिग्भागे मित्रेण वरुनेन च ।
प्रतिष्ठितौ लिङ्गवरौ सर्वकामप्रदायकौ ॥४४॥
एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तथा ।
सेवितानि प्रयत्नेन सर्वपापहराणि वै ॥४५॥
स्वर्णलिङ्गस्य पश्चात्तु ऋषिभिस्तत्त्वदर्शिभिः ।
प्रतिष्ठितानि लिङ्गानि येषां संख्या न विद्यते ॥४६॥
तथा ह्युत्तरतस्तस्य यावदोघवती नदी ।
सहस्त्रमेकं लिङ्गानां देवपश्चिमतः स्थितम् ॥४७॥
तस्यापि पूर्वदिग्भागे बालखिल्यैर्महात्मभिः ।
प्रतिष्ठिता रुद्रकोटिर्यावत्संनिहितं सरः ॥४८॥
दक्षिणेन तु देवस्य गन्धर्वैर्यक्षकिन्नरैः ।
प्रतिष्ठितानि लिङ्गानि येषां संख्या न विद्यते ॥४९॥
तिस्त्रः कोट्योऽर्धकोटी च लिङ्गानां वायुरब्रवीत् ।
असंख्याताः सहस्त्राणि ये रुद्राः स्थाणुमाश्रिताः ॥५०॥
एतञ्ज्ञात्वा श्रद्दधानः स्थाणुलिङ्गं समाश्रयेत् ।
यस्य प्रसादात् प्राप्नोति मनस चिन्तितं फलम् ॥५१॥
अकामो वा सकामो वा प्रविष्टः स्थाणुमन्दिरम् ।
विमुक्तः पातकैर्घोरैः प्राप्नोति परमं पदम् ॥५२॥
चैत्रमासे त्रयोदश्यां दिव्यनक्षत्रयोगतः ।
शुक्रार्कचन्द्रसंयोगे दिने पुण्यतमे शुभे ॥५३॥
प्रतिष्ठितं स्थाणुलिङ्ग ब्रह्मणा लोकधारिणा ।
ऋषिभिर्देवसंघैश्च पूजितं शाश्वतीः समाः ॥५४॥
तस्मिन् काले निराहारा मानवाः श्रद्धयान्विताः ।
पूजयन्ति शिवं ये वै ते यान्ति परमं पदम् ॥५५॥
तदारुढमिदं ज्ञात्वा ये कुर्वन्ति प्रदक्षिणम् ।
प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुन्धरा ॥५६॥